पदकारिकरत्नमाला - त्रयोदशोऽध्यायः
शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.
अथ त्रयोदशोऽध्यायः
दशानो रुक्मष्टादशस्त्रिभिरेकादशस्तथा
नक्तोषा साषोळशीं तु षड्भिः पञ्चैकमेन तु
विश्वारूपाणि विंशत्या त्रयश्चत्वारि विस्रुताः
सुपर्णोसीति दशभिस्त्रयस्त्रिभ्यश्च चैकनान्
स्तोम आत्मा चतुर्दश्यां द्वाभ्यां चत्वारि विस्रुताः
सुपर्णो सीति षट्त्रिंशदष्टौ वृन्नवचैकता
अक्रन्ददग्निर्विंशत्या चत्वारि सप्तभिर्द्वयोः
चतुर्दश्याग्ने भ्यावर्तिन्द्वौ वृदेकं च नान्तकम्
द्वाविंशत्याग्ने अङ्गिरस्ततो द्वौ वृच्च सप्तभिः
पुनरूर्जा दशभ्यस्तु तत्रैकं विस्रुतैककम्
सप्तदश्यात्वाहारिषं तु चैकं वृत् षट्कमत्र तु
उदुत्तमोष्टादशभिर्द्वाभ्यां चात्रैकमुच्यते
अग्रे बृहन्नवदशो द्वौ वृत्सप्त द्वयोस्ततः
सीदत्वं चैक विंशत्या नतो द्वौ पञ्चचैकता
अन्तरग्ने चतुर्दश्यामेकं पञ्च तथैकता
शिवो भूत्वा सप्तदश्यामेकं षड्भिर्यथाक्रमम्
दिवस्परि सप्तदश्यां चत्वारि षड्भिरत्र तु
विद्मातेषैकत्रिंशत्या तिसृष्वेकं प्रयुज्यते
अष्टादशः समुद्रे त्वा पञ्चपञ्चद्वयं ततः
श्रीणामुदारस्सप्तदश्या चतस्रस्तु तथाष्टामीम्
विश्वस्य केत्वष्टादशो द्वयोश्चतुर्भिरेकता
उशिक्पावको ष्टादशश्चैकं वृत्पञ्चमैकता
यस्ते अद्यनवदश चतस्रस्तु तथाद्वयम्
आतंभजनवदशो द्वाभ्यां त्रिभ्यः पराभवन्
त्वामग्ने यजाष्टादशश्चैकं चतुभिरेकता
अस्ताव्यग्निः पञ्चदशीं सप्तभ्यः षड्भ्य एव च
उदुत्वा पञ्चदश्यां तु चत्वारि सप्तभिः पुनः
प्रेदग्ने पञ्चदश्यां तु चत्वारि षड्द्वयं ततः
द्वाविंशतिप्रप्रायेति वेळमेकमथाष्टामीम्
आपो देवीश्च विंशत्या चत्वारि चतुरस्तथा
अप्स्वग्ने द्वादशीश्चैव द्वाभ्यां चतस्र इत्यपि
गर्भो असीति द्वादश्यां चत्वारिश्चैव विस्रुताः
प्रसद्येति चतुर्दश्यां त्रयश्चत्वारि एकता
पुनरासच्चतुर्दश्या वृत्रयः पञ्चविस्रुताः
बोधामेष्टादशश्चैव द्वाभ्यां पञ्चभ्य एव च
सबोधिसूरिर्नवभिस्त्रिभिर्द्वावेकमिष्यते
चतुर्विंशापेत वीतचैकं षष्टैकमुच्यते
संज्ञानमस्याष्टादश पञ्चभिः पञ्चसु क्रमात्
अयँ सो अग्निर्नव दशो द्वाभ्यां पञ्चत्रिभिस्ततः
अग्नेयत्ते दिविंशति त्रयः षष्ठी तथा भवेत्
नवदशोग्ने दिवोर्न तथैकं पञ्चचैकता
पुरीष्यासोग्नयोदश द्वयोर्वृदष्टविस्रुताः
इळामग्ने नवदशः पञ्चम्यां पञ्चमीतथा
चिदसि चतुर्दश्यामेकं चैव तुवेष्टनम्
चतुर्दशौ लोकंपृण त्रिभिरेकं तथा द्वयोः
ता अस्येति त्रयोदश्यामेकं पञ्चैकमिष्यते
इन्द्रा विश्वा दशभ्यस्तु चत्वारि द्वयमेकता
समितं समेकादश्यां चत्वारि चैकवेष्टनाः
सं वो मनांसि विंशत्या तत्र द्वयद्वयोरथा
पञ्चदश्याग्नेत्वं परीद्वयोश्चपञ्चमीद्वयम्
मातेवपुब्राष्टादशः पञ्चवृत्षड्भिरेव च
असुन्वन्तं नवदशश्चैकं वृद्द्वयमेव च
नमस्सुते नवदशश्चत्वारि त्रितयं ततः
यस्यास्ते घोरे विंशत्या त्रिभिः पञ्चैकमेव च
यन्ते देवी पञ्चविंशश्चत्वारि पञ्चमो भवन्
निवेशनः षोळशीं तु पञ्चवृच्चैव पञ्चभिः
सीरायुञ्जन्तिदशभिरेकं वृद्द्वौ विसर्जनौ
युनक्तसीराद्वाविंशस्ततश्चैकं तु पञ्चभिः
शुनं नः फलाष्टादशो द्वयोर्वृत्पञ्चमीं पुनः
घृतेन सीताष्टादशो द्वयोर्वृत्त्रितयैकता
लाङ्गलं च चतुर्दश्यां पञ्चभिर्वेष्टनैर्युतम्
कामं कामदुघैकादश्यां त्रिभिर्द्वयोर्वृस्रुक्
विमुच्यघ्वं च दशभिश्चैकं चत्वारि विस्रुताः
चतुर्दश सजूरब्द चतुरो दशभिस्तु वै
या ओषधीः पञ्चदशश्चैकं पञ्चभिरेव च
शतं वा पञ्चदश्यां तु तत्रैकं चतुरो भवन्
ओषधीः प्रतिनवभिश्चत्वारि सप्तभिः पुनः
पञ्च दशौषधीरितिश्चैकं वृत्पञ्चमो विस्रुक्
अश्वत्थेव चतुर्दश्यां त्रिभिश्चतुर्भिरेव च
या ओषधीश्चैकादश्यां चत्वारि षड्भिरत्र तु
दशाश्वावतीं सोम वा चत्वारि द्वयमिष्यते
उच्छुनि ओषैकादश्यां द्वाभ्यां द्वयमथोत्तरे
पञ्चदशोष्कृतिर्नाम द्वयोः पञ्चसु विस्रुषु
अतिविश्वाश्चतुर्दश्यां द्वयोरष्टभिरत्र तु
त्रयो दशीं यदि माश्च द्वौ त्रयश्चैकमेव च
एकाद यस्यौषधीश्चत्वारि षष्ठके तथा
साकं यक्ष्म प्रपतेति द्वादश्यामेकवेष्टनम्
अन्या वो अन्यां षोळशीं चैकं षड्भिर्विस्रुक् तथा
याः फलिनीर्याद्वादशश्चैकं वृद्दशविस्रुताः
मुञ्चन्तु माचैकादश्यां वेष्टनाश्च त्रयोऽभवन्
त्रयोदश्यवयतीस्सद्वयोरत्रैव पञ्चभिः
या ओषधी स्त्रयोदश्यां त्रिभ्यः पञ्चभ्य एव च
विष्ठिताः पृथिवीमष्टौ द्वयोर्धृच्च द्वयं ततः
याश्चेदं तु पञ्चदशस्त्रयः पञ्चसु विस्रुषु
नाशयित्रीचैकादश्यां त्रिभिर्वृच्च द्वयोर्विस्रुक्
मानोरिषत्पञ्चदशीं वेष्टनौ द्वौ त्रिभिर्विस्रुक्
ओषधयः सन्द्वादश्यां विस्रुग्वौ नान्तमेककम्
त्वां गन्धर्वा चतुर्दश्यां विस्रुक् चत्वारि द्वौ चनान्
चतुर्दशस्त्वमुत्तमा द्वयोः पञ्चसु चैककम्
द्वाविंशतिं मा मा हिंसी देकं सप्तभिरेव च
अभ्यावर्तस्व द्वादश्यां विसर्गास्तु द्वयं ततः
अग्ने यत्ते चैकादश्यां चैकविस्रुगुवेद्यदि
इषमूर्जं नवदशश्चैकं विसर्गमुच्यते
अग्ने तवपञ्च द्वाभ्यां त्रिभिश्च विस्रुक्
पावकावश्चतुर्दश्यां षष्ठे चत्वारि चैककम्
चतुर्दश्यूर्जेनपाच्च सप्तभ्यो दश विस्रुताः
इरज्यन् पञ्चदश्यां तु द्वौ वृच्चत्वार एककम्
निष्कर्तारं चतुर्दश्यां द्वयं चैव द्वयं पुनः
ऋतावानं पञ्चदशीं चत्वारि त्रितयं ततः
आप्यायस्व चैकादश्यामेकं वृदेकमत्र तु
सन्तेपयां सप्तदशं चतुरस्त्रयर्दशिताः
एकादशाप्यायस्वं त्रिभिः पञ्चैकनान्तकम्
आतेवत्सश्चैकादश्यां द्वयं द्वितयमेव च
तुभ्यन्तां गिरो नवद्वयोश्चत्वारि विस्रुताः
अग्निः प्रयेषु दशसु द्वाभ्यां त्रिभ्यश्च विस्रुताः
इति श्री शङ्कराचार्यकृतौ वाजसनेयसंहितायां पदकारिकारत्नमालायां
त्रयोदशोऽध्यायः
N/A
References : N/A
Last Updated : September 23, 2026

TOP