संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - सहजभावविचारः

मानसागरी - अध्याय ४ - सहजभावविचारः

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


पापैस्तृतीयगैः सर्वैर्बान्धवै रहितो भवेत् । सौम्यैश्च भ्रातृसंयुक्तः कीर्तियुक्तो धनप्रियः ॥१॥

लग्नात्तृतीयभवने शिखिना सह चन्द्रमाः । लक्ष्मीवाञ्जायते बालो भ्रातृहीनो न संशयः ॥२॥

आदौ जातन् रविर्हन्ति पश्चाद्भौमशनैशरो । राहुणा च ह्युभौ हन्ति केतुः सर्वनिवारकः ॥३॥

स्वक्षेत्रैस्थो यदा राहुर्धनस्थाने बृहस्पतिः । बुधेन च समायुक्तस्तस्य बन्धुत्रयं भवेत् ॥४॥

लग्ने चन्द्रे धने शुक्रो व्यये च बुधभास्करौ । राहुश्चेत्पञ्चमे बालः स भवेद्भन्धुन्धकृत् ॥५॥

धनस्थाने यदा क्रूरो भौमः सौरिसमन्वितः । सहजे च भवेद्राहुर्भ्राता तस्य न जीवति ॥६॥

षष्ठे च भवने भौमः सप्तमे राहुसम्भवः । अष्टमे च यदा सौरिर्भ्राता तस्य न जीवति ॥७॥

विलग्नस्थो यदा जीवो धने सौरिर्यदा भवेत् । राहुश्च सहजे स्थाने भ्राता तस्य न जीवति ॥८॥

सप्तमे भवने भौमश्चाष्टमेऽपि सितो यदि । नवमे च भवेत्सूर्यः स्वल्पायुश्च समूर्जितः ॥९॥

तस्य भ्राता भवेदन्यः पिता चायं समुद्धरेत् । तस्य चैको भवेत्पुत्रः सोऽपि विघ्नं विनश्यति ॥१०॥

उदयति म्रुदुभांशे सप्तमस्थे च मन्दे यदि भवति निषेकः सूतिमब्दत्रयेण ।

शशिनि तु विधिरेष द्वादशाब्दे प्रकुर्यान्निगदितमिह चिन्त्यं सूतिकालेऽपि युक्त्या ॥११॥

पुंग्रहोच्चस्थितो यस्य पत्रिकायां नरस्य च । तस्य षष्ठो भवेद्धाता चान्यथा भगिनी भवेत् ॥१२॥

N/A

References : N/A
Last Updated : March 29, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP