सम्प्राप्यते चित्तलय: साधूनां सङ्गतौ तत: । श्रीपति: सम्प्रापणीय एतेनैव पथा ध्रुवम् ॥१॥
रामकृष्णेतिवचनं जीवभाव इति स्मृत: । शिवस्यात्मेति विख्यातो रामनामजपो ह्ययम् ॥२॥
एकतत्त्वात्मकहरौ नाम साधनमुच्यते । साधयन्ति च ये तत् तान् द्वैतबन्धो न बाधते ॥३॥
नामामृतरसास्वादे वैष्णवानां परा रुचि: । दीर्घजीवनविद्या या साधिता सा तु योगिभि: ॥४॥
नामोच्चारस्य दृढता प्रह्लादे बाल्य एव च । उद्धवस्योपदेशं तु श्रीकृष्णोऽकुरुत स्वयम् ॥५॥
ज्ञानदेवो वक्ति नाम साधनं सुलभं स्मृतम् । जानाति कश्चिदेवं यत् कठिनं साधनान्तरम्  ॥६॥

N/A

References : N/A
Last Updated : October 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP