संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|पदकारिकरत्नमाला|
त्रयस्त्रिंशोऽध्यायः

पदकारिकरत्नमाला - त्रयस्त्रिंशोऽध्यायः

शिक्षा ग्रंथात वैदिक मंत्रांचे उच्चारण, पद-संधि, घन-पाठ आणि वर्णांच्या शुद्धि संबंधित नियमांचे वर्णन केले आहे.


अथ त्रयस्त्रिंशोऽध्यायः
यज्ज्याग्रतो विंशतिस्तु चतुर्थं वृत्त्रयो विस्रुक्
पितुर्नुस्तोत्रयोदश्यां चैकं वृद्द्वयमत्र तु
अग्निदनुसप्तदश्यां चैकं वृतं चतुर्थकः
सिनीवालि त्रयोदश्यां त्रयोवृदेकविस्रुतम्
त्रयोदशीं पञ्चनद्यवेष्टनौ द्वौ द्वयं ततः
सप्तदशस्तु त्वमग्ने प्रथमो द्वौ दशाविस्रुक्
विंशतिस्त्वन्नो अग्ने तव वृद्द्वयोः पञ्चमो विस्रुक्
षोळश्युत्ताना याम वद्द्वाभ्यां पञ्चकमेव च
इळायास्त्वा त्रयोदश्यां वृदेकं त्रिर्विस्रुग्यथा
प्रगन्महे चतुर्दश्यां द्वितयं वृच्चचैकता
अष्टादश प्रवोमहे मह्येकमष्टमैकता
इच्छन्ति त्वाष्टादशीं च वृद्द्वयोश्चतुरो विस्रुक्
नते दुरे चैकविंशत्त्रिवृत्त्रिविस्रुतस्तथा
अषाळ्हं युत्सुषोळश्यां पञ्चवृच्चैकविस्रुतम्
षोळशीं सोमो धेनुं च द्वयोर्वृताश्चतुर्थकः
त्वमिमा ओषविंशति सप्तमस्तु विसर्जनाः
विंशतिर्देवेन नस्तु द्वयं वृत्त्रितथैकता
अष्टौ व्यख्यन्नवदशो वृदेकं चतुरैकता
हिरण्यपाणिस्सप्तदश्य त्रचत्वारि त्रिर्विस्रुक्
हिरण्यह चतुर्दश्यां सप्त वृत्सप्त त्रीन् क्रमात्
एते पन्थाविंशतिस्तु चत्वारि दशविस्रुताः
नवम्यामुभापिबतं वेष्टनैकं त्रयस्तथा
अप्नस्वतीं नवदशस्तत्र द्वौ वृद्द्वयं विस्रुक्
द्युभिरक्तुभिरष्टौ च वृद्द्वयं चतुरैकता
आरात्त्रिपार्थिः षोळश्यां वृदेकं पञ्चविस्रुताः
त्रयोदश्युषस्तच्चित्रं चैकं वेष्टनमेककम्
द्वाविंशतिः प्रातर्जीतं द्वाभ्यां वृच्च षळत्र तु
पूषन्तव द्वादशस्तु चैकं विस्रुक्तथैकना
पथस्पथस्सप्तदश्या पञ्चवृत्सप्त विस्रुताः
त्रीणिपदाविदशमीं विस्रुक् चत्वारि चैकना
दशमस्तद्विप्रासो द्विवृदेकं चतुरो विस्रुक्
त्रयोदश्यां घृतवती वेष्टनादशमः क्रमात्
नवदशायेनस्सपत्ना चत्वारि पञ्चच द्वयोः
आनासत्या नवदशस्त्रिर्वितः षट्चविस्रुताः
एषवस्तोमोऽष्टादशश्चैकं वृतन्तु षष्ठके
सहस्तोमाः पञ्चदश्यां षड्वृतो ष्टभिरेकता
त्रयोदशायुष्यं वर्चस्यं शयमेककम्
पञ्चविंशो नतद्र क्षां स्येकं वृत्सप्त विस्रुताः
यदा बध्वं च षोळश्यां चतुर्थस्त्रिर्द्वयोर्यदि
उतनोहिः सप्तदश्यां त्रिर्वेष्टैकादशी विस्रुक्
सप्तदशीमागिरश्च त्रिभिर्द्वादश विस्रुताः
सप्त ऋषयो नवदशो वृच्चतुर्था विसृक् च षट्
उत्तिष्ठ ब्रह्मषोळश्यां द्वयं वृत्पञ्चमो विस्रुक्
पञ्चदशी प्रनूनंतु षड्विस्रुक् चैकनान्तकम्
विंशति ब्रह्मणस्पते द्वौ वृतौ विस्रुतस्त्रयः
इति श्रीशङ्कराचार्यकृतौ वाजसनेयसंहितायां
पदकारिकारत्नमालायां त्रयस्त्रिंशोऽध्यायः समाप्तः

N/A

References : N/A
Last Updated : September 23, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP