तिथिवारं च नक्षत्रं नामाक्षरसमन्वितम् ।
वेदेन हरते भोगं शेषं नाम तदुच्यते ॥१॥
व्योमाद्यौमा च मूर्द्धा च पद्मा चैव चतुर्थकम् ।
जन्मपत्री यदानाम यो जानाति स पण्डितः ॥२॥
व्योमा च पितृहानिः स्याद्योमा मातृक्षयंकरी ।
मूर्द्धा ह्यायुःकरी ज्ञेया पद्मा बलप्रदायिनी ॥३॥