पदकारिकरत्नमाला - अष्टदशोऽध्यायः
शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.
अथाष्टादशोऽध्यायः
नवविंशत्यश्मनूर्जं वृच्चत्वार्यष्टमो द्वयोः
इमामेग्ने त्रयोदश्यां चैकं वृत्त्रिभ्य एव च
पञ्चदशीमर्बुदं च द्वाभ्यां षड्भिस्तथैककम्
ऋतवस्थद्वादशी तु सप्तभिस्तु नवाविस्रुक्
समुद्र स्य त्वा दशभिर्द्वौ विसर्गौ प्रकीर्तितौ
हिमस्य त्वा जरा दश द्वयमत्र विस्रुग्भवेत्
त्रयो विंशतिरूपज्मन्नेकं द्वौ च तथैककम्
अपामिक्षं चतुर्दश्यां द्वयं वृत्त्रिभिरेकता
अग्ने पावकैकादश्यामेकं चनान्तमत्र तु
सनः पावक चतुर्दश्यामेकं वृत्पञ्चचैककम्
पावके यैकविंशत्या विस्रुक् पञ्चत्रयंश्चनान्
चतुर्विंशतिर्नमस्ते पञ्चषट्कैकमेव तु
सप्तदश्यां तु ये देवाश्चैकं पञ्चभिरेकता
ये देवाश्चतुर्विंशत्या द्वयोः सप्तैकमुच्यते
चतुर्दशीं प्राणदाश्च पञ्चवृद्दशचैकता
अग्निस्तिग्मेनैकादश्यां विसर्गास्त्रय ईरिताः
य इमा नवदश्यां तु वृद्द्वयोः पञ्चमैकता
किं स्विदासीदष्टादशस्तु चतुर्नां द्वयमेककम्
पञ्चदशीं विश्वतश्चक्षुः षड्भिः दशचैकता
एकविंशे किँ स्विद्वनं पञ्चसप्तभिरेककम्
नवदशो या ते धामानि त्रिषु त्रिभिरेकनान्
चक्षुषः पिताष्टादशस्त्रयोवृत्त्रिषु विस्रुताः
विश्वकर्मा नवदश षष्ठे चत्वारि चैकना
योन पिता विंशतिस्तु त्रयो वृत्षष्ठमत्र तु
त आयञ्नवदर्शि द्वाभ्याञ्चैव द्वयैकना
परोदिवा विंशतिश्च तत्रैकं सप्त विस्रुगाः
तमिद्गर्भं नवदशीमेकं त्रिषु च चैककम्
नतं विदाथ सप्तदश्यां द्वाभ्यां चत्वारि विस्रुताः
विश्वकर्माण्यष्टादश्यां द्वयं चैव चतस्रकम्
आशुश्शिशानः षोळशीं त्रिभ्यश्चैकादशाविस्रुक्
संक्रन्दनो पञ्चदशीं पञ्चभिस्त्रितयं विस्रुक्
स इषु हस्तैः षोळश्यामष्टौ वृन्नवमो भवेत्
बृहस्पते जषोळश्यां चत्वारि चतुरुषु त्रयः
बलविज्ञाय षोळश्यां षण्णां वृदष्टमैकना
गोत्रभिदं तु षोळश्यां पञ्चमीं द्वयमेव च
षोळश्यामभिगोत्राणि त्रिषु वृन्नव विस्रुताः
इन्द्र आसां पञ्चदशीं द्वयोर्वृत् षट् चविस्रुताः
पञ्चदश्येन्द्द्र स्य वृष्णः ततो द्वाभ्यां चतस्रकः
सप्तदशीमुद्ध ऋषयः द्वयोश्चैकं द्वयोरथ
अष्टादशास्माकमिन्द्र स्त्रयः षण्णां तथैकना
नवदशामीषां चित्तं द्वौ वृच्च त्रिभ्य एव च
अवसृष्टा पञ्चदशी द्वयं चैकं च चैककम्
पञ्चदश्यां प्रेत जयता च सप्तविसर्जनाः
असौ या सेनैकविंशे द्वयं च त्रिभिरेकता
यत्र बाणाः पञ्चदशीं द्वयोः सप्त च विस्रुताः
मर्माणि ते विंशतिस्तु विसर्गाः पञ्चमो भवन्
उदेनं पञ्चदशीं तु त्रयोवृच्चैकविस्रुतम्
इन्द्रे मन्तु चतुर्दश्यां त्रिषु वृच्चैकमुच्यते
यस्य कुर्म षोळशीं तु पञ्चविस्रुत एतु न
पञ्चदिशो नवदशीं त्रिषु त्रिषु चाष्टसुविस्रुताः
षोळश्यां समिद्धे अग्नौ चत्वारि पञ्चसु क्रमात्
दैव्यायद्य चतुर्दश्यां चत्वार्यष्टस्तथैकना
वीतँ हविः पञ्चदश्या मेकं सप्तभ्य एव च
सप्तदशीं सूर्य रश्मिश्चत्वारि चतुर्षु त्रयः
विमान एषोऽष्टादशस्त्रिषु षड्भिस्तु चैकता
नवदश्युक्षा समुद्रो द्वाभ्यां चैवाष्टविस्रुताः
देवहूस्सप्तदशीं तु द्वयोः षट्सुतथैककम्
वाजस्य मात्रयोदश्यां पञ्चत्रिभिर्द्वयं ततः
उद्ग्राभं च चतुर्दश्यां चत्वार्येकं च त्रीन् क्रमात्
क्रमध्वं तु त्रयोदश्यां विसर्गाः पञ्चमो भवन्
प्राचीमं चैकविंशत्या चत्वार्यष्टैकमुच्यते
पृथिव्या अहं सप्तदश्या चत्वारि विस्रुताः
स्वर्यन्तोन चतुर्दश्या चतस्रस्तु चतस्रकः
अग्ने प्रेहिति षोळश्यां त्रिभ्यः सप्तभिरस्त्र तु
सप्तदश्यग्ने सहस्रास्स्त्रिभ्यस्त्रिभिरथैककम्
सुपर्णोस्याष्टदशभिरेकं वृत्त्रय एककम्
आजुह्वानस्तु नवभिस्तृतीयं वृद्द्वयं विस्रुक्
ताँ सवितुरष्टादशश्चत्वारि द्वयमुच्यते
विधेमते नवदशश्चतस्रो द्वौ तु चैककम्
प्रेन्दो अग्ने त्रयोदश्यामेकोवा पञ्चविस्रुताः
चितिं जुहोम्यष्टादशीं चतस्रः पञ्चनैककम्
द्वाविंशतिः सप्त तेग्ने चैकं वृत्पञ्चभिः पुनः
शुक्रज्योतिश्चाष्टाभिर्वा पञ्चभ्यः षट्तथैककम्
ईदृङ्च सप्तमीं चैवं चत्वारि त्रय एव च
ऋतजित्सत्र्यजित्सप्ता षट्सुचत्वारि विस्रुताः
ऋतस्सत्वे ध्रुवस्सप्त द्वयोर्वृत्स्प्त विस्रुताः
ईदृक्षासस्सप्तदशीं पञ्चवृद्दशचैकना
स्वतवान् प्रघासी सप्तपञ्चम्येकं तु चैककम्
इन्द्र न्दैवी स्त्रयोविंशस्त्रिभ्यस्त्रयोदशीं द्वयम्
इति शङ्कराचार्यकृतौ वाजसनेय संहितायां पदकारिकारत्नमालायां
अष्टादशोऽध्यायः समाप्तः
N/A
References : N/A
Last Updated : September 23, 2026

TOP