पदकारिक रत्नमाला - दशमोऽध्यायः
पदकारिक रत्नमाला
अथ दशमोऽध्यायः
देवसवितश्चैकविंशो द्वाभ्यां वृदष्टविस्रुताः
ध्रुवसदं षोळश्यां तु पञ्चवृच्चतुरस्तथा
नवम्यामप्सु षदंत्वा तथाष्टाउ वेष्टनः क्रमात्
अपां रसं चतुर्दश्यां तिसृभिश्चत्रयः क्रमात्
गृहा ऊर्जां त्रयोदश्यां द्वाभ्यां चत्वारि विस्रुताः
संपृचस्थ सं द्वादश्यां द्वयं वृद्द्वयमेव तु
इन्द्र स्य वज्रोऽष्टाविंशस्त्रयश्चत्वारि चादधः
देवीरापश्चतुर्दश्या तिस्रः सप्तैकमेधते
अप्स्वन्तरे कादश तु त्रयश्च च त्रिषु क्रमात्
वातो वाषोळशीं तु चैकं षड्भिर्द्वयं ततः
वातरँ हाष्टादशभिश्चतस्रः पञ्चचैकमैत्
जवो यस्त्रयो विंशत्या चत्वारि सप्तभिस्त्रयः
वाजिनो वाजजितो ष्टावेकं चत्वारि विस्रुताः
देवसवि चतुर्दश्यां तिस्रो वृत्रय ईरिताः
न वा बृहस्पते वाजमिन्द्र वाजं नवा पुनः
एषावस्सा षोळशीं तु वृच्चैकं द्वयमुच्यते
देवस्य ववन्नवभिर्द्वौ वृत्तत्र चतुष्टयम्
नवभिर्वाजिनो वाजं विसर्गाश्चतुरो भवन्
एषस्यसप्तदशी स्यात् चत्वारि च चतस्रुकः
उतस्मास्य नवदशी स्त्रिभिश्च सप्तभिर्यथा
शंनो भवन्तु षोळश्यां त्रयः षट्कैकमिन्धते
तेनो अर्वन् सप्तदशः पञ्च सप्त च जभ्रिरे
वाजे वाजे व षोळश्यां चत्वारि नवभिः पुनः
आमावाजस्य विंशत्या पञ्चवृच्च पुनर्द्वयोः
वाजिनो वाजिं नवति सृभिः पञ्चमीविस्रुक्
आपये स्वाहाष्टादशषड्भिर्वृदेकमिष्यते
आयुर्यज्ञेन दशभिर्विसर्गाश्चतुरस्तथा
जाय एहि त्रयो दश्यां तिसृभिः षड् तथा भवन्
अस्मे वो अस्तु द्वादश्यां तिस्रश्चैव त्रयस्तथा
नमो मात्रे षोळशी च चतुर्भिश्च विसर्जनैः
सप्तदशवाजस्येमं पञ्चम्यां पञ्चमो भवत्
वाजस्येदं नवदशो द्वयोर्वा त्रिभिरेकता
वाजस्येमां नवदशश्चतुरस्त्रय एककम्
सप्तदश्याग्ने अच्छास्यात्रयो वृत् पञ्चमीविस्रुक्
सोमँ राजानमवसे चैकादश्यां वृदेककम्
प्रभो यच्चत्वरि यमा त्रयोदश्यां विस्रुग्द्वयोः
अर्यमणं बृहस्पतिं पदाश्चैकादशी क्रमात्
सरस्वत्यै वा षोळश्यां द्वयं च द्वयमेकता
अग्निरेकाक्षषट्त्रिंशत्षट्सप्ताष्टभिरेव च
षट्त्रिशत्पूषापञ्चास्याच्चत्वारि द्वयमष्टभिः
मित्रो नवश्चतुस्त्रिंशत्सप्तचत्वारि चैककम्
वसवस्त्रयोदशाक्षपञ्चचत्वारिंशत्यदा
वेष्टना दशमश्चैवं विस्रुक्सप्तत्रयं क्रमात्
इति श्रीशङ्कराचार्य कृतौ वाजसनेयसंहितायां पदकारिका रत्नमालायां
दशमोऽध्यायः समाप्तः
N/A
References : N/A
Last Updated : September 22, 2026

TOP