नामैकमेव तत्वं तद् दृढं धारय रे मन: । कारुण्यभावो जायेत तेन त्वद्विषये हरौ ॥१॥
सुवाचं नाम तद् राम कृष्ण गोविन्द वापि च । वाण्या सगद्गदं नाम तदेव प्रथमं जप ॥२॥
नाम्न: परतरं तत्वं विद्यते नैव चापरम् । अतश्चान्येन मार्गेण गमनं ते निरर्थकम् ॥३॥
ज्ञानेशो वक्ति मूक: सन्धृत्वा श्रीहरिमन्तरे । कृत्वा च मनसो मालां हृदि नित्यं जपाम्यहम् ॥४॥

N/A

References : N/A
Last Updated : October 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP