संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|पदकारिकरत्नमाला|
तृतीयो ध्यायः

पदकारिक रत्नमाला - तृतीयो ध्यायः

पदकारिक रत्नमाला

अथ तृतीयो ध्यायः
समिधाग्निं दशैकं वृदेकं विसर्गमेकना
सुसमिद्धाय शोचिषे पदास्सप्तशब्द द्द्वयोः
तन्त्वा समिद्भिर्नवभिर्वृदेकं द्वयमत्र तु
उपत्वाग्ने हविर्दशा चैकं वृत्त्रिषु विस्रुषु
भूर्भुवः स्वः सप्तदशी पञ्चवृत् षट् च विस्रुताः
आयंगौर्द्वादशी द्वौ वृत् चत्वार्येकं च नान्तकम्
दशभिरन्तश्चरति द्वयोर्वृद्द्वयमन्द्र तु
त्रिंशद्धामैकादश तु वृदेकं तु द्वयोः पुनः
चतुर्दशाग्नि ज्योतिषं च वृत् षट् त्वमेवच
सूर्यज्योतिश्चतुर्दश्यां पञ्च वृत् षट् च मुच्यते
सजूर्देवेन दशतु तिस्रश्चत्वार एव च
तथा दश सजूर्देवस्त्रिश्चतस्रो यथोदितम्
इह पुष्टिं सप्तदश्यां तथाष्टौ वृद्द्वयं तथा
अनमित्रं मे अधराक्त्रयोदश्येक विस्रुतः
इन्द्रः पश्चात्पञ्चदशां विसर्गाः पञ्चचैकनान्
दशभिः समिदस्स्योति त्रयाणां वृतमेककम्
उपप्रयन्तो ननभिर्द्वयोर्वृत्तोश्च चैककम्
अग्निर्मूर्धा च दशभिश्चतुर्भिस्तु विसर्जनैः
उभावां सप्तदश्यां तु द्वयोर्वृच्चैकविस्रुकः
अयं ते योनिः षोळश्यां विसर्गैः षड्भिरेकनम्
सप्तदश्यामयमिह चत्वारि वृच्च सप्तभिः
अस्य प्रत्ना च दशभिरेकं वृद्धौ विसर्जने
तनूपाग्ने ष्टादशस्त्रिवृत्सप्त च विस्रुगाः
षोळश्यग्नेये न्मेतन्वा चैकं वृत्तिभिरेव च
वयस्वन्तौ वयश्चाष्टौ त्रिभिः पञ्चविस्रुक् तथा
चित्रावसो त्रयोदश्यामेकं वृच्चैकविस्रुताः
संप्रियेण नवदशश्चैकं वृत्सप्तमो भवेत्
नवदशोर्जस्थोर्जं वश्चैकं सप्त तथैकनम्
इहैव स्ते पञ्चदशी द्वयोर्वृच्चैकमव्यथा
उपत्वाग्ने च्चैकादश्यां द्वयोस्तिसृषु चक्रमात्
राजन्तमध्वराणां च तथाष्टौ च पदाः कृताः
सनः पिते व दश द्वाभ्यां चत्वारि विस्रुताः
अग्ने त्वं नःसप्तदश्यां द्वाभ्यां चाष्टभिरत्र तु
तन्त्वाशोचिः सप्तदशी त्रयञ्च षट्च विस्रुताः
इळये ह्येकादश तु तथैकविस्रुगाः
सोमानं स्वरणोष्टभ्यस्त्रयश्चैव विसर्जनाः
योरेवान्यश्चैकादश्यां चत्वारि सप्त चैकनान्
एकादश्याममानश्शाँ सः षड्भिर्विसर्जनीमकैः
महित्रीणां च नवभिरेकं वृत्त्रयं ततः
नहि तेषां मा दशद्वौ वृद् द्वौ योरथन्तरम्
ते हि पुत्रा सो दशभिस्त्रयश्चैव विसर्जनाः
कदाचनो नवदशो द्वाभ्यां द्वावेकमिष्यते
तत्सवितुर्दशैवस्यादेकं वृत्पञ्च विस्रुगाः
परिते ष्टादशास्त्रिभ्यः षड्विसर्गास्तु चैकनान्
भूर्भुवः स्वस्तु दशभिः पञ्चवृच्चाष्ट दृश्यते
नर्यप्रजां त्रयो दश्यं त्रयो वेष्टैक नान्तकम्
अग्ने सम्राट् चतुर्दश्यां पञ्चभिः पञ्चचैककम्
सप्तदश्यग्ने गृहपतैकं वृच्चत्त्रिभिस्ततः
ऊर्जं विभ्रद्वः षोळश्यां चत्वारिषट्सु च द्वयोः
ग्रहानुपद्वादशां तु द्वाभ्यां षड्भिस्तु चैककम्
पञ्चदशाभोन्नस्य चतुरः षट् तथैव च
प्रघासिन सप्तभिस्तु द्वाभ्यां चतुर्भिर्विस्रुतैः
यद्ग्रामे यत्त्रयोदश्यां विसर्गश्चैकमुच्यते
द्वाविंशतिर्मोषूणस्तु त्रयोष्टावेकमुच्यते
अकन् कर्म त्रयोदश्यां त्रिभ्यश्चत्वारिचैककम्
अवभृथा सप्तदश्यां सप्तवृत् षड्भिरेव च
पूर्णा दर्वी चतुर्दश्यां तिस्रश्चैकं प्रपद्यते
देहि मे नवदशभिर्द्वयोर्वेष्टनयोरथ
षोळश्यन्नमीमदद्वाभ्यां चत्वारि चैककम्
सुसन्दृशं सप्तदशी चत्वारि द्वौ द्वयोस्तथा
मनोन्वा हुवा नव च वृच्चैकं द्वौ च विस्रुतौ
आनये तु द्वादशै तुं तथैकं त्रिभिर्विस्रुतैः
दशपुनर्नः पितरो विसर्गाः षट् ततः परम्
वर्यसोमवृते तवनव चैकं वृत्त्रिषु विस्रुषु
सप्तदश्ये षते रुद्र षड्विसर्गसमन्वितम्
सप्तदश्यवरुद्रं च द्वाभ्यां द्वाभ्यां च पञ्चमः
दशभिर्भेषजमसि वेष्टनश्चैकतो भवेत्
त्रियम्बकं चैक चतस्रो द्वौ चविस्रुगौ
एतेन रुद्र षोळश्यां चत्वारि सप्तचैकता
वाजिनां वा नव दशो द्वाभ्यां वृत् पञ्चचैकता
वा ज्यहं वाजिनवभिर्द्वयं वेष्टैतमेव च
नवः सवित्रा प्रसूतानेष्टनौ द्वौ त्रयस्ततः
कश्यपस्येत्येकादश्यां पञ्चभिश्चैकमेव च
एनधा ता त्रयोदश्यां विसर्गं चैकमुच्यते
दीर्घायुत्वायदशभिस्त्रिश्यो वृद् द्वौ विसर्जनौ
इति शङ्कराचर्यकृतौ वाजसनेयसंहितायां पदकारिकारत्नमालायां तृतीयोऽध्यायः

N/A

References : N/A
Last Updated : September 22, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP