संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|पदकारिकरत्नमाला|
चतुर्दशोऽध्यायः

पदकारिकरत्नमाला - चतुर्दशोऽध्यायः

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


अथ चतुर्दशोऽध्यायः
मयि गृह्णामि द्वादश्यां त्रयोवृत्त्रिर्विसर्जनाः
ब्रह्मजज्ञैकविंशत्या पञ्चम्येकादशस्तथा
हिरण्यगानवदशश्चैकं पञ्चभिरित्यपि
द्र प्सश्च स्कन्दैकविंशश्चैकं चैव चतस्रुकः
नमोऽस्तु पञ्चदशभिर्विसर्वाः पञ्चमस्तथा
या इषवश्चतुर्दश्यामेकोवा पञ्चचैककम्
एवामीरोचषोळश्यां त्रयं पञ्चैव विस्रुताः
कृणुष्वपाजोऽष्टादश श्चत्वारि चतुरैकता
तवभूमा स सप्तदशीं द्वाभ्यां चत्वारि चैककम्
प्रतिस्पशो द्वाविंशत्या द्वयोर्वृद्द्वादशी विस्रुक्
उदग्ने तिष्ठौकविंशो वेळौ द्वौ द्वयमेकता
ऊर्ध्वो भवा नवदशश्चैकं वृद्द्वयमेकता
अग्नेष्ट्वातेजसा सादयाम्यष्टौ विस्रुगेककम्
भुवोयज्ञःसप्तदशस्त्रिभिः पञ्च विसर्जनाः
ध्रुवासिपञ्चदश्यां तु त्रिभिश्चैव द्वयोर्विस्रुक्
प्रजापतिष्ट्वा द्वादश्या मेकमेकं तथैककम्
भूर्भूमिस्तु चतुर्दश्यामेकं वृत्पञ्चसु क्रमात्
विश्वस्मै प्राणविंशत्या पञ्चवृच्चैकमिष्यते
काण्डात्काण्डा द्द्वादशी च त्रयश्चैव त्रयं क्रमात्
द्वादश्यां या शतेना द्वयोरेकं तु चैक हि
यास्ते अग्ने सूर्य्ये षोळश्यां द्वयोस्सप्तसुविस्रुषु
षोळशो या देवाश्च वृदेकं तु भवा विस्रुक्
विराड्योतिर्द्वादशीं तु त्रिभिश्चत्वारि विस्रुताः
विश्वस्मै पञ्चदशभिस्त्रयाणां त्रयमत्र तु
मधुश्च सप्तत्रिंशच्च वृद्द्वादशत्रयोदशीम्
अष्टाळ्हासि द्वादशीञ्च द्वयं च द्वितयं तथा
सह स्वेमाश्चैकादश्यां द्वयोस्तिसृभिरित्यपि
मधुवाताश्च दशसु तथैकं पञ्चमो भवन्
द्वादशीं मधुनक्तं तु तथैकं चतुरो भवन्
अपाङ्गं भं नवदशस्त्रिभ्यः सप्तभ्य एककम्
त्रीन् समुद्रा नष्टादश त्रयः पञ्च त्रयस्तथा
ध्रुवासिचं नवदशः पञ्चषट्कमथैककम्
इषे राये षोळशीं तु वेष्टनौ द्वौ तथापि च
अग्ने युक्ष्वा ह्येकादश्यां द्वयोर्विसर्गयोरथ
युक्ष्वाहि देवदशसु द्वाभ्यां त्रिभ्यस्तथा द्वयोः
सम्यक्स्रवः सप्तदश्यां तथाष्टौ च विस्रुताः
ऋचे त्वा रुचेत्वाभासे चतुर्दश्येकविस्रुतम्
अग्निर्ज्योतिषा दशभिश्चैकवृत्तिर्द्वयोस्ततः
सप्तदश्यादित्यं गर्भं त्रसो वृच्च द्वयं ततः
वातस्य जूसप्तदश्यां द्वयं चैकं तु चैककम्
सप्तदश्याजस्रमिन्दुं पञ्चानां पञ्चसुक्रमात्
वरूत्रीं त्वा सप्तदशीमेकं वृत्रिभिरेककम्
यो अग्निरग्नेकविंशत्या द्वाभ्यां सप्त च विस्रुताः
अष्टाविंशतिरिमं मा हिंसीर्द्वयं च पञ्चसु
एकशफं दशैकं वृत्साहस्रैकादशी द्विवृत्
वरुणस्येति द्वादश्यां तिसृषु द्वयम्
अजो ह्यग्नेकविंशत्या विस्रुक् पञ्चद्वयं च नान्
त्वं यविष्ठैकादःश्यां तु द्वौ विसर्गावथैकनान्
षड्विंशतिरपां त्वेमान् त्रिर्विन्नान्तास्त्रयस्तथा
दशायँ पुरोभुवोवै द्वयं च षड्भिरेव च
गायत्र्यै गा पञ्चदशीं सप्तमं षड्भिरत्र तु
अयं दक्षिणादशभिस्त्रयो वृतित्रयं ततः
त्रिष्टुभः पञ्चदशसु चाष्ठभिर्नवभिः पुनः
अयं पश्चाद्दशसु चेद्वयं तु चतुरो भवन्
जगत्या पञ्च दशस्यात्सप्तवृत्सप्तविस्रुताः
दशेदमुत्तराच्चैवं द्वयोर्वृच्चैकमेव च
पञ्चदशोऽनुष्टुभश्च पञ्चवृत्षदकमेव ते
दशेयमुपरिमिति विस्रुक् चत्वार एव च
पङ्क्त्यैः निधन्नैकविंशश्चाष्टौ वृत् षट्च विस्रुताः
इति श्रीशङ्कराचार्यकृतौ वाजसनेयसंहितायां पदकारिकारत्नमालायां
चतुर्दशोऽध्यायः

N/A

References : N/A
Last Updated : September 23, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP