पदकारिकरत्नमाला - अष्टत्रिंशोऽध्यायः
शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.
अथ अष्टत्रिंशोऽध्यायः
आददेभ्योः पञ्चदश्यां गाणान्तं च विहाय च
इळ ए ह्यदि तथैव पदाश्चैकादशस्तथा
अदित्यैरास्नानवम्यां श्विभ्यां पिन्वस्ववेष्टनास्त्र एव च
यस्ते स्तनो विंशतिस्तु वृत्पञ्चैकादशस्तथा
गायत्रं चतुर्विंशो द्वयोर्वृच्च त्रयो विस्रुक्
समुद्रा यत्वानवभिर्वृतमेकं तु विद्यते
सवित्ररु भुमषट्सु चतुरो वृच्च सर्वदा
यमायाङ्गिरस्वतेष्टौ वृतमेकं तु चैककम्
विश्वा आशाद्वादशीं तु द्वयं त्रयस्तथा द्वयोः
दिविधास्तु त्रयोदश्यां वृच्चैकं तु चतुर्थकः
अश्विना घर्मं दशभिरेकं चत्वारि विस्रुताः
अपातामश्विना दश वृच्चैकमेकविस्रुतम्
इषे पिन्व स्वाष्टा दश स्ततो द्वा वृदथान्तरम्
स्वाहा पूष्णो चैकादश्यां पञ्चवृच्चाष्टनिस्रुताः
रुद्रा य रुद्र हतये सप्तदशद्वयं द्वयोः
अभीमं मह्येकादश्यां चैकं वृतं तिसृष्वपि
चतुस्स्रक्तिः पञ्चदश्यां षड्वृच्चैकादशस्तथा
घर्मैतत्ते पञ्चमीं तु गणान्तो यत्र नोच्यते
द्वादश्य चिक्रदद्वृषा द्वयो वृत्पञ्चमैकता
यावती द्या सप्तदश्यां त्रयो वृदेकविस्रुतम्
षड्विंशतिं मयित्यद्गि न्द्रि यं चत्वारि पञ्चमः
त्विषस्संपृकपञ्चदश्यां नववृच्चतुरो विस्रुक्
इति श्रीशङ्कराचार्यकृतौ वाजसनेय संहितायां पदकारिकारत्नमालायां
अष्टत्रिंशोऽध्यायः समाप्तः
N/A
References : N/A
Last Updated : September 23, 2026

TOP