पदकारिक रत्नमाला - द्वितीयोऽध्यायः

पदकारिक रत्नमाला

अथ द्वितीयोऽध्यायः
द्वाविंशतिस्तु कृष्णोसि वृट्वौ पञ्चविसर्जनाः
अदित्यै व्युद्धैकादश्यान्द्रि वेष्टश्च त्रयस्तथा
भूपतये तु त्रयोदश्यां त्रयो वृट्ट्वयमुच्यते
यजमानस्य सप्तदश्येकं वृत् सप्तविस्रुताः
वीतिहोत्रंत्वानवभिर्द्वयोर्वेष्टनयोस्तथा
समिदसीतिद द्वादश्यां वृत्तायश्च चतस्रकः
ऊर्णाम्रदस्यैकादश्यां द्वौ वृत् चत्वार एव च
घृताच्यस्यष्टा दशस्तु चैकं वृच्चैकमेव तु
चतुर्दशां ध्रुवा असदन् त्रिवृदेकं च नान्तकम्
पञ्चदश्यग्ने वा जजिश्चास्रं त्रिविसर्जनः
द्वादश्यास्कन्न मद्याज्यं तथैकं चैकतो भवेत्
वसुमतीं सप्तदशश्चैकं वृत् पञ्चमस्तथा
अग्ने वे रेकादश चाद्वा भ्यमृद्वमस्स्य च
स्विष्टकृद्देवोदभिरेक विसर्जनः
अत्र पितरे कादश्यां त्रिषु वृच्च द्वयं विस्रुक्
उप हूता चैकादश्या मेकं चैकं विसर्जनम्
एकादशोपहूतस्तु शृदेकं च त्रिषुक्रमात्
चतुर्विंशमयीदंतु षड् वृत् सप्तैकनान्तकम्
देव सवितरेतंत्वा द्वादश्येकं विसर्जनम्
मनोगायत्रमोदश्यां षड्वृत् चत्वार एव च
बृहस्पतिः पञ्चदशीं तथैकं वृत् च सप्तमम्
मित्रस्य त्वाचक्षुषा च सप्तभिस्तु पदैः पृथक्
आददे ग्ने षोडशी तु चैकं वृत् षड्विसर्जनम्
स्वाहाकृतं त्रयोदश्यामेकं वृत् द्वौ विसर्जनौ
इन्द्र स्य त्वां नैकं वृत् द्वौ विसर्गौ द्विनान्तकौ
प्राणापानौ मे विंशतिर्विसर्गाद्वयमेकनान्
एषा ते अग्ने समिन्तया षोडशैकँ वृटुच्यते
सप्तदशे तत्रे देववृदेक द्वौ विसर्जनौ
मनो ज्योतिर्विंशतिस्तु चात्वारि च विसर्जनाः
अग्नी षोमयोष्टाविंशत्त्यज्जतस्रश्च केषकनान्
वसुभ्यस्त्वाचैकादशीन् द्वौ वृत्रिषु विस्स्रुषु
व्यन्तु सप्तदशीं षड्भिर्विसर्जनायकैः
द्वादशभिश्चक्षुष्पा असिवृच्चतस्रः षळत्रतु
तन्तये तन्तुषोडश्यामेकं तिस्रो विसर्जनाः
सँ स्रवभागाष्टविंशषड्भोवृदष्टमैकनाम्
अष्टादशाग्ने दष्ट्यायोः पञ्चब्रुक् चतुरो विस्रुक्
पञ्चादशाग्नये संवे त्रयश्चैवैकविस्रुत
उत्पुरुषः पञ्चविंशस्तु षड्वाष्टौ चैकनान् भवेत्
देवागातुश्चतुर्दश्यामेकं चत्वारि विस्रुताः
वरहिनवदशस्त्रयस्सप्त च विस्रुताः
कस्त्वा विमुञ्चैकादश्यां न्द्रि भिर्विस्रुग्निरेव च
वेषो स्स्युपद्वादशी च द्विस्रुक् चत्वारिश्चकनान्
द्वादशीरुद्धाः कर्माण्याश्चतुरो वृत्रिभिर्द्वयोः
संवर्चसानवदशौ द्वौ वेष्टौ च्चतुस्रो विस्रुक्
तथा त्रयज्ञशं च पञ्चदश्येकवेष्टानम्
दिवि विष्णर्नवदशो द्विवृत् षट् चैकनान् भवेत्
अस्मादतां च नवभिस्तथा द्वौ वृद् द्वयो विस्रुक्
स्वयमम्रचतुर्दश्यां वृत्त्रयं षट् च विस्रुताः
द्वादश्याग्ने गृहपते पञ्च वृत्त्रिविसर्गकः
अस्तूरिणोः षोडशीतु द्वेवृत्त्रिः स्रुग्भ्य एव च
उरुविष्णो चतुर्दश्यां चतस्रश्चैकविस्रुकः
ततोऽसि पञ्चदश्यां तु वृदेकद्वौ त्रिनान्तकम्
चतुर्विंशतिरिदं मेकर्मं द्वयोस्त्रिभिर्विस्रुक्
दशाग्नये कव्यवाहश्चत्वारि तिसृभिस्ततः
ये रूपाणि सप्तदश्यां तिस्रः षट्चतथैककम्
त्रयोविंशतिर्नमोवो विसर्गैकादशैकनान्
उदायुंषादशद्वौ वृदेकोविसर्ग एकनान्
दशद्वौ धन्तपितरो वृदेकं च द्वयो विस्रुक्
ऊर्जं वहन्तीर्द्वा दश्यामेको वृत्त्रिभिरेकनान्
इति श्रीशङ्कराचार्यकृतौ वाजसनेयसंहितायां पदकारिका रत्नमालायां
द्वितीयोऽध्यायः समाप्तः

N/A

References : N/A
Last Updated : September 22, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP