पदकारिकरत्नमाला - पञ्चविंशोऽध्यायः
शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.
अथ पञ्चविंशोऽध्यायः
षड्विंशतिः प्रजापतये त्रयं यः पञ्चचैकता
यः प्राणतो द्वादशीं च चतुरोनवविस्रुताः
चन्द्र मास्ते नवदशः प्लुनर्द्वयोर्विस्रुक्
युञ्जन्ति व्रघ्नं नवभिरेकं विसर्जनीयकम्
युञ्जन्त्यस्य नवम्यां तु चतुरो षेनः क्रमात्
यद्वातो अप षोळश्यां विस्रुक् पञ्चैकनान्तकम्
पवस्वस्वां जन्तुनन्मेकं तिसृषु विसृभाः
भूर्भुवः स्वः सप्तदशीं चैकं चत्वारि च द्वयोः
सप्तदशीं कश्चिदेकाकी चतुर्थस्त्रयो विस्रुकः
सूर्य एकाकी द्वादश्यां द्वाभ्यां वृच्च तु पञ्चमम्
सप्तदश कस्विदासीद्वेष्टनैकं तथा द्वयोः
द्यौरासीच्च त्रयोदश्यां चैकं षष्ठे तु विस्रुताः
पायुष्टाव च दशभिरेकं च सप्तमो विस्रुक्
एष स्यरत्थः षोळश्यां द्वयोर्न भिरेकता
सँ शितोरश्मेकादश्यां षष्ठे तु सप्तनौ विस्रुक्
स्वयं वाजिन्त्रयोदश्यां वृदेकं नान्तमेकता
त्रयोविंशतिर्नवा उ चतुर्थः पञ्चमकता
अग्निः पशुर्द्वाविंशत्या विसर्गा दशनैचैकमान्
अम्बे अम्बिके द्वादश्यां द्वाभ्यां वृच्च द्वयोः पुनः
गणानां त्वा चैकादश्यां वेष्टनैः पञ्चभिः पृथक्
आहं जानिर्द्वाविंशः पञ्चवृच्च तु षष्ठके
एकादश्या सन्ध्या व द्द्वाभ्यां त्रिभ्यस्तु चैकता
यकासकौ शकुन्तिका त्रयोदश्येकविस्रुतम्
पञ्चदशीं यकोसकौ द्वयोर्वृतश्च पञ्चमः
माता चते सप्तदश्यां विस्रुगेकं तु शस्यते
माता च सप्तदशस्तु वृतमेकं त्रयैकता
ऊर्ध्वामेनां चतुर्दश्यां द्वौ वृतौ द्वौ चनान्तकौ
चतुर्दशोर्ध्वमेनं तु वृच्च द्वयं द्विनान्तकम्
यदस्या ॐ हु द्वादश्यां चतुरस्तु चतस्रकः
द्वादशस्तु यद्देषासस्तत्रद्वयो स्त्रयस्तथा
यद्धरिणं चतुर्दश्यां वृदेकं चैकमेव च
षोळश्यां यद्धरिणं तु विसर्गास्त्रय ईरिताः
दधिक्राव्ण स्त्रयोदश्यां वैष्टैकं पञ्चभिस्तथा
गायत्री त्रिष्टुब्द्वादश्या द्वितयं चैकमेव च
द्विपदायाश्चतुर्दश्यां षड्वृच्चैकादशो विस्रुक्
एकादशमहानाम्नास्त्रीणिचैव नवाभवन्
त्रयोदशस्तु नार्यस्ते विसर्गः पञ्चमस्ततः
द्वादशीं रजता हरिणीः सीसाश्चैकमष्टभिः
कस्त्वा छयति सप्तदशश्चैकं वृतं च पञ्चभिः
ऋतवस्तरृद्वादश्यां वृदेकं त्रय ईरितः
द्वादश्यर्धमासाः परूँ षि ते द्वयोश्चतस्रकः
दैव्या अध्वचतुर्दश्या वृतं चैकं तु पञ्चमीम्
द्यौस्ते पृथिपञ्चदशश्चैकेभ्यस्तु चतुष्ककम्
पञ्चदशसन्ते परे त्रयाणां पञ्चभिस्तु वै
किंस्वित्सूर्य पञ्चदशीं द्वयोश्च त्रीणि चैव तु
चतुर्दशीं ब्रह्मसूर्य द्वौ वृतौ पञ्चममैकता
पृच्छामि त्वा नवदशः पुनर्द्वौ द्वितयं विस्रुक्
विंशत्य पितेषु त्रिषु वृतं चैकं द्वयं च तत्
केष्वन्तो विंशतिस्तु स्याद्वयोश्चतुरैकता
नवदश्यां पञ्चस्वन्तः पञ्च वृत् पञ्चविस्रुताः
कारं मरेषोळशीं च द्वितयं वृद्द्वयोरथ
अजारे विंशं द्वादश्यां त्रयाणां च द्वयोर्विस्रुक्
कत्यस्यविष्टाष्टादशस्त्रिषु पञ्चसु विस्रुताः
षळस्य तु नवदश स्त्रीणि सप्त च विस्रुताः
कोस्य वेद सप्तदशो द्वयोश्चैव तु सप्तमी
वेदाहमस्य षोळश्यां त्रीणि चै वै त्रयस्तथा
अष्टादशः पृच्छामि त्वा परमेकं तुपञ्चमम्
नवदशीय वेदस्तु वृतमेकं दशाविस्रुक्
त्रयोदशसुभूः स्वयं भूरत्र त्रीणि सप्तभिः
होतायक्षत्प्रजादश चैकं वृतद्वितीयकम्
इति श्री शङ्कराचार्यकृतौ वाजसनेयसंहितायां पदकारिकारत्नमालायां
पञ्चविंशोऽध्यायः समाप्तः
N/A
References : N/A
Last Updated : September 23, 2026

TOP