पदकारिक रत्नमाला - षष्ठोऽध्यायः

पदकारिक रत्नमाला

अथ षष्ठोऽध्यायः
अग्रणीः सप्तविंशत्या चतस्रो वृच्चाष्टभीः
या ते धामा नवदशो द्वाभ्यां चत्वारि विस्रुताः
विष्णोः कर्माणि नवभिर्विसर्गाश्च त्रयस्तथा
दश तद्विष्णोः परं द्वौ वृत्रिभिर्विसर्जनैः
परिवीरसि द्वा द्वाविंशश्चैकं वृच्चदशाविस्रुक्
उपावीस्सप्तदशभिर्द्वाभ्यां षड्भिर्द्वयोस्ततः
रेवती स्त्रयो दशभिरेकं वृत्रिभिरत्र च
अग्नीषोमाभ्यां नवभिस्तथैकं वृद्द्वयोर्यदि
अपां पेरुश्च दशमस्तथैकं वृच्चतस्रकः
सन्ते प्राणश्चैकादश्यां चैकं वृच्च त्रयं ततः
घृतेनाक्तौ पशुदशचैकं विसर्जनीयकम्
उरोरन्तस्त्रयोदश्यामेकं वृत्रिर्विस्रुग्भवेत्
वर्षो वर्षी चतुर्दश्यां द्वयोः षड्भिर्विसर्जनैः
नमस्त आता द्द्वादश्यां वृदेकं तु त्रयस्तथा
देवीरापः शुद्धा दश त्रयो वृच्चषट्कमन्यथा
वाचन्ते द्वादशी तत्र विसर्गोस्येकमेकनान्
मनस्त आप्या द्वाविंशो द्वयोः षट्सु विस्रुग्यथा
वाचन्ते द्वादशी तत्र विसर्गो ह्येकमेकनान्
ॐषधे त्रायैकदश्यां द्वयोश्चतुर्थमेव च
दशेदमहरक्षोभिर्विसर्गौ द्वौ प्रकीर्तितौ
घृतेन द्यावाषोळश्यां चत्वारि वृत्त्रयं ततः
सन्ते मनस्सप्तदशी चत्वारि विस्रुगेकनान्
वातसत्वाद्ध्रा ज्यैन नव चैकं वृच्च त्रयं ततः
घृतं घृतपादशव्या द्वयोर्वृच्च त्रयं क्रमात्
दिशः प्रदिशः षोळश्यां नव चैकादशाविस्रुक्
देवत्वष्टर्नवदशश्चत्वारि त्रितयं विस्रुक्
समुद्रं गच्छ विंशत्यां ततो द्वाभ्यां द्वितीयकम्
दिवन्ते धूमैकादश्यां विसर्गस्ततथा द्वयोः
द्वाविंशतिर्मापोमौषधीश्चैकमेकादशैकनान्
सुमित्रियानः पञ्चदश्यां द्वाभ्यां वृदष्टमैकता
इदमापोष्टादशभ्यः कुर्याद्द्वाभ्यां द्वयोश्च तत्
हविष्मतीश्च द्वादश्यां विसर्गाः षट्त्रयश्चनान्
अग्नेर्वोपं त्रयोदश्यां त्रिभ्यो वृत् षड्भ्य एव च
अमूर्या उपद्वादश्या षड्भिर्विस्रुग्भिरेव च
हृदेत्वामनैकादश्यां द्वयोरत्र विसर्गयोः
सोमराजं दशभ्यस्तु चत्वारि चतुरैकता
शृणो त्वग्नेकविंशत्या चैकवृत्सप्तमेऽपि वा
देवीरापो दश द्वौ वृत् सप्तम्यां च तथा
तं देवेभ्यो नवम्यां च द्वयोश्चैव त्रिभिर्यथा
कारिषिस्तु चतुर्दश्यामेको वा पञ्चमो विस्रुक्
त्रयोदशीं यमग्ने पृत्स्वैकं वृत्पञ्चसुक्रग
आदवासिविंशत्या पञ्चसु द्वयमुच्यते
मनोमेषोळशैकं वृत्त्रिभिर्विस्रुक् त्रिभिश्चनान्
दशेन्द्रा यत्वा वसुमषट्सुवृच्च परावत्
यत्ते सोम सप्तदशीं विसर्गस्तु द्वयं ततः
भ्वात्रास्थ पञ्चदश्यौ वा चत्वार्यष्टभ्य एव च
भ्वात्रास्थ पञ्चदश्यौ वा चत्वार्यष्टभ्य एव च
माभेर्यासं सप्तदशीं त्रिभ्यश्चतुर्भ्य एव च
प्रागपात्पञ्चदश्यां तु विसर्गाश्चतुरो भवेत्
त्वमङ्ग सप्तदश्यां तु चैकं चत्वारि चैकता
इति श्री शङ्कराचार्यकृतौ वाजसनेयसंहितायां पदकारिका रत्नमालायां
षष्ठोऽध्यायः समाप्तः

N/A

References : N/A
Last Updated : September 22, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP