एकं वापि क्षणं तिष्ठेत् देवद्वारे नरो यदि । सम्पादयेत्तावतैव स तु मुक्तिं चतुर्विधाम् ॥१॥  
मुखेन श्रीहरिर्गेयो हरिर्गेयो मुखेन च । यद् हरिस्मरणाज्जातं तत्पुण्यं गणयेन्नु क: ॥२॥  
संसारस्थोऽपि जन्तुश्चेत् त्वरते नाम जिह्वया । तरतीति माहाघोष: श्रुतिशास्त्रेषु सर्वदा ॥३॥  
ज्ञानेश्वरो वदत्येवं व्यास-सङ्केत-पालनात् । पाण्डवानां गृहं साक्षाद् द्वारकेश: समागत: ॥४॥

N/A

References : N/A
Last Updated : October 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP