हरिवंश: पुराणानि हरिनाम च कीर्तनम् । हरिं विना च विषयो यस्मै कोऽपि न रोचते ॥१॥
नरस्य तस्य लाभोऽयं य़द् वैकुण्ठं समाप्नुयात् । तीर्थाटनस्य सर्वस्य फलं चापि लभेत स: ॥२॥
मनोमार्गेण यो यातो नाप्नोति स इदं सुखम् । हरिपाठे स्थिरो यस्तु स धन्यो जायते नर: ॥३॥
वक्ति ज्ञानेश्वरो नामसङ्गे मे विद्यते रस: । रामकृष्णविषयिणी वर्तते मे रुचि: सदा ॥४॥

N/A

References : N/A
Last Updated : October 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP