संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|हरिपाठ:| २८ हरिपाठ: १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ हरिपाठ: - २८ महाराष्ट्रप्रान्ते विख्यात: साधु: ज्ञानेश्वरकृतो हरिपाठ: ॥ Tags : dnyaneshwarharipathsanskrutज्ञानेश्वरसंस्कृतहरिपाठ हरिपाठ: - २८ Translation - भाषांतर भवन्ति हरिपाठेऽस्मिन् पद्यानामेकविंशति: । विश्वस्य नामसामर्थ्ये ज्ञानेशरचितानि च ॥१॥ इन्द्रायणीनदीतीरे नित्यं पठति यो नर: । ततस्तस्याधिकारश्च सर्वथा जायते ध्रुवम् ॥२॥ चैव स्वस्थचित्तेन साधक: । सोल्लासं च तथा कुर्यान्नामस्मरणमन्तरे ॥३॥ जीवनस्यान्तिमे काले सङ्कटेषु तथैव च । बहिश्चैवान्तरे चैव निभालयति तान्हरि: ॥४॥ अनुभूतमिदं नैकै: साधुभि: सज्जनैस्तथा । यश्चालसो मन्दबुद्धि: स कथं नु तरेन्नर: ॥५॥ निवृत्तिसद्गुरोरेतत् श्रुत्वा प्रेमयुतं वच: । अनुक्षणं ज्ञानदेव: सन्तोषं परमाप्तवान् ॥६॥ N/A References : N/A Last Updated : October 02, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP