मनसा हरिपाठं यो नित्यं नियतसङ्ख्यया । कुर्यात्तस्य न बाध: स्यात् कलित: कालतोऽपि वा ॥१॥
रामकृष्णजपोऽनन्ततपोराशिसमो मत: । भस्मसात्तेन वृन्दानि वृजिनानां भवन्ति च ॥२॥
हरे हरे हरे चेमं मन्त्रं जपति शङ्कर: । मोक्षं तेऽपि प्राप्नुवन्ति मन्त्रमेतं जपन्ति ये ॥३॥
ज्ञानेश्वरो वदत्येवं यत् श्रीनारायणप्रभो: । नामपाठान्निजं स्थानमुत्तमं प्राप्तवानहम् ॥४॥

N/A

References : N/A
Last Updated : October 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP