पदकारिकरत्नमाला - एकविंशोऽध्यायः
शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.
अथ एकविंशोऽध्यायः
स्वाद्वींत्वा विंशतिश्चैवं चत्वार्येकविस्रुतम्
परिरितो सप्तदश्यां चत्वार्यष्टैकमुच्यते
द्वादशी वायोः पूतश्च द्वयं सप्तच विस्रुताः
पुनातिवोते चनवभिर्वेष्टनं चैकमेवच
द्वाविंशति ब्रह्मक्षत्रं चैकवृत्पञ्चभिस्ततः
नाना हि त्रयोविंशत्या त्रयश्चत्वारि चैककम्
आश्विनं तेजोदशमीमेकं वृच्चैकविस्रुतम्
पञ्चदश्यां तेजो सिषद्भिर्विसर्जनीयकैः
चतुर्दशीं च या व्याघ्रां विस्रुगेकं तथैव च
यदापिपे चतुर्दश्यां द्वयोस्त्रिषु च चैककम्
द्वादशस्तु देवा यज्ञं द्वयं चैव विसर्जनम्
दीक्षायै रूपैकादश्यां द्वितीयं च द्वयोर्विस्रुक्
एकादश्या तिभ्यरूपं चत्वारि त्रय ईरिताः
सोमस्य रूपं द्वादश्यां वेष्टनौ द्वौ प्रकीर्तितौ
आसन्दीरूपैकादश्यां चत्वारि त्रितयं भवेत्
वेद्यावेदिस्त्रयोदश्यां चैकं वृद्द्वयमेव च
हविर्धानं यद्द्वादशी विस्रस्त्रयश्च विस्रुताः
प्रैषेभिः प्रैषादशभिरष्टौ षड्द्वयं ततः
दशभ्यः पशुभिः पशून् चत्वारि वृत्षळुद्वयोः
धानाः करम्भो द्वादशीं चैकं वृत्षद्भिरत्र तु
दशभिर्धानानाँ रूपं द्वयोर्द्वितयमाचके
पयसो रूपं त्रयोदश्यां त्रयश्चविस्रुतः क्रमात्
आश्रा वयेत्येकादश्यां पञ्चवृत्पञ्चमस्तथा
दशार्थ ऋचैरून्धानां त्रयः पञ्चम एव च
अश्विभ्यां प्रातस्सवनं दशत्रिष्वेकमेव च
वायव्यैर्वायैकादश्यां तथैकं वृत्त्रिषुक्रमात्
यजुर्भिराप्यं द्वादश्यां पञ्चमो नवमः सकृत्
इळाभिर्भक्षां नवभिः षट्च द्वौ चद्वयोस्ततः
व्रतेन दीक्षामाप्नोति पदा द्वादशभिः पुनः
चतुर्दशैतावद्रू पं विसर्जनीयमेककम्
सुरावन्तं पञ्चदशीं पञ्चमीं षट्कमिष्यते
यस्ते रसः सप्तदश्यां तथैकं वृच्चतुर्थकम्
सप्त चतुर्दशो यमश्वनानमेचेरेकमेककम्
यदत्ररिप्तोष्टादशस्तिस्रश्चैव विसर्जनाः
पितृभ्यः स्वधानवभिश्चतुर्थस्सप्तमस्तथा
अक्षन् पितरः सप्तमीं त्रयो विसर्जनैकनान्
पुनन्तु मा चैकादश्यां द्वितीयं चतुरो विस्रुक्
एकादशीं पुनन्तु मा द्वयोर्वृच्च त्रयो थवै
पुनन्तु मा दे द्वादश्यां द्वौ वृद्द्वौ त्रय ईरिताः
पवित्रेणपुनीमा दशभिश्चैक नान्तकम्
यत्ते पवित्रैकादश्यां चैकं वृत्तन्तु षट् तथा
उभाभ्यां देवनवभिरेकं वृत्तद्द्वयं विस्रुक्
वैश्वदेवीसप्तदश्यां त्रयो वृतश्च षट्स्व च
ये समानाश्च द्वादश्यां वृदद्वयोश्च षळत्र तु
जीवाजीवेष्वेकादश्यां चतुरो विस्रुगेकन
नवदशो द्वे सुती चवृच्च द्वौ तु यथाक्रमम्
इदँ हविस्त्रयोविंशो नववृच्च चतुर्थकम्
उदीरताँ नवदशश्चैकं वृन्नवमस्तथा
त्वँ सोमप्ननवदशीं द्वयोश्चत्वारि विस्रुताः
त्वयाहिनस्तु विंशतिर्द्वाभ्यामष्टद्वयोरथ
त्वँ सोमपि सप्तदश्यां चत्वारि त्रीणि विस्रुताः
बर्हिषदो विंशतिस्तु द्वयं वृत् षट्चविस्रुताः
उपहूतासप्तदश्यां द्वयोस्त्रिभ्यस्तु चैकनान्
नवदशी आहं पितॄन् चत्वारि चतुरोद्वयम्
अग्निष्वात्ताः षोळशीं च पञ्चभ्यः पञ्चमो विदुः
आयन्तुनः सप्तदशस्त्रयस्सप्त द्वयं च नान्
पञ्चदशे येग्निष्वात्ताः पञ्चवृच्च चतुर्थकम्
षोळश्यग्निष्वात्ता नृतुचत्वारि षदकमेकन
आच्याजानु विंशतिस्तु द्वयोः पञ्च विसर्जनाः
आसीनासस्सप्तदश्यां चैकं व्रतं चतुर्थकम्
यमग्ने कव्यवाहन चतुर्दश्यां त्रयं त्रिभिः
यो ग्निः कव्यपञ्चदश्यां चत्वारिषट्कमेकता
नवदशीं त्वमग्ने ईळितृ त्रिश्चतुरैककम्
इदं पितृभ्यो विंशतिस्त्रीणि षण्णां तु विस्रुताः
ये चे हपञ्चविंशत्या चत्वारितिसृषु द्वयोः
अथा यथा नवदशश्चैकमष्टौ द्वयं ततः
उशन्तस्त्वा चतुर्दश्यां त्रिविसर्गो द्विनान्तकम्
अपां फेनेनैकादश्यां विसर्गाः षड्यथा क्रमम्
नवदशीं सोमो राजा चैकं वृच्चतुरो भवन्
चतुर्विंशत्याद्भ्यक्षीरं पञ्चसप्त च विस्रुताः
रेतो मूत्रं त्रयोदश्या द्वौ वृतौ त्रय ईरिताः
त्रयो दशी दृष्टारूपे चतुरस्तु द्वयोरथा
वेदेन रूपे षोळश्यां चत्वारि वृच्चतस्रकः
सीसेनतन्त्रं पञ्चदशीं वृच्चैकत्राय एकता
विंशतिस्तदश्यरूपं द्वयमष्टभिरेव च
तदश्विना पञ्चदशीं तथा त्रैकं त्रयो विस्रुक्
सरस्वति सप्तदश्यां तत्रैकं त्रिषु सुक्रमात्
पयसा सप्तदश्यां तु वृतमेकं त्रयस्तथा
षोळशी मिन्त्रस्सुत्रामा द्वौ त्रयश्चैकमेव च
नवदशान्त्राणि स्थालीर्द्वयोस्तथा षलत्र तु
कुम्भो मनिष्ठु ष्टादशश्चतुरो दशचैकन
मुखँ सदस्य द्वाविंशो विस्रुकपञ्चैक नान्तकम्
सप्तदश्याश्विभ्यां चक्षुर्घृतौ द्वौ पञ्चभिर्यथा
अविर्नमेषष्षोळश्यां द्वयोश्च सप्तसुक्रमात्
इन्द्र स्य रूपोऽष्टादशो विसर्गास्तु त्रयस्तथा
नवदशात्मन्नुपस्थे द्वयोर्द्वाभ्यां द्वयं ततः
अङ्गान्यात्मन्नष्टादशश्चैकं चतुर्भिरेकता
सरस्वती योष्टादशस्त्रयोद द्वयमेकता
तेजः पशूनां षोळश्यां त्रयश्च पञ्चमस्तथा
षोळश्या क्षत्रस्य नाभिरेकं चत्वारि विस्रुताः
सप्तदश्याश्विनोर्भैषं द्वयोर्वृच्चैकमेव च
क्रोसिकतमो नवम्यां द्वयोर्वृद्द्वयमेकता
शिरोमेश्रीः सप्तदश्यां सप्तदश्यां द्वयोर्वृच्चतुसप्तभिः
जिह्वामेभद्रं षोळश्यां द्वयमष्टभिरेव च
द्वादशीं बाहू मे बलं चैकं तत्रैकमिष्यते
पञ्चदशीं पुष्टीर्मे राचतुरस्तु चतस्रकम्
नाभिर्मे तु चतुर्दश्यां द्वौ वृतौ पञ्चभिस्ततः
चतुर्दशीं जङ्घाभ्यां तु द्वाभ्यां द्वितयमेव च
अङ्गेष्वात्मंद्र च षट् पदा विस्रुगेकमथैकन
त्रयो देवास्त्रयोदश्यां तिसृभिर्नवभिः पुनः
प्रथमा द्विती द्वादश्यां द्वयं च नवमी विस्रुक्
सामान्मृग्भिः सप्तदशी सप्त त्रयोदशैकता
पञ्चदश्यां लोमानि प्रपञ्चम्यां पञ्चमो विस्रुक्
इति श्री शङ्कराचार्य कृतौ वाजसनेयसंहितायां
पदकारिकारत्नमालायां एकविंशोऽध्यायः समाप्तः
N/A
References : N/A
Last Updated : September 23, 2026

TOP