पदकारिकरत्नमाला - एकोनविंशोऽध्यायः
शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.
अथ एकोनविंशोऽध्यायः
इमँ स्तमसप्तदशीं द्वयोर्वृच्चैकनान्तकम्
घृतं मिमिक्षे नवदश त्रिवृत्त्रिद्वयविस्रुक्
समुद्रा द्रुर्मिन्नवदशीं द्वयोर्वृद्द्वयमेकना
सप्तदशीं वयन्नाम द्वयोः पञ्चैकमेवतु
चत्वारि शृङ्गानवदशा तु द्वौ सप्त चैकना
त्रिधाहितं नवदशीमेकेन षड्भिरेककम्
एता अरुषं त्रयो विंशस्त्रिभ्यश्च नवभिस्तथा
सिन्धोरिव पञ्चदशीं चत्वारि ना चैककम्
अभिप्लवं पञ्चदशीं त्रिभिश्चाष्टौ विसर्जनाः
कं चा इव चाष्टादशीं द्वयं वृत्पञ्च विस्रुताः
मा अभ्य ऋषत चाष्टादशो द्वयोश्चैव द्वयोरथ
या मन्ते चैकविंशत्या चतुभिश्चतुरेकता
नाजश्च मेष्टादशभिश्चत्वारि द्वादशि विस्रुकम्
प्राणो पानो द्वादशीं तु त्रयष्षट्कं च विस्रुताः
ओजस्सहोद्वादशस्तु विसर्गाश्चतुरोऽभवन्
ज्यैष्ठयं च मे चतुर्दश्या एकं वृच्चैव पञ्चमः
सत्यां श्रद्धा द्वादशीं तु यं च दषितयं तथा
पितृं वे द्वंद्वादशीं स्यात्त्रिभ्यश्चतुर्भ्य एव च
द्वाशो यन्तायन्ता च द्वयोः षड्भिर्विसर्जनैः
शर्मयः प्रियं द्वादश्यां चैकं चाष्टभिरित्यपि
ऊर्कच्च नृता द्वादशी च द्वाभ्यामत्र षळित्यपि
द्वादश्यामृतमृतं चत्वारि वृद्द्वयोर्विसृक्
द्वादशी चरैरायास्त्रिभ्यो वृच्च त्रिभिर्यथा
वीहयोयवा द्वादश्य विसर्गा द्वादशस्तथा
द्वादशी चाश्मा नृत्तिका पञ्चमो वाविसर्जनाः
अग्नेरापस्त्रयोदश्यां द्वयो रेकादशस्तथा
वसुर्वसतिश्चाष्टौ वा विसर्गाः पञ्चमः उतः
अग्निरिन्द्र स्सोमः सप्तचतुर्भिस्तु विसर्जनैः
मित्रो वरुणास्सप्तमश्चत्वारि च विसर्जनाः
पृथिवीयन्तरिक्षं सप्तचतुरो विस्रुग्मतु
अंशूरश्मि द्वादशीं तु चत्वारि द्वादशो विस्रुक्
द्वादश्याग्रयणो वैश्व पञ्चभिस्तु त्रयोदश
स्रुशृ च श्चमसा द्वादशी षड्भिर्नवभिरेव च
अग्निर्घर्मस्त्रयो दश्यामेकं वृद्द्वादशो निस्रुक्
व्रतं मृतवस्त्रिभिस्त्रिभ्यो वृद्द्वय ईरिता
एकातिस्रः सप्तदशीमेकादश नवा विस्रुक्
चतस्रोष्टौ द्वादशीं तु पञ्चवृत् षडसविस्रुगः
त्रियपि स्त्रीयपी दशसु वातथाष्टौ त्रिषु विस्रुगाः
पष्ठवाट् च द्वादशस्तु चैकं वृत्त्रिभिरेकन
नवदशभिः स्वा नाय स्वाहा सप्तैकमेव च
इयं तेराट् चतुर्दश्या द्वाभ्यां वृच्चैकमेव च
आयुर्यज्ञे न षोळश्यां विसर्गः सप्तमं पुनः
स्तोमो यजुस्सप्तदशीं त्रयोवृत्सप्तविस्रुगः
इति श्रीशाङ्कराचार्यकृतौ वाजसनेयसंहितायां पदकारिका रत्नमालायां
एकोनविंशोऽध्यायः समाप्तः
N/A
References : N/A
Last Updated : September 23, 2026

TOP