संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|हरिपाठ:| २१ हरिपाठ: १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ हरिपाठ: - २१ महाराष्ट्रप्रान्ते विख्यात: साधु: ज्ञानेश्वरकृतो हरिपाठ: ॥ Tags : dnyaneshwarharipathsanskrutज्ञानेश्वरसंस्कृतहरिपाठ हरिपाठ: - २१ Translation - भाषांतर नामोच्चारे न नियम: समयस्यास्ति कश्चन । अत्र वक्तुस्तथा श्रोतुरुद्धार उभयोरपि ॥१॥ रामकृष्णेति नामेदं सर्वदोषापहं स्मृतम् । जीवानां च जडानां च हरिरेकस्तु तारक: ॥२॥ हरिनामोच्चारणेन सार्थेयं रसना भवेत् । नामधारकसद्भाग्यं को वा वर्णयितुं क्षम: ॥३॥ ज्ञानेश्वरो वक्ति साङ्गो हरिपाठ: स्वभावत: । वैकुण्ठं यान्त्यनायासं नामधारकपूर्वजा: ॥४॥ N/A References : N/A Last Updated : October 02, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP