संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली| चतुश्चत्वारिंशोsध्यायः । सारावली प्रथमोsध्यायः । द्वितीयोsध्यायः । तृतीयोsध्यायः । चतुर्थोsध्यायः । पञ्चमोsध्यायः । षष्ठोsध्यायः । सप्तमोsध्यायः । अष्टमोsध्यायः । नवमोsध्यायः । दशमोsध्यायः । एकादशोsध्यायः । द्वादशोsध्यायः । त्रयोदशोsध्यायः । चतुर्दशोsध्यायः । पञ्चदशोsध्यायः । षोडशोsध्यायः । सप्तदशोsध्यायः । अष्टादशोsध्यायः । एकोनविंशोsध्यायः । विंशोsध्यायः । एकविंशोsध्यायः । द्वाविंशोsध्यायः । त्रयोविंशोsध्यायः । चतुर्विंशोsध्यायः । पञ्चविंशोsध्यायः । षड्विंशोsध्यायः । सप्तविंशोsध्यायः । अष्टाविंशोsध्यायः । एकोनत्रिंशोsध्यायः । त्रिंशोsध्यायः । एकत्रिंशोsध्यायः । द्वात्रिंशोsध्यायः । त्रयस्त्रिंशोsध्यायः । चतुस्त्रिंशोsध्यायः पञ्चत्रिंशोsध्यायः । षट्त्रिंशोsध्यायः । सप्तत्रिंशोsध्यायः । अष्टत्रिंशोsध्यायः । एकोनचत्वारिंशोsध्यायः । चत्वारिंशोsध्यायः । एकचत्वारिंशोsध्यायः । द्विचत्वारिंशोsध्यायः । त्रिचत्वारिंशोsध्यायः । चतुश्चत्वारिंशोsध्यायः । पञ्चचत्वारिंशोsध्यायः । षट्चत्वारिंशोsध्यायः । सप्तचत्वारिंशोsध्यायः । अष्टचत्वारिंशोsध्यायः । एकोनपञ्चाशोsध्यायः । पञ्चाशोsध्यायः । एकपञ्चाशोsध्यायः । द्विपञ्चाशोsध्यायः । त्रिपञ्चाशोsध्यायः । चतुःपञ्चाशोsध्यायः । चतुश्चत्वारिंशोsध्यायः । एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले. Tags : kalyanvarmasaravaliकल्याणवर्मसंस्कृतसारावली चतुश्चत्वारिंशोsध्यायः । Translation - भाषांतर अत्युग्रमतिद्रव्यं महान्तमपि भास्करः स्वतुङ्गस्थः ।मृष्टाशनाम्बराढ्यं सुभूषणं शीतगुः कुरुते ॥१॥तेजस्विनं कुतनयो दुष्प्रसहं गर्वितं प्रवासरतम् ।मेधाविनं कुलाढ्यं सुनिपुण्यवाक्यं बुधः स्वोच्चे ॥२॥विख्यातं गुरुराढ्यं विद्वांसं सत्कृतं कुशलम् ।स्वोच्चे भृगोश्च तनयो विलासहास्यप्रगीतनृत्तरतम् ॥३॥स्वोच्चस्थो रवितनयो नृपलब्धनियोगमभिजनयेत् ।ग्रामपुराधिपतित्वमरण्यधान्यं कुनारिलाभं च ॥४॥भानुस्त्रिकोणसंस्थो धनवन्तं मुख्यमतिनिपुणम् ।भोक्तारं गुणवन्तं शशी प्रसूतौ त्रिकोणगः पुरुषम् ॥५॥वक्रोsपि तस्करपतिं शूरं खलु निर्दयं चापि ।सौम्यो विनोदशीलं जयिनं च स्वत्रिकोणगः कुरुते ॥६॥जीवः पुनर्हितकरं महत्तरं नयविदं सुखोपेतम् ।दानवपूज्यो जनयेद्ग्रामपुरवरिष्ठमाढ्यमतिसुभगम् ॥७॥आत्मत्रिकोण आर्किर्धनतृप्तं कुलयुतं शूरम् ।तीक्ष्णमयूखः कुरुते महोग्रमत्युच्चकर्माणम् ॥८॥धर्मरतं हिमरश्मिर्मनस्विनं रूपवन्तमात्मर्क्षे ।आढ्यं प्रचण्डमचलं भौमः कुरुते स्वराशिगः पुरुषम् ॥९॥शशितनयोsपि विधत्ते वल्गुकथं पण्डितं वाsपि ।काव्यश्रुतिज्ञमाढ्यं गुरुचेष्टं वाक्पतिः स्वराशिस्थः ॥१०॥दानवपूज्यः कुरुते कृषीवलं स्फीतवित्तं च ।कुरुते शनैश्चरोsपि च मान्यमदुःखं स्वराशिगः पुरुषम् ॥११॥मित्रगृहेsर्कः ख्यातं स्थिरसौहृदमर्थदातारम् ।मित्रर्क्षगः शशाङ्को यतस्ततो लब्धसौख्यबहुमानम् ॥१२॥अङ्गारकोsपि कुरुते सुहृद्धनारक्षणासक्तम् ।शशिजः सुहृद्गृहगतः करोति चातुर्यहास्यधनवन्तम् ॥१३॥वचसामधिपः पूज्यं सतां च सुविशिष्टकर्माणम् ।मित्रगृहे भृगुतनयः सुहृत्प्रियं दयितवित्तमतिशूरम् ॥१४॥भास्करसूनुः कुरुते परान्नभोजिनमधर्मकर्मरतम् ।नीचे सविता कुरुते प्रेष्यं बान्धवजनावधूतं च ॥१५॥हिमरश्मिरल्पपुण्यं रोगिणमपि दुर्भगं लोके ।नीचस्थः क्षितितनयोsनर्थव्यसनोपतप्तमतिनीचम् ॥१६॥कुरुते हिमकरपुत्रः क्षुद्रं स्वज्ञातिबन्धुवैरं च ।नीचे गुरुः प्रकुरुते मलिनं प्राप्तावमानमतिदीनम् ॥१७॥असुरदयितोsस्वतन्त्रं प्रणष्टदारं विषमशीलम् ।कोणो विपन्नशीलं विगर्हिताचारमर्थरहितं च ॥१८॥कुरुते शत्रुगृहेsर्को निःस्वं विषयप्रपीडितं चापि ।तुहिनमयूखः कुरुते हृद्रोगिणमरिगृहे नरं सततम् ॥१९॥बन्धारिभङ्गभाजं दीनं विकलं च दुर्भगं भौमः ।अज्ञानमतिविहीनं बुधोsरिभे नैकदुःखमतिदीनम् ॥२०॥क्लीबं गुरुर्विधत्ते नयहीनं धनविहीनं च ।शुक्रोsरिगृहे भृतकं कुतन्त्रमतिदुःखितं जनयेत् ॥२१॥भास्करसुतोsपि कुरुते मलिनं व्याध्यादिशोकसन्तप्तम् ।स्वेषूच्चभागेषु फलं समग्रं स्वक्षेत्रतुल्यं भवनांशकेषु ।नीचारिभागेषु जघन्यमेव मध्यं फलं मित्रगृहांशकेषु ॥२२॥द्वावुच्चगौ जनयतो धनिनं कीर्त्यान्वितं सदा पुरुषम् ।नगरारक्षकमाढ्यं चमूपतिं त्रयः प्रथितम् ॥२३॥आढ्यं नृपात्तकीर्तिं चत्वारो राजधर्मसंयुक्तम् ।ख्यातं नृपतीष्टतमं पञ्चानेकविधवृद्धकोशं च ॥२४॥षड् ग्रहाः स्वोच्चगाः कुर्युर्नृपतिं पुरुषं सदा ।प्रदानमनसम्पन्नं बहुवाहनमण्डितम् ॥२५॥स्वोच्चं याताः सर्वे समुद्रपर्यन्तमेदिनीनाथम् ।जनयत्नि चक्रवर्तिनमवनीशं जातकं चिन्त्यम् ॥२६॥द्वाभ्यां त्रिकोणसंस्थाभ्यांकुटुम्बी कुलवर्धनः ।श्रेष्ठः प्रख्यातकीर्तिश्च ग्रहाभ्यां भुवि जायते ॥२७॥महाधनस्त्रिभिश्चैव गणग्रामाधिनायकः ।आढ्यो नृपाप्तसत्कारश्चतुर्भिर्लोकसंमतः ॥२८॥आरक्षकः प्रधानः सेनापुरनगरभूपकोशानाम् ।पञ्चग्रहैस्त्रिकोणे भवति कुटुम्बी सुबहुसौख्यः ॥२९॥विद्यादानधनौघैः समन्वितो भवति षड्भिरेव पुमान् ।राज्यं प्रशास्ति नियतं गोपालकुलेsपि संजातः ॥३०॥स्वत्रिकोणगतैः सर्वैर्भवेज्जातो महीपतिः ।वसुस्त्रीबलसम्पन्नो विद्याशास्त्रविशारदः ॥३१॥द्वौ स्वगृहस्थौ कुरुतः कुलाधिकं बन्धुपूजितं धन्यम् ।वंशकरमर्थसहितं स्थानयशोभिस्त्रयो विहगाः ॥३२॥ख्यातं विशिष्टचेष्टं श्रेणीपुरनगरपं च चत्वारः ।पञ्चावनीश्वरसमं प्रभूतगोभूमियुवतिसम्पन्नम् ॥३३॥षड्भिः प्रवृद्धशब्दं द्युतिकोशस्वजनवाजिमानाढ्यः ।भवति नृपवंशजातो नियतं पृथिवीपतिः स्वर्क्षे ॥३४॥राजाधिनृपं स्वर्क्षे जनयन्ति जितारिपक्षिमिह सप्त ।मित्राश्रयं सुवृत्तं द्वौ मित्रगृहसमाश्रितौ कुरुतः ॥३५॥बान्धवसुहृदुपकर्ता त्रिभिर्विशिष्टो भवेद्गुणैः ख्यातः ।ब्राह्मणदेवाराधनपरश्चतुर्भिर्धुरन्धरः ख्यातः ॥३६॥राजोपसेवकः स्यात्पञ्चभिराढ्यो नरेश्वरः कर्ता ।विस्तीर्णभोगवाहनवसुमान्षड्भिर्नरेन्द्रतुल्यः स्यात् ॥३७॥सर्वैर्मित्रर्क्षगतैर्बहुवाहनभृत्यसाधनो राजा ।द्वाभ्यां नीचे नीचश्चिन्ताबह्वाग्रहसमेतः ॥३८॥मूर्खोsधर्मरतोsस्वः त्रिभिर्ग्रहैरध्वगो नरः प्रेष्यः ।आलस्यनष्टचेष्टश्चतुर्भिरिह नीचगैर्भृतकः ॥३९॥अगृहः प्रभिन्नादारः पञ्चभिरिह कथ्यते नरो दासः ।खासभ्यश्रमतप्तः षड्भिर्नीचो भवेत्क्षामः ॥४०॥भिक्षुस्त्यक्ताशितभुग्भवति पुमान्विगतसर्वस्वः ।नीचैः सप्तभिरखिलैर्दिक् चिरविधृताम्बरः सूतः ॥४१॥द्वावरिभवनसमेतौ क्लेशवतां नित्यविग्रहरुचीनाम् ।अतिपरिभूतानामपि नॄणां जन्मप्रदौ कथितौ ॥४२॥विविधव्ययदुःखभुजां त्रयः श्रमोत्पन्ननष्टवित्तानाम् ।चत्वार इष्टयोषित्पुत्रार्थविनाशजाधितप्तानाम् ॥४३॥पञ्चारिगृहे विहगा इष्टव्य्सनाभिघाततप्तानाम् ।षड्रोगाङ्कितवपुषां दुःखवतां चैव जन्मकराः ॥४४॥सप्तारिभे ग्रहेन्द्रा बीभत्सकुले प्रसूतानाम् ।शय्याच्छादनभोजनवञ्चितकानां भवन्ति सदा ॥४५॥इति कल्याणवर्मविरचितायां सारावल्यां उच्चादिचिन्तनं नाम चतुश्चत्वारिंशोsध्यायः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP