तीर्थैर्व्रतैर्वा नियमैर्न सिद्धिर्भाववर्जितै: । भावशून्यं वृथोपाधिरूपमेतदहो जना: ॥१॥
विज्ञायते च विस्पष्टं हस्तस्थामलकं यथा । तथा भावबलेनायं हरिर्ज्ञायेत नान्यथा ॥२॥
भूमिस्थ: पारदकणो यथा यत्नशतैरपि । न गृह्यते, साधनानां शतैरपि तथा हरि: ॥३॥
ज्ञानेश्वरो वदति यत्, निवृत्तिर्निर्गुणो गुरु: । स स्वरूपस्थितिं पूर्णामददाद् हस्तयोर्मम ॥४॥

N/A

References : N/A
Last Updated : October 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP