न रामे न च वा कृष्णे संरक्तं यस्य मानसम् । अपविष्णु जपस्तस्य व्यर्थो, ज्ञानं वृथा च तत् ॥१॥
जातोऽप्यद्वैतमार्गं यो न जानीते स दुर्भग: । कथं रामेऽथवा कृष्णे प्रवेशस्तस्य सम्भवेत् ॥२॥
न यैर्गुरोधिगतं ज्ञानं द्वैतविमर्दनम् । सङ्कीर्तनं हरेर्नाम्नां कथं तेषां नु सम्भवेत् ॥३॥
ज्ञानेश्वरो वदति यद्, तद् ध्यानं सगुणं स्मृतम् । यस्य नाम्नां पाठतोऽयं प्रपञ्च: शान्तिमृच्छति ॥४॥

N/A

References : N/A
Last Updated : October 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP