पदकारिक रत्नमाला - प्रथमोऽध्यायः

पदकारिक रत्नमाला

श्रीशङ्कराचार्यविरचिता श्रीकान्तं सितरुचिराजितोत्तमाङ्गं गौरीशं गुरुपदमम्बुजालयं च ।
सन्नत्वा सुललितलक्षणं पदानामाचार्यैः प्रकटितमेव वाचयामः
पदानामावलिं वेल विसर्गाणां निरीक्षणम्
नान्तानां वक्ष्यते लक्ष्मनिक्षिप्यैकाक्षरे क्षयम्
विहीना ऋ लृ वर्णाभ्यां न वा यः स्वराः
दशमं निन्दुना ज्ञेयं विसर्गाद्विंशतिर्भवेत्
त्रिदशाङ्को कुङ्कुशः पार्श्वा उकारश्चोभयाङ्कुछाः
आसन्नस्रिदशं लक्ष्म यत्र क्वचिदिह स्फुटम्
पदानां लक्षणं प्रोक्तं वेलानां तदनन्तरम्
वार्गाणां पञ्चमार्वाणां पञ्चपञ्चोर्ध्वरेफया
दशोभयाङ्कुशं लक्ष्म वेदे वाजसनेयके
वार्गान्तशक्षरैः पञ्चविसर्गाणां निरीक्षणम्
अन्यो रेफस्तथा पञ्च द्विपञ्चेषु शुकस्तथा
सवेलसनिसर्गाङ्को वार्गाणां च हलं क्रमात्
सविसर्गास्तथाम्भस्था हकारेणाप्तलक्षणम्
अवेलास्तद्वद्दृष्ट्वाणो लस्तस्थैव हनं क्रमात्
नान्तानांनै त्वधोयुक्तं वर्गाणां च हलःक्रमात्
ऊष्माणं च तथान्तस्थरेफवर्जं यथाक्रमम्
पञ्चानां च द्विपक्षी च शुकी पारि श्वतीति यत्
गणान्तानां निजं पूर्णं सप्तानां पदलक्षणम्
सर्वशास्त्रविचारज्ञः सदाचार समागमः
तपस्समाधिनिरतो गुरुध्यानसमन्वितः
सर्ववेदार्थतत्वज्ञो भानुकोटिसमद्युतिः
सर्वागमविवेकज्ञः सर्वमन्त्राधिपः शुचिः
शङ्कराचार्यनामाहं रत्नमालाच वक्ष्यते
उमायुक्तो विश्वनाथश्चरणद्वयवन्दितः
ब्राह्माणं भास्करं व्यासं श्रीकान्तं च जठात्प्रभुम्
यजुर्वेदमहाकल्पतरोरेकशतैर्युताः
शाखारूतत्रशिरवाकाराः प्रथमा काण्वसंज्ञिका
पुण्यं पवित्रं पूतन्तु सर्वमन्त्रसमागमम्
यजुषां चैव सर्वेषां तन्ह्रेष्टसममुत्तमम्
पदानां कारिकां चैव रत्नमालां च सौद्वकाम्
यशाखासु यथोक्तं तु यथाकृतम्
तथा श्रुत्य नुसारेण वक्ष्ये हं रत्नमालिकाम्
पदानां चैव वेष्टानां विसर्गाणां तथैव च
यथाक्रमस्तु नान्तानां वक्ष्येऽहं गण्यते तथा
इषे त्वेति समन्त्रस्य पदास्त्रयोदशैव च
वेष्टनं चैकमेव स्याद्विसर्गास्तु त्रयो भवेत्
आप्यायध्वं चतुर्दभ्यां द्वौ वृत सप्तविसर्जनाः
ध्रुषा ह्यस्मिन्नेकादशीमेकवृत्रिर्विस्रुज्विनान्
दशदौरसि वृत्र्यैकं विसर्गाश्चतुरो भवेत्
पञ्चदशी न्दुहस्व मवृत्रयो श्चतुरो विस्रुक्
देवस्त्वादशा वृट्ट्वौ च त्रि सर्गः परे क्रमात्
देवस्त्वादशा वृट्ट्वौ च त्रि सर्गः परे क्रमात्
देवस्त्वादशा वृट्ट्वौ च त्रि सर्गः परे क्रमात्
त्रयो दशैते साविश्वा वृच्चतस्रो विसृग्वयम्
पञ्चदशाग्ने व्रतपते वृतं चैक वेष्टनम्
कस्त्वा युनक्ति दशमीं विसर्गौ द्वौ पदे यथा
प्रत्युष्टं रक्षो द्वादश्यां चतस्रोऽष्टौ विसर्जनाः
सप्तपदास्तु देवानां सप्तवृत्रिर्विसर्जनाः
सप्तदश्यां तु विष्णुस्त्वा त्रयोवृत्पञ्चविस्रुताः
अग्नये जुष्टं द्वादश्यां वृदेकं चैकं विस्रुतम्
दृँ हन्ता वष्टृदुर्य्या प्योलशीं चैकं वृत्तिर्विसर्जनाः
पवित्रे स्थो द्वादशां च वृत्र्यश्चतुरो विस्रुक्
देवीरापो द्वादशी स्यात्पञ्चवृच्चतुरो विस्रुक्
युष्मां इन्द्रो विंशतिस्तु त्रयोवृत्तिर्विसर्जनाः
दैव्याय कर्म द्वादश्यां प्राट्वयोश्च त्रयस्तथा
शर्मासीति त्रयोदश्यां द्वानयां पञ्च विस्रुक् ततः
एकादश्यामद्रि रसि प्राचैकं चतुरस्तथा
अग्ने स्तनुरस्यष्टौ स्याद्वेष्टनौ द्वौ त्रयो भवन्
चतुर्दशां बृहद् ग्रावा चतस्रश्चतुरैकनान्
कुककु सि दश द्वौ वृद् द्वौ विसर्गौ ततः परम्
वर्षवृद्धं दशम्यां तु चत्वारि वृत्रयो विस्रुक्
अपहतं चतुर्दश्यां वृट्वयं षष्ठमुच्यते
धृष्टि त्रयोदशां चैव त्रयो वृद्द्वौ निसर्जनौ
ध्रुवमसीति द्वादश्याँ त्रिषश्चैको विसर्जनः
अग्ने ब्रह्मन्नवपदा विश्वाभ्यस्त्वा चतुर्दशीम्
एकं पञ्च चधिषणाष्टादशौ द्वौ विसर्जनौ
धान्यमेकादशी द्वौ वृन्नान्तमेकं यथोदितम्
प्राणायन्त्वा चतुर्दश्यां वृत्त्रयस्तैकमेव च
वेदो सीतिचतुर्दश्यां विसर्गा मस्तथा
संवपामि नवदश द्वौ वच्च सप्त विस्रुताः
इदमग्नेश्च षोळश्यां ऊत्रयः षड्विसर्जनाः
षोळश्यग्निष्टेत्वचं तु वृद्द्वयं सप्तमा भवन्
मा भे पञ्चदशैकं वृट्विसर्गः पञ्चमस्तथा
पञ्चदशाददेध्वरश्चतुर्विश्व विस्रुताः
पृथिव्यै वर्मदशसु षृदेकं चैकमेव च
चतुर्विंशो व्रजं गच्छ वृट्वौ षड्वेकनाद्भवेत्
अपारुरुं चतुर्दश्यां द्वौ प्राट्वौ विस्रुगोकनान्
यत्रेणत्वाष्टविंशो वेष्टनौ ट्वौ प्रकीर्तितौ
अष्टादंश पुरा कूरः पञ्चमं पञ्चनान् द्वयोः
अनिशितोसिषोळश्यां षड्वृच्चैकं च विस्रुतम्
पञ्च दशादित्यैरास्ना पृदेकं द्वयमुच्यते
अग्ने र्जुह्वाट्वादशाँ च त्रिवृत् षट् च विस्रुग्यथा
एकादश्यां तु तेजोसीत्येकं चैकमेव तत्
यस्ते प्राणो विंशतिस्तु पञ्चमं च त्रिनान् भवेत्
इति श्रीशङ्कराचार्यकृतौ वाजसनेयसंहितायां पदकारिकारत्वमालायां
प्रथमोऽध्यायः समाप्तः

N/A

References : N/A
Last Updated : September 22, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP