पदकारिक रत्नमाला - चतुर्थोऽध्यायः

पदकारिक रत्नमाला

सप्तदश्येदमगन्म चत्वारि षट् च विस्रुताः
इमा आपैकविंशः स्यात्तिसृष्वष्टौ तथैककम्
विश्वँ हि चतुर्विंशतिश्चैकं षड्भिस्तु चैकना
महीनां पयःपषोळश्यां द्वाभ्यां सप्त च विस्रुताः
द्वाविंशति चित्पतिर्माषड्भ्यां पञ्चभ्य आहरेत्
त्रयो दश्या वो देवा सो द्वौ षड्हिः सर्व एव तु
स्वाहा यज्ञं मनसश्च नवपदा द्वौ विस्रुगौ
त्रयो विंशत्या कूत्यै तु चत्वारि वृच्चतस्रुकः
विश्वो देव त्रयोदश्यां विसर्गाश्चतुरस्तथा
ऋक्सामयोश्चतुर्दश्यां पञ्चभ्यो विसृतास्त्रयः
शर्मासि शर्माष्टदशश्चैकं वृत्रिश्च एव च
सोमस्य नीविश्चतुर्दश्या त्रैकं पञ्चमी तथा
उच्छ्रयस्व चैकादश्यां एकं तिस्रो विसर्जनाः
दशभ्यो नृतं कृणुतौ पञ्चभिश्च विसर्गकैः
दैवीज्यमेकादश्यां चतस्रस्तु द्वयं विसृक्
ये देवाश्च त्रयोदश्यां त्रयो वृन्नव विस्रुगाः
श्वात्राः पीताष्टादशो द्वयोर्वृद् द्वादशीँ विसृक्
इयन्ते चैव षोळश्यां त्रिभ्यः पञ्चभ्य एव च
चतुर्दश्यग्ने त्वं सृजा त्रयश्च त्रिभिरेककम्
पुनर्न नो नवविंश पञ्चभिः पञ्चदश्य च
त्वमग्ने व्रतैकादश्यां तथैकं वृत्रिभिः पृथक्
रास्वेयच्च त्रयोदश्यां चत्वारि च विसर्जनाः
सप्तदश्येषा ते शुक्रो विसर्गैर्स्त्रिभिरूहतु
तस्यास्ते सत्त्रयोदश्यां त्रयो वृच्च द्वयोर्यरि
चिदसि मनासीस्त्रयोदश्यां त्रयश्चत्वारि विस्रुताः
मित्रस्त्वापद्यष्टादशस्त्रिभ्यश्चत्वारि सर्वदा
सादेवि देवं षोळश्यां तकद्वयमुच्यते
वख्यश्मि चतुर्दश्या थचैकेन च त्रिषुक्रमात्
द्वादश्यदित्यास्त्वामूर्ध्नन्द्वौ त्रयस्येमस्य तु
अस्मे रमस्वा नवभिस्चत्वारि च त्रयस्तथा
मा वयमष्टाविंदत्या त्रयः पञ्चभ्य एककम्
सप्तदश्येण ते गायत्रा त्रयं षड्भिर्यथाक्रमम्
नव चास्माकोसिशुकश्चैकं चत्वारि विस्रुगाः
चतुर्विंशतिरभित्यं षड्भिः सप्तभ्य एव च
पजाभ्यस्त्वा प्रजास्त्वष्टौ पञ्चभिस्त्रितयं ततः
चन्द्र त्वा चतुर्दश्यामेकं वृदेकविस्रगः
तपसस्तनूर्दशे तु द्वौ वृतौ चाचतुर्षुक्रमात्
मित्रो नश्चतुर्दश्या थचैक द्वारिचैकनः
स्वानं भ्राज पञ्चदशीं त्रयस्त्रिभ्यो द्वयं ततः
परिमाग्ने षोळशीच त्रयश्चैकं तथैकन
प्रतिपन्था द्वादशी तु तथैको द्वितयं भवेत्
चतुर्विंशत्यदित्यास्त्वक् तत्रैकश्चतुरस्तथा
वनेषु व्यन्तोष्टादश स्तद्द्वौ ज्या द्वममिष्यते
सूर्यस्य चक्षुर्द्वादश्यामेकोवा षड्विसर्जनाः
उस्रावेतं द्वादशी तु चत्वार्येकैकमारभेत्
भद्रो मे सप्तविंशत्या त्रिभ्यः सप्तद्वयं ततः
नमो मित्रस्य षोळश्या द्वयोर्वृच्च त्रयं ततः
वरुणस्योत्तम्भदश च चत्वारीत्येकविस्रगः
याते धामानवदश पञ्चचत्वारि चैककम्
इति श्रीशङ्कराचार्यकृतौ वाजसनेयसंहितायां पदकारिकारत्नमालायां
चतुर्थोऽध्यायः

N/A

References : N/A
Last Updated : September 22, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP