संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - सुखभावफलम्

मानसागरी - अध्याय ४ - सुखभावफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


तुर्यस्थाने स्थिताः पापा बालत्वे मातृकष्टदाः । सौख्यं सौम्याः प्रकुर्वन्ति राजसम्मानदायकाः ॥१॥

लग्नाच्चतुर्थगः पापो यदि स्याद् बलवत्तरः । तदा मातृवधं कुर्यात्केन्द्रे वा न परो यदि ॥२॥

द्वितीये द्वादशे स्थाने यदा पापो व्यपोहति । तदा मातुर्भयं विन्द्याच्चतुर्थे दशमे पितुः ॥३॥

पापमध्यगते लग्ने चन्द्रे व पापसंयुते । सौम्ये न धनगे पापे मातृहा सप्तवासरे ॥४॥

चतुर्थे हन्यते माता दशमे च तथा पिता । सप्तमे भवने क्रूरास्तस्य भार्या न विद्यते ॥५॥

शन्यङ्गारकमध्यस्थः सूर्यः कुर्यात् पितुर्वधम् । मध्ये वा रजनीनाथो मातुर्मरणमादिशेत् ॥६॥

चन्द्रादष्टमगे पापे चन्द्रे पापसमन्विते । पापैर्बलिष्ठैः संदृष्टः सद्यो भवति मातृहा ॥७॥

लग्नस्थाने यदा जीवो धनस्थाने शनैश्चरः । राहुश्च सहजस्थाने माता तस्य न जीवति ॥८॥

सिंह भौमस्तुलां सौरिः कन्यायां वा सितो भवेत् । मिथुने च यदा राहुर्जननी तस्य नश्यति ॥९॥

चन्द्रः पापग्रहैर्युक्तश्चन्द्रो वा पापमध्यगः । चन्द्रात्सप्तमगः पापस्तदा मातृवधो भवेत् ॥१०॥

एकादशे यदा क्रूरः पञ्चमे शुक्रशीतगौ । प्रथमं कन्यका जाता माता तस्यास्तु कष्टगा ॥११॥

धने राहुर्बुधः शुक्रः सौरिः सूर्यो यदा ग्रहाः । तदा मातुर्भवेन्मृत्युर्मृतोऽयं परिजायते ॥१२॥

नीचस्थानगते चन्द्रे तिष्ठेद्वै भार्गवात्मजः । पापासक्तो महाक्रोधी माता तस्य न जीवति ॥१३॥

द्वादशे रिपुभावे च यदा पापग्रहो भवेत् । तदा मातुर्भयं विन्द्याच्चतुर्थे दशमे पितुः ॥१४॥

त्रिःसप्तगो दिवानाथो जन्मस्थश्च महीसुतः । तस्य माता न जीवेत वर्षमेकं पलद्वयम् ॥१५॥

लग्ने च द्वादशे स्थाने यदि पापग्रहो भवेत् । तस्य माता भवेद्वन्ध्या पिता तस्य न जीवति ॥१६॥

द्यूनाष्टमगते पापे क्रूरग्रहनिरीक्षिते । जनन्या सह मृत्युः स्याद्वालकस्य न संशयः ॥१७॥

N/A

References : N/A
Last Updated : March 29, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP