अभक्ता: शैलतुल्यानि पापानि कुर्वते तथा । भवन्ति तानि पापानि वज्रलेपदृढानि च ॥१॥
नास्ति येषां हरौ भक्तिरभक्ता: पतिताश्च ते । न भजन्ते हरिं तस्मादेते दुर्भागिन: स्मृता: ॥२॥
वाचालास्ते वृथा जालं वचनानां वितन्वते । नैतेरवाप्यते लोकै: श्रीहरि: सदयोऽपि सन् ॥३॥
ज्ञानदेवमतेनात्मा प्रमाणं च धनं तथा । सर्वेषां हृदये पूर्णश्चैक: संनिवसत्ययम् ॥४॥

N/A

References : N/A
Last Updated : October 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP