नाम्नि सर्वसुखास्वाद इति षट्शास्त्रनिर्णय: । अतोऽर्धघटिकां वापि मा नामविमुखो भव ॥१॥
संसारव्यवहारोऽसौ मिथ्यास्ति सकलोऽपि च । गतागतं वृथा तत्र हरिनाम विना भवेत् ॥२॥
नाममन्त्रजपेनैव कोटिपापविनाशनम् । रामकृष्णजपे तस्मात्सङ्कल्पस्ते दृढो भवेत् ॥३॥
समावृणु निजां वृत्तिं मायां त्रोटय चाखिलाम् । इन्द्रियानुनयान्मा स्वं गोपयास्माच्छमाद्दमात् ॥४॥
कार्या तीर्थे व्रते श्रद्धा, शान्त्या करुणया तथा । दयया चैव सत्कार्यो हरि: प्राहुणिकस्त्वया ॥५॥
ज्ञानेशस्य प्रमाणं तज्ज्ञानमुक्तं निवृत्तिना । संजीवनसमाधि: स हरिपाठेन सिद्ध्यति ॥६॥

N/A

References : N/A
Last Updated : October 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP