संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ९२

श्रीवामनपुराण - अध्याय ९२

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


नारद उवाच

श्रुतं यथा भगवता बलिर्बद्धो महात्मना ।

किंत्वस्त्यन्यत्तु प्रष्टव्यं तच्छुत्वा कथयाद्य मे ॥१॥

भगवान् देवराजाय दत्त्वा विष्णुस्त्रिविष्टिपम् ।

अन्तर्धानं गतः क्वासौ सर्वात्मा तात कथ्यताम् ॥२॥

सुतलस्थश्च दैत्येन्द्रः किमकार्षीत् तथा वद ।

का चेष्टा तस्य विप्रर्षे तन्मे व्याख्यातुमर्हसि ॥३॥

पुलस्त्य उवाच

अन्तर्धाय सुरावासं वामनोऽभूदवामनः ।

जगाम ब्रह्मसदनमधिरुह्योरगाशनम् ॥४॥

वासुदेवं समायान्तं ज्ञात्वा ब्रह्माऽव्ययात्मकः ।

समुत्थायाथ सौहार्दात् सस्वजे कमलासनः ॥५॥

परिष्वज्यार्च्य विधिना वेधाः पूजादिना हरिम् ।

पप्रच्छ किं चिरेणेह भवतागमनं कृतम् ॥६॥

अथोवाच जगत्स्वामी मया कार्यं महत्कृतम् ।

सुराणां क्रतुभागार्थं स्वयंभो बलिबन्धनम् ॥७॥

पितामहस्तद वचनं श्रुत्वा मुदितमानसः ।

कथं कथमिति प्राह त्वं मां दर्शितुमर्हसि ॥८॥

इत्येवमुक्ते वचने भगवान् गरुडध्वजः ।

दर्शयामास तद्रूपं सर्वदेवमयं लघु ॥९॥

तं दृष्ट्वा पुण्डरीकाक्षं योजनायुतविस्तृतम् ।

तावानेवोर्ध्वमानेन ततोऽजः प्रणतोऽभवत् ॥१०॥

ततः प्रणम्य सुचिरं साधु साध्वित्युदीर्य च ।

भक्तिनम्रो महादेवं पद्मजः स्तोत्रमीरयत् ॥११॥

ॐ नमस्ते देवाधिदेव वासुदेव एकश्रृड्ग बहुरुप वृषाकपे भूतभावन सुरासुरवृष सुरासुरमथन पीतवासः श्रीनिवास असुरनिर्मितान्त अमितनिर्मित कपिल महाकपिल विष्वक्सेन नारायण । ध्रुवध्वज सत्यध्वज खड्गध्वज तालध्वज वैकुण्ठ पुरुषोत्तम वरेण्य विष्णो अपराजित जय जयन्त विजय कृतावर्त महादेव अनादे अनन्त आद्यन्तमध्यनिधन पुरञ्जय धनञ्जय शुचिश्रव पृश्र्निगर्भ । कमलगर्भ कमलायताक्ष श्रीपते विष्णुमूल मूलाधिवास धर्माधिवास धर्मवास धर्माध्यक्ष प्रजाध्यक्ष गदाधर श्रीधर श्रुतिधर वनमालाधर लक्ष्मीधर धरणीधर पद्मनाभ । विरिञ्चे आर्ष्टिषेण महासेन सेनाध्यक्ष पुरुष्टुत बहुकल्प महाकल्प कल्पनामुख अनिरुद्ध सर्वग सर्वात्मन् द्वादशात्मक सूर्यात्मक सोमात्मक कालात्मक व्योमात्मक भूतात्मक । रसात्मक परमात्मन् सनातन मुञ्जकेश हरिकेश गुडाकेश केशव नील सूक्ष्म स्थूल पीत रक्त श्वेत श्वेताधिवास रक्ताम्बरप्रिय प्रीतिकर प्रीतिवास हंस नीलवास सीरध्वज सर्वलोकधिवास । कुशेशय अधोक्षज गोविन्द जनार्दन मधुसूदन वामन नमस्ते । सहस्त्रशीर्षोऽसि सहस्त्रदृगसि सहस्त्रपादोऽसि त्वं कमलोऽसि महापुरुषोऽसि सहस्त्रबाहुरसि सहस्त्रमूर्तिरसि त्वां देवाः प्राहुः सहस्त्रवदनं ते नमस्ते । ॐ नमस्ते विश्वदेवेश विश्वभूः विश्वात्मक विश्वरुप विश्वसम्भव त्वत्तो विश्वमिदमभवद् ब्राह्मणास्त्वन्मुखेभ्योऽभवन् क्षत्रिया दोः सम्भूताः ऊरुयुग्माद विशोऽभवन् शूद्राश्चरणकमलेभ्यः । नाभ्या भवतोऽन्तरिक्षमजायत इन्द्राग्नी वक्त्रतो नेत्राद् भानुरभून्मनसः शशाड्कः अहं प्रसादजस्तव क्रोधात् त्र्यम्बकः प्राणज्जातो भवतो मातरिश्वा शिरसो द्यौरजायत श्रोत्राद दिशो भूरियं चरणादभूत् श्रोत्रोद्भवा दिशो भवतः स्वयंभो नक्षत्रास्तेजोद्भवाः । मूर्त्तयश्चामूर्तयश्च सर्वे त्वत्तः समुद्भूताः । अतो विश्वात्मकोऽसि ॐ नमस्ते पुष्पहासोऽसि महाहासोऽसि परमोऽसि ॐकारोऽसि वषट्कारोऽसि स्वाहाकारोऽसि वौषट्कारोऽसि स्वधाकारोऽसि वेदमयोऽसि तीर्थमयोऽ सि यजमानमयोऽसि । यज्ञमयोऽसि सर्वधाताऽसि यज्ञभोक्ताऽसि शुक्रधाताऽसि भूर्द भुवर्द स्वर्द स्वर्णद गोद अमृतदोऽसीति । ॐ ब्रह्मादिरसि ब्रह्ममयोऽसि यज्ञोऽसि वेदकामोऽसि वेद्योऽसि यज्ञधारोऽसि महामीनोऽसि महासेनोऽसि महाशिरा असि । नृकेसर्यसि होताऽसि होम्योऽसि हव्योऽसि हूयमानोऽसि हयमेधोऽसि पोताऽसि पावयिताऽसि पूतोऽसि पूज्योऽसि दाताऽसि हन्यमानोऽसि ह्नियमाणोऽसि हर्त्तासीति ॐ । नीतिरसि नेताऽसि अग्र्योऽसि विश्वधामाऽसि शुभाण्डोऽसि ध्रुवोऽस्मि आरणेयोऽसि । ध्यानोऽसि ध्येयोऽसि श्रेयोऽसि ज्ञानोऽसि यष्टाऽसि दानोऽसि भूमाऽसि ईक्ष्योऽसि ब्रह्माऽसि होताऽसि उदगाताऽसि गतिमतां गतिरसि ज्ञानिनां ज्ञानमसि योगिनां योगोऽसि मोक्षगामिनां मोक्षोऽसि श्रीमतां श्रीरसि गृह्योऽसि पाताऽसि परमसि । सोमोऽसि सूर्योऽसि दीक्षाऽसि दक्षिणाऽसि नरोऽसि त्रिनयनोऽसि महानयनोऽसि आदित्यप्रभवोऽसि सुरोत्तमोऽसि शुचिरसि शुक्रोऽसि नभोऽसि नभस्योऽसि इषोऽसि ऊर्जोऽसि सहोऽसि सहस्योऽसि तपोऽसि तपस्योऽसि मधुरसि । माधवोऽसि कालोऽसि संक्रमोऽसि विक्रमोऽसि पराक्रमोऽसि अश्वग्रीवोऽसि महामेधोऽसि शड्करोऽसि हरीश्वरोऽसि शम्भुरसि ब्रह्मेशोऽसि सूर्योऽसि मित्रावरुणोऽसि प्राग्वंशकायोऽसि भूतादिरसि महाभूतोऽसि ऊर्ध्वकर्माऽ‍सि कर्त्ताऽसि । सर्वपापविमोचनोऽसि त्रिविक्रमोऽसि ॐ नमस्ते ।

पुलस्त्य उवाच

इत्थं स्तुतः पद्मभवेन विष्णुस्तपस्विभिश्चाद्भुतकर्मकारी ।

प्रोवाच देवं प्रपितामहं तु वरं वृणीष्वामलसत्त्ववृत्ते ॥१२॥

तमब्रवीत् प्रीतियुतः पितामहो वरं ममेहाद्य विभो प्रयच्छ ।

रुपेण पुण्येन विभो ह्यनेन संस्थीयतां मद्भवने मुरारे ॥१३॥

इत्थं वृते देववरेण प्रादात् प्रभुस्तथास्त्विति तमव्ययात्मा ।

तस्थौ हि रुपेण हि वामनेन सम्पूज्यमानः सदने स्वयम्भोः ॥१४॥

नृत्यन्ति तत्राप्सरसां समूहा गायन्ति गीतानि सुरेन्द्रगायनाः ।

विद्याधरास्तूर्यवरांश्च वादयन् स्तुवन्ति देवासुरसिद्धसड्घाः ॥१५॥

ततः समाराध्य विभुं सुराधिपः पितामहो धौतमलः स शुद्धः ।

स्वर्गे विरिञ्चिः सदनात् सुपुष्पाण्यानीय पूजां प्रचकार विष्णोः ॥१६॥

स्वर्गे सहस्त्रं स तु योजनानां विष्णोः प्रमाणेन हि वामनोऽभूत् ।

तत्रास्य शक्रः प्रचकार पूजां स्वयम्भुवस्तुल्यगुणां महर्षे ॥१७॥

एतत् तवोक्तं भगवांस्त्रिविक्रमश्चकार यद देवहितं महात्मा ।

रसातलस्थो दितिजश्चकार यत्तच्छृणुष्वाद्य वदामि विप्र ॥१८॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP