ज्ञानाभिधश्चतुर्वेदे षट्शास्त्रे कारणाभिध: । अष्टादशपुराणेषु गीयते हरिरेव च ॥१॥
जगतो मन्थनाद् ग्राह्यो श्रीहरिर्नवनीतवत् । त्यज व्यर्थां कथां व्यर्थं विमार्गगमनं त्यज ॥२॥
हरिरात्मा चैक एव व्याप्तो जीवे शिवे सम: । दुर्गमेषु विमार्गेषु त्वं वृथा मा मन: कृथा: ॥३॥
हरिर्वैकुण्ठरूपोऽयं ज्ञानदेवेन पठ्यते । ओतप्रोतश्च सर्वत्र श्रीहरि: सम्प्रदृश्यते ॥४॥

N/A

References : N/A
Last Updated : October 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP