हरिणैक्यं तस्य नाम्नो , द्वैतं नामान्तरस्य च । अद्वैतं हरि-तन्नाम्नोर्जानाति विरलो जन: ॥१॥
समबुद्धिर्जपात् ,साम्यं हरेर्विज्ञायते तया । श्रीहरिस्मरणात्सिद्धिर्शमस्य च दमस्य च ॥२॥
सहस्ररश्मिरादित्यो यथा सर्वप्रकाशक: । अचरेषु चरेष्वेवं राम एक:प्रकाशते ॥३॥
वक्ति ज्ञानेश्वरश्चित्ते नित्यं मे हरिसंस्मृति: । तेनाग्रिमेभ्यो जन्मभ्यो जातं मम विमोचनम् ॥४॥

N/A

References : N/A
Last Updated : October 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP