संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|पदकारिकरत्नमाला|
चत्वारिंशोऽध्यायः

पदकारिकरत्नमाला - चत्वारिंशोऽध्यायः

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


अथ चत्वारिंशोऽध्यायः
ईशावास्यां सप्तदश्यां विस्रुगो द्वौ यथाविधि
सप्तदशीं कुर्वन्नेव विस्रुग्द्वौ चैकनान्तकम्
सप्तदश्यसुर्या नाम वृत्त्रिभिः पञ्चचैकनान्
अनेजदेकं विंशतिर्विस्रुक् पञ्च त्रिनान्तकम्
तदेजति चतुर्दश्या द्वौ वृतौ द्वौ तु विस्रुतौ
चतुर्दशीं यस्तु सर्वा द्वयं वृद्द्वयमेकनान्
चतुर्दशो यस्मिन् सर्वा वृत्त्रयः षट् च चैकनान्
सपर्यगानवदश चतुर्थे सप्तमैकना
अन्धन्तमः पञ्चदशस्त्रयोवृत्पञ्च विस्रुताः
चतुर्दश्यन्यदेवाहुरेकं वृत्त्रय एव च
पञ्चदशीं विद्यां च विद्या च विस्रुगेककम्
पञ्चदश्यन्धमः प्रपञ्चवृत्पञ्च विस्रुताः
अन्यदेव चतुर्दश्यां त्रयो वृत्त्रीणि विस्रुताः
सभूतिं च पञ्चदश्यां चतुरो वृच्चचैककम्
त्रयोदश्यां हिरण्मये द्वौ वृतौ चैक नान्तकम्
पञ्चविंशतिं पूषन्नेकरिषे यमत्रयं वृतम्
चतुरो विस्रुतश्चैव द्वौ नान्तौ श्रुतिचोदितौ
वायुरनिलं षोळश्यां त्रयोवृदेकविस्रुतम्
इति श्रीशङ्कराचार्यकृतौ वाजसनेयसंहितायां
पदकारिका रत्नमाला नाम चत्वारिंशदध्यायः
विसर्गश्च विस्रुक् चैव विस्रुतौ विस्रुतस्तथा
विस्रुगो विस्रुतश्चैव विसर्जनो विसर्गकः
विसर्जनीयो भिधानाश्चैते विसर्गनीयकाः
शुङ्गवद्वालवत्सस्या बालिका कूचयुग्महु
नेत्रवत्त्वष्टसर्पस्य सविम इति स्मृतः
वेष्टनं वेष्टनं चैव वृदं वेळ वृदुच्यते
नान्तमान्तकं चैव स्यानां च चैकरनकैनान्
नकारान्तपदाज्ञेयाश्चैते नान्तस्य सौज्ञकाः
उदात्तं चानुदात्तं च स्वरितं प्रचयं तथा
समाने स्थाने कठादौ त्रिधा विभज्यभागवत्
वर्णास्तत्र निष्पद्यन्ते चोर्ध्वभागे तु जायते
उदात्तस्तु सविज्ञेयः सो नुदात्तस्तु नीचके
अनुदात्तः सविज्ञेयः स्वरितस्तु ततः परम्
उच्चनीच समाहारास्ते वर्णाः स्वरितो विदुः
उदात्तवत्संहितायां पद काले तु निहिताः
निहिताः सर्ववर्णास्तु च प्रचयस्तु दृश्यते
ये स्वरितपरा वर्णास्ते वर्णाः प्रचयो विदुः
सादन्यं च सुधुक्षं च सीषधीधि सदुष्टरः
एतेष्वग्रहो नास्ति नैषादं प्रावणेभिष्षट्
अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा
जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च
हकारं पञ्चमैर्युक्तमनस्थाभिश्च संयुतम्
उरस्यन्तं विजानीयात्कण्ठ्यमाहुरसंयुतम्
चत्वारश्च प्रयत्वाः स्युरक्षराणां तथैव च
स्पृष्टेषत्स्पृष्टता स्यौ च संवृतं विवृतं तथा
एकमात्रो भवेद्ध्रस्वो द्विमात्रो दीर्घ उच्यते
त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं त्वर्धमात्रकम्
चाषस्तु रवते मात्रं द्विमात्रं वायसोऽब्रवीत्
शिखी तु रौति त्रिमात्री मेतन्मात्रस्य लक्षणम्
पदकाले तु संप्राप्ते गणान्तं लुप्यते यदि
पदत्रयं पदैकं वा बहुवात्थव लुपुः
कायायनकृतं सूत्रं वेत्तिकात्यायनः स्वयम्
ततो कर्की ततो धन्वी वासुदेवो न पञ्चमः
गणान्ता यत्र वर्तन्ते पुनरुक्तस्तु लुप्यते
पुनरुक्तो गणान्तः स्याद्वेदे वाजसनेयके
ह्रस्वपूर्वो ह्यनुस्वारो दीर्घानुस्वारभाग्भवेत्
द्वित्वं परञ्चन्न तथा क्रमकाले तु वाजिनाम्
अन्तस्व सवितः पुनर्यत्त्रिरेफं परो भवेत्
विसर्जनीयमेवस्यादभावे वेष्टनं भवेत्
इयं वेदिश्च वाजाय स्वाहा द्वौ च विहाय च
अभावो वेष्टनस्तत्र त्वन्यथा वेष्टनं भवेत्
तथा चान्तः परार्धश्च वर्जयित्वान्यथाचवृत्
इति श्री शङ्कराचार्यकृतौ वाजसनेयसंहितायां पदकारिका रत्नमालानाम्
चत्वारिंशदध्यायः समाप्तः

N/A

References : N/A
Last Updated : September 23, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP