पदकारिक रत्नमाला - नवमोऽध्यायः

पदकारिक रत्नमाला

अथ नवमोऽध्यायः
प्राणायमेवर्चोदाष्टौ तिस्रो वृच्च द्वयोर्विस्रुक्
क्रतुदक्षाभ्यां ने सप्त द्वाभ्यां वृद्द्वौ विसर्जनौ
आत्मने मे नवम्यां तु द्वाभ्यां तिस्रश्च विस्रुताः
कोसिकतमः पञ्चदश्या त्र विस्रुक् त्रयं ततः
विस्वः पश्यः पञ्चदश्यां वृच्चत्वारि द्वयोर्विस्रुक्
चतुर्दश्यस्तु द्रा ता स्याच्चत्वारि द्वौ च विस्रुतौ
आयुर्दात्रे पञ्चदशीं द्वयं वा पञ्चमी तथा
कोदात्कस्मै षोळशीं च वेळैकं चतुरो विस्रुक्
समिन्द्र णो विंशतिस्तु चतस्रस्त्रय एकता
धातारातिः षोळशीं च चतुरः सप्तमो विदत्
सुगावः सप्तदशो वा त्रयाणां षट्सु विस्रुताः
यां आवह द्वाविंशस्तु त्रयः पञ्च तृतीयकम्
वयँ द्वित्वा विंशतिस्तु द्वयोर्द्वौ त्रिभिरत्र ते
यज्ञ यज्ञं सप्तदशश्चतुरस्तु चतस्रकः
उरूँ हि राजा द्वाविंशा षड्वावृत् षट् च विस्रुताः
अग्नेरनीकं विंशत्या त्रिभिर्वा द्वयमेकता
नव दशः समुद्रे ते पञ्च चत्वार एव च
देवीरापस्त्रयो विंशस्तिस्रः सप्त च विस्रुताः
एजतु दशाष्टादशो वेळौ द्वौ पञ्चमो विस्रुक्
यस्यास्ते पञ्चदश च विसर्गाः पञ्चमो भवत्
पुरुदस्मः षोळशीं च सप्तभिः षट्सु विस्रुषु
मरुतो यस्य दशभिर्द्वाभ्यां षड्भिर्भनं भवेत्
मही द्यौरेकादशसु तथैकं चतुरो ब्रुवन्
त्रयो विंशतिराजिघ्र चैको वृत्पञ्चमो विस्रुक्
हव्येकाम्येऽष्टादश भिर्वेष्टनौ च द्वयोरथ
इह रतीर्विंशती च द्वाभ्यां पञ्च द्वयोस्ततः
त्रयो दशागन्मत्योविर्विस्रुक् पञ्चैकनान्तकम्
युवन्तं नवविंशत्या त्रयः पञ्चम एकता
परमेष्ठी त्रयोदश्यां सप्त चत्वारि विस्रुताः
दश चेन्द्र श्च मरुतः तत्रैकं वृच्च सप्तभिः
विष्णुः शिपिभिः षड्भिर्दशविस्रुताः
दमोग्निराराग्नीध्रेस्या तिरश्च पञ्चमरिताः
विष्णुराप्री नैकादश्यां त्रिभ्यश्चैकादशीं विस्रुक्
शुक्रः क्षीरश्च्यैकादशश्चतरः सप्तविस्रुताः
सद्रो ह प्र सु सप्तसप्तदशो विस्रुक्
ययोरोजसाः पञ्चदश्यां षट्क चत्वारि चैकता
देवान् दिवं च द्वाविंशो विस्रुक् चत्वारि पञ्चनान्
इति श्री शङ्कराचार्यकृतौ वाजसनेयसंहितायां पदकारिकारत्नमालायां
नवमोऽध्यायः समाप्तः

N/A

References : N/A
Last Updated : September 22, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP