संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|पदकारिकरत्नमाला|
सप्तदशोऽध्यायः

पदकारिकरत्नमाला - सप्तदशोऽध्यायः

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


अथ सप्तदशोऽध्यायः
नमस्ते रुद्र द्वादश्यां द्वौ वृच्च त्रिभिरित्यपि
याते रुद्र चतुर्दश्यां त्रयोवृच्च द्वयोर्विस्रुक्
यामिषु च चतुर्दश्यां द्वयं वृच्चैकमेव च
शिवेन वचसा त्वातु चतुर्दशिं द्वयं द्वयोः
अध्यवोचत्षोळशीयं तु द्वितीयं पञ्चभिस्त्रयः
नवदशासौ यस्ताम्रो द्वाभ्यां दश च विस्रुताः
असौ योवपञ्चदशीं च त्वय्याष्टौ तथा द्वयम्
नमोस्तु नीत्रयोदश्यां तिसृणां चतुरो भवन्
प्रमुञ्च्यथन्वषोळश्यामेकं घृत्सप्तमस्तथा
पिज्यं धनुस्त्रयोदश्यां चत्वारि सप्तभिर्द्वयम्
षोळशीपरिते धन्व द्वयं चतुरे एककम्
यातेहेतिपञ्चदशीं चैकं चतुर्भिरेकता
द्वादशावतत्य धनुः पञ्चभ्यस्तु चतस्रकः
नमस्त आयुर्द्वादश्यामेकं वृच्च द्वयोर्यदि
मानो महान् सप्तविंशं चैकं वृद्दश विस्रुताः
तोकेतनपञ्चदश्यामेकं वृच्चतुरेककम्
हिरण्यबाहवः षोळश्यां षण्णां वृच्चतुरस्तथा
बभ्लृशाय द्वादशीं तु वेष्टनौ द्वौ तथा सति
रोहितायेति द्वादश्यां त्रिषु द्वयमथापिवः
कृत्स्नावीताय द्वादशीं वेष्टनाः पञ्चकक्रमात्
वञ्चते तु त्रयोदश्यां सप्तभिस्तु चतस्रकः
उष्णीषिणे कादशं च सप्तनृत्सप्तमी विस्रुक्
विसृजद्यो विद्यदष्टौ षण्णां वृच्चाष्टामी विस्रुक्
सभाभ्यः सभापत्यष्टौ चतुर्णां चाष्टमो विस्रुक्
गणेश्यश्चाष्टमी यस्तु पञ्चभ्यश्चाष्टमी तु वा
सेनाभ्योऽष्टौ यदिश्यांतु पञ्चमी ह्वाष्टमो विस्रुक्
अक्षौ तक्षभ्य एवस्यात्पञ्चमीं पुनरष्टमीम्
श्वभ्यः श्वपतिरष्टभ्यः पञ्चवृद्द्वितयं ततः
कपर्दिनेऽष्टभिः कुर्यात्सप्तवृच्चैकविस्रुताः
ह्रस्वायाष्टौ वृदेकं स्यादाशवेष्टौ वृदेककम्
ज्येष्ठायाष्टौ त्रिवृत्स्यातां सोभ्याष्टद्वयं च वृत्
वन्नियाष्टचतुर्थं वृद्बिल्मिनेष्टौ द्वयं भवेत्
धृष्णवेष्टौ च वृत्पञ्च स्रुत्यायाष्टपदं भवेत्
कूप्याष्टवृद्द्वौ च स्यातां वात्याष्टभ्यो वृदेककम्
शङ्कवेष्टवृच्चतुरो वृक्षे नवषट् चत्रिषु
पार्य्यायाष्टौ द्वयं वृच्च सिकत्याष्टौ द्विवृद्भवेत्
व्रजज्याष्टवृत्रयश्चैव शुष्क्यायाष्टैकवेष्टनम्
पर्ण्याय षोळशीं चैव दशवृन्नव विस्रुताः
द्रा पेन्धसो नवदशीं चत्वारि त्रिषु विस्रुषु
इमा रुद्रा याष्टादशस्त्रिषु वृत्तितयैकता
पञ्चदशीं याते रुद्रा विसर्गास्तु द्वयं ततः
परिणो ष्टादशैव स्याद्द्वयं वृत्षट्कमेव च
मीळ्हष्टमो ष्टादशस्तु चत्वारि पञ्च विस्रुताः
पञ्च दशीं विकिरिद त्रयाणां वृच्च पञ्चभिः
सहस्राणि चैकादश्यां वृद्द्वयोरत्र पञ्चभिः
एकादशीमसंख्याता वृद्द्वयोर्विस्रुगेकता
अस्मिन्महति षण्णां तु चैको विस्रुक् तथैकनान्
नीलग्रीवा पञ्चभिस्तु त्रिर्वृच्चत्वारिविस्रुताः
शर्वा अधस्त्रिरेकरं त्रिर्व्यक्षे चतुर्थी द्वौ वृत्त्रिः
भूतानां च चतुर्थ द्वौ त्रीन् पथां चत्वारि द्वौ चतुः
तीर्था चत्वाद्वौ द्वौ च चान्नेषु पञ्चमी तथा
वृदेळं विस्रुगैकं च नान्तमेकं तु शस्यते
एतावन्तश्चसप्तर्मां चैकं वृच्चतुरो विस्रुक्
नमोस्तुरुन्नवदशीं विसर्गैर्नवभिः क्रमात्
इति श्री शङ्कराचार्यकृतौ वाजसनेयसंहितायां पदकारिकारत्नमालायां
सप्तदशोऽध्यायः समाप्तः

N/A

References : N/A
Last Updated : September 23, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP