पदकारिक रत्नमाला - अष्टमोऽध्यायः

पदकारिक रत्नमाला

अथाष्टामोऽध्यायः
आदित्येभ्यश्चैकविंशो द्वयोर्वृच्च द्वयं ततः
यज्ञो देवाः सप्तविंशस्त्रिभ्यो नव तथा द्वयौ
शृतस्मै नरो विंशत्या द्वाभ्यां पञ्चैक नान्तकम्
वाममद्यन्तवदशस्त्रिभ्यः पञ्चसु विस्रुषु
सावित्रोसित्रयोदश्यां द्वयं वा चतुरस्तथा
सुशर्मासीति पञ्चभ्यस्त्रयो वेळाद्वये विस्रुक्
बृहस्पति सुतानवश्चत्वारि द्वयमेकता
अहं परस्ता विंशतिरेकं वेळैकमुच्यते
अग्ने वाक्पत्निन श्चैकं वृद्विस्रुगेकता
प्रजापतिस्त्रयोदश्यां पञ्चवृन्नवविस्रुताः
हरिरसिहारी दशत्रिभ्यः पञ्चभ्य एव च
यस्ते देवषोळशीश्च सप्तवृत्सप्तविस्रुताः
युक्ष्वा हि केशि द्वाविंश चत्वारि वृच्चतस्रः
आतिष्ठपञ्चदशस्तु द्वाभ्यामेकैकमिष्यते
इन्द्र मिट्दरी द्वादश्यां द्वौ ळौ च द्वयोर्विस्रुक्
यस्मान्नजातोऽष्टादशश्चत्वारि सप्तमोविस्रुक्
पञ्चविंशेन्द्र श्च सम्राळेकं चत्वारि विस्रुताः
अग्न आयूंष्येकत्रिंशस्त्रिर्विसर्गस्त्रिनान्तकम्
अग्ने पचस्वा दश तु वेळोस्तिस्रो द्वयं विस्रुक्
उत्तिष्ठन्नवविंशत्या त्रयश्च त्रिश्चतस्रकः
नवविंशाद्दश्रमस्याविस्रुक् षड्भ्यश्चतुर्षुनान्
दशोद्वुत्यं जातवेदसं द्वयोश्चैकमेव च
चित्रन्देवानाष्टादशस्तथैकं वृच्च षष्ठके
विन इन्द्र त्रन्योनिं शत्त्रिभ्यः सप्तभिरेकता
वाचस्पतिं पञ्चविंश षट्वृत्वेळाश्च सप्तमः
विश्वकर्मान् सप्तदशीं चत्वारि चतुरैकता
सप्तदश्यां विश्वकर्मन् द्वाभ्यां पञ्चै मुच्यते
अग्नये त्वा द्वादशीं च पञ्चवृत्त्रितयं ततः
प्रेशीनां त्वा सप्तदश्यामेकमेक तथैकता
ककुहं पञ्चविंशत्या द्वाभ्यां षण्णां तु विस्रुताः
उशिक्त्वमेकविंशत्या चैकं वृत्त्रिषु विस्रुषु विक्रमात्
इति श्री शङ्कराचार्यकृतौ वाजसनेयसंहितायां पदकारिकारत्नमालायां
अष्टमोऽध्यायः

N/A

References : N/A
Last Updated : September 22, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP