पदकारिकरत्नमाला - द्वाविंशोऽध्यायः
शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.
अथ द्वाविंशोऽध्यायः
यद्देवास्तु त्रयोदश्यां वृतमेकं च पञ्चभिः
चतुर्दशीं यादिदिवा विसर्गास्तु त्रयो भवन्
यदि जाग्रच्चतुर्दश्यां त्रिभिर्विसर्जनीयकैः
शूद्रे र्यपको द्वादश्यां वृच्चैकं च द्वयोस्ततः
द्वादश्यां द्रुपदादिव त्रयः पञ्चसु विस्रुताः
उद्वयं तु त्रयोदश्यां चत्वारि चतुरस्तथाद्
अपो अद्यान्त्र चात्रिंशद्द्वयं चत्वारि चैकता
समाववर्तिविंशत्या पञ्चचत्वारि च द्वयोः
सप्तदशाभ्यादधामि द्वयं चैवैकमिष्यते
यत्र ब्रह्मसप्तदश्यां द्वौ विसर्गौ समाहितौ
सप्तदशीं यत्रेन्द्र श्चतुरस्तु विसर्जनाः
त्रयो दश्याँ शुना तेँ शुः पञ्चमस्तु विस्रुक् ततः
सिञ्चन्ति परिसिञ्चन्ति त्रयोदशीं विस्रुग्वयम्
धाना वन्तं करम्भाष्टौ द्वाभ्यां वृच्च विस्रुग्वयम्
बृहदिन्द्रा य द्वादश्यां द्वौ वृत्त्रिभ्यस्तु चैककम्
अध्वर्यो अदिभिर्दशद्वयं चैव तथा भवेत्
यो भूतानां नवदशो वृदेकं षट्कद्वयोरथ
प्राणपामे त्रयोदश्यां षड्वृन्नवभिरत्र तु
नवाश्विन कृतस्य ते पञ्चमं चैकमेन च
समिद्ध इन्द्रः षोळश्या षड्वृच्चाष्टम एव च
नराशँ सप्रषोळश्यां चतुरः षट् च द्वौ चनान्
षोळश्या मीळितो देवै पञ्चवृन्नवमेकता
जुषाणो बर्हिः षोळशी पञ्चम्यां नवमैककम्
इन्द्र न्दुरः सप्तदश्यां त्रयाणां द्वादशस्तथा
पञ्चदश्शरुषा सानक्ता वृतैः षड्भिस्तु चैकता
दैव्या मिमानाषोळश्यां द्वयं तु त्रय एकता
तिस्रोदेवी स्सप्तदश्यामेकं वृच्चैव सप्तभिः
त्वष्टादधदष्टादशश्चैकं त्रिभ्यस्त्रयो भवन्
वनस्पतिः सप्तदश्यां द्वाभ्यां षड्भिस्तु चैकता
स्तोकानां तु पञ्चदशीं द्वयोः सप्त च विस्रुताः
आयात्विन्द्रो विंशतिस्तु त्रयश्चैवाष्टामो विस्रुक
आन इन्द्रो ष्टादशस्तु पञ्चमश्चाष्टमैकता
नवदश्यान इन्द्रो हश्चत्वारि पञ्चभिः पुनः
त्रातारं सप्तदश्यां तु चतुरो द्वयमिष्यते
चतुर्दशीन्द्रः सुत्रामा षट्कँ सप्तभिरेकता
तस्य वयं चाष्टदशश्चतस्रश्चतुरैकता
नवदशामन्द्रै रिन्द्र् त्रयश्चत्वारि च द्द्वयम्
एवेदिन्द्रं विशतिस्तु चतुर्थं सप्तमो विस्रुक्
चतुर्दश्यां समिद्धोऽग्निर्द्वौ वा षष्ठे तु विस्रुताः
द्वादशीं तन् नपाभिषद्द्वयं चैकं तु ऐकता
इन्द्रा येन्द्रं सरस्वती पदाश्चैकादशी क्रमात्
आजुह्वानास्त्रयोदश्यां चैकं वृद्द्वयमत्र तु
त्रयोदशाश्विनानमुचेरेके व्रतमेकता
कवष्यो न चतुर्दश्यां त्रिभिः पञ्चैकमुच्यते
उषासा नक्तमेकादश्या त्रयश्चत्वारि चैकता
पातं नो अश्विनादिवा चतुर्दश्येकविस्रुतम्
तिस्रस्त्रेधा द्वादशीं च द्वयं वृच्च द्वयं चतत्
त्रयोध्यश्विनाभेज वृच्चैकं त्रिषु विस्रुषु
ऋतुज्येन्द्र श्चैकादश्यां त्रयाणां वृच्चतुर्थकम्
गोभिर्नसोत्रयोदश्यामेकमेकं प्रचकत्रे
त्रयोदशाश्विना हविर्विसर्गन्तु द्वयं तम
यमश्विना त्रयोदश्यामेकं विस्रुक्तथैकना
तमिन्द्रं तु त्रयोदश्यां विसर्गास्तिस्र एव च
यन्द्र इन्द्रं द्वादश्या त्रिद्वयं च षष्ठके
द्वादशीं सविता वरुणैकं वृद्द्वयं मेरिरे
वरुणः क्षत्रं द्वादश्यां चैकं वृच्च द्वितीयकम्
एकादशाश्विनागोभिर्विस्रुतौ द्वौ तु चैकना
तानासत्याचैकादश्यां त्रयो वृतस्तचैककम्
ताभीषजा द्वादशीं चत्वारि त्रय ऊचतु
यु उं सुरामैकादश्यां द्वाभ्यामेकं तु शस्यते
यस्मिन्न श्वा सष्षोळश्यां चत्वारिप्तमेकता
अहा व्यग्ने सप्तदश्यां षड्व्रतस्तु द्वयोर्यदि
द्वादश्याश्विनातेजसा त्रयोविस्रुत एव च
गोमद्गुषुणा दशभिश्चत्वारि चैकमेव च
नयत्परो नवदशच तिस्रः षड्भिरेव च
नवभिस्तान आवोळ्ह द्वयं च द्वितयं च तत्
पावकानस्सरस्वाष्टौ द्वाभ्यां वृत्तिसृभिर्विस्रुक्
चोदयित्री सूनृतानां सप्तचैकं व्रतं भवेत्
महो अर्नस्तु दशभिर्विस्रुता श्चतुरस्तथा
दशेन्द्रा याहि चित्रभानो द्वयं चतुरस्तथा
धियेषितो विप्रसप्त द्वौ वृतौ त चतस्रकः
तू तुजान उपाष्टौ च वृतमेकं चतुर्थकम्
अश्विनाभिषैकादश्यां त्रयं चैकं प्रवर्तते
इति श्रीशङ्कराचार्यकृतौ वाजसनेयसंहितायां पदकारिकारत्नमालायां
द्वाविंशोऽध्यायः समाप्तः
N/A
References : N/A
Last Updated : September 23, 2026

TOP