संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली| चत्वारिंशोsध्यायः । सारावली प्रथमोsध्यायः । द्वितीयोsध्यायः । तृतीयोsध्यायः । चतुर्थोsध्यायः । पञ्चमोsध्यायः । षष्ठोsध्यायः । सप्तमोsध्यायः । अष्टमोsध्यायः । नवमोsध्यायः । दशमोsध्यायः । एकादशोsध्यायः । द्वादशोsध्यायः । त्रयोदशोsध्यायः । चतुर्दशोsध्यायः । पञ्चदशोsध्यायः । षोडशोsध्यायः । सप्तदशोsध्यायः । अष्टादशोsध्यायः । एकोनविंशोsध्यायः । विंशोsध्यायः । एकविंशोsध्यायः । द्वाविंशोsध्यायः । त्रयोविंशोsध्यायः । चतुर्विंशोsध्यायः । पञ्चविंशोsध्यायः । षड्विंशोsध्यायः । सप्तविंशोsध्यायः । अष्टाविंशोsध्यायः । एकोनत्रिंशोsध्यायः । त्रिंशोsध्यायः । एकत्रिंशोsध्यायः । द्वात्रिंशोsध्यायः । त्रयस्त्रिंशोsध्यायः । चतुस्त्रिंशोsध्यायः पञ्चत्रिंशोsध्यायः । षट्त्रिंशोsध्यायः । सप्तत्रिंशोsध्यायः । अष्टत्रिंशोsध्यायः । एकोनचत्वारिंशोsध्यायः । चत्वारिंशोsध्यायः । एकचत्वारिंशोsध्यायः । द्विचत्वारिंशोsध्यायः । त्रिचत्वारिंशोsध्यायः । चतुश्चत्वारिंशोsध्यायः । पञ्चचत्वारिंशोsध्यायः । षट्चत्वारिंशोsध्यायः । सप्तचत्वारिंशोsध्यायः । अष्टचत्वारिंशोsध्यायः । एकोनपञ्चाशोsध्यायः । पञ्चाशोsध्यायः । एकपञ्चाशोsध्यायः । द्विपञ्चाशोsध्यायः । त्रिपञ्चाशोsध्यायः । चतुःपञ्चाशोsध्यायः । चत्वारिंशोsध्यायः । एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले. Tags : kalyanvarmasaravaliकल्याणवर्मसंस्कृतसारावली चत्वारिंशोsध्यायः । Translation - भाषांतर आयुषो येन यद्दत्तं सा दशा तस्य कीर्तिता ।स्वदोषगुणयोगेन स्वदशा सुफलप्रदा ॥१॥दिवारात्रिप्रसूतस्य रविशुक्रपुरःसराः ।मणित्थस्त्वाह तज्ज्ञानं फलसाम्ये न तद्दशाः ॥२॥लग्नार्कशीतरश्मीनां यो बली तस्य चाग्रतः ।तत्केन्द्रादिस्थितानां च दशाः स्युः सत्यभाषिते ॥३॥होरादिनेशशशिनां प्रबलो भवेद्य -स्तत्कण्टकादिषु गताः कथिता दशेशाः ।पूर्वा दशाsतिबलिनः सदृशेsब्दवृद्धेः साम्ये भवेच्च शरदां प्रथमोदितस्य ॥४॥लग्नार्कशीतरश्मीनां यदि पूर्णबलं भवेत् ।तदा सत्यमतं श्रेष्ठमन्यदा त्वपरा दशा ॥५॥स्वोच्चस्वराशिनिजभागसुत्दृद्गृहस्थाः सम्पूर्णवीर्यरुचिरा बलिनः स्वकाले ।मित्रोच्चभागसहिताः शुभदृष्टियुक्ताः श्रेष्ठां दशां विदधति स्ववयःसु खेटाः ॥६॥नीचशत्रुगृहं प्राप्ताः शत्रुनिम्नांशसूर्यगाः ।विवर्णाः पापसंबन्धा दशां कुर्युरशोभनाम् ॥७॥तुङ्गाच्च्युतस्य हि दशा सुहृदुच्चांशेsवरोहिणी मध्या ।नीचाद्रिपुनीचांशे ग्रहस्य चारोहिणी कष्टा ॥८॥सविता दशाफलानां पाचयिता चन्द्रमाः प्रपोषयिता ।राशिविशेषेणेन्दोरतः फलोक्तिर्दशारम्भे ॥९॥मूलदशायामिन्दोः कन्यासु प्रेक्षिते चन्द्रे ।पण्याङ्गनाभिरनिशं समागमं प्राहुरिह यवनाः ॥१०॥सौम्यस्त्रीधनलाभः कुलीरगेन्दौ भवेद्दशारम्भे ।कन्यां दूषयति नरः कुजभवने हन्ति वा युवतिम् ॥११॥विद्याशास्त्रज्ञानं मित्रप्राप्तिं करोति बुधराशौ ।शौक्रेsन्नपानमतुलं सौख्यं चन्द्रे विनाशं च ॥१२॥सुखधममानाज्ञाप्तिं जीवगृहे दिशति शीतांशुः ।परिणतवयसमरूपां सौरगृहे वर्धकीं वाsपि ॥१३॥दुर्गारण्यनिवासं कर्षणगृहकर्मसेतुकर्मान्तम् ।सिंहे शशी प्रकुरुते स्त्रीपुत्रविवादभरतिं च ॥१४॥बन्ध्वर्थक्षयरोगाः कुजसौराभ्यां बुधेन पाण्डित्यम् ।दृष्टे तद्योनिसमैः शेषेश्चन्द्रे निशाफलैर्योगः ॥१५॥पाकस्वामिनि लग्ने सुहृदाः वर्गेsथवाsपि सौम्यानाम् ।श्रेष्ठदशायां सूतिर्लग्नादुपचयगृहस्थैर्वा ॥१६॥मित्रोच्चोपचयस्थाने त्रिकोणे सप्तमे तथा ।पाकेश्वरात्स्थितश्चन्द्रः कुरुते स्वफलां दशाम् ॥१७॥विपरीते स्थिते चन्द्रे दशादौ पर्यवस्थिते ।स्वोच्चगस्यापि खेटस्य दशा न प्रतिपूजिता ॥१८॥शत्रुनीचनवांशेषु शस्ते राशौ ग्रहस्य च ।दशा मिश्रफला रिक्ता विबलस्य दशा मता ॥१९॥द्रेक्काणे च दशा मूर्तेः पूजिता मध्यमाधमा ।चरे मिश्रप्रतीपा च स्थिरे पापेष्टमध्यमाः ॥२०॥चन्द्रावनेयसोमजसितजीवदिवाकरार्किहोराणाम् ।क्रमशो दशापरिग्रह इष्टो नैसर्गिकश्चैव ॥२१॥स्वोच्चस्वकालबलिनः सम्पूर्णबलस्य वा निसर्गभवा ।उत्तमशुभफदासौ ग्रहस्य नित्यं दशा भवति ॥२२॥स्वराशौ स्वत्रिकोणे च स्वांशे च शुभमध्यमा ।स्वोच्चभिलाषिणश्चैव मित्रराश्यादिसंस्थिते ॥२३॥शुभाधमदशा ज्ञेया विपरीतमतस्थिते ।अनेनैव विधानेन विज्ञेया पापदा दशा ॥२४॥भानुदशायां लभते नवौषधाद्ध्वविषदौस्थ्यनैरर्थ्यात् ।गिरिदन्तचर्मवह्निक्रौर्यनरेन्द्राहवाद्यैश्च ॥२५॥नृपतेरर्थावाप्तिं धैर्यं भूयस्तथोद्यमं तैक्ष्ण्यम् ।ख्यातिं प्रतापवृद्धिं श्रेष्ठत्वं भूपतित्वं च ॥२६॥भृत्यार्थचोरचक्षुःशस्त्राग्न्युदकक्षितीश्वराद्बाधाः ।सुतपत्नीबन्धुजनैर्निपीडितः स्याच्च पापरतिः ॥२७॥क्षुत्तृष्णार्तिः शोको त्दृत्पीडा पैत्तिकास्तथा रोगाः ।गात्रच्छेदो भवति हि सूर्यदशायामनिष्टायाम् ॥२८॥चन्द्रदशायां वित्तं स्त्रीसंगममार्दवात्पथि विहारात् ।जलतुहिनक्षीररसैरिक्षुविकारैस्तथा क्रीडा ॥२९॥द्विजमन्त्राणां लब्धिः पुष्पाम्बरसेवनं मधुरता च ।अर्थविनाशमकस्माद्भूपसदो (?) द्वेष्यतां लभते ॥३०॥तैष्ण्यादवाप्तसिद्धिः पूजां प्राप्नोति गुरुनृपाभ्यां च ।मेधाधृतिपुष्टिकरी चन्द्रदशा शोभना नित्यम् ॥३१॥कुरुते भय कुलस्य च चन्द्रदशा स्वकुलविग्रहं कष्टम् ।निद्रालस्यं स्त्रीणां भयजननी शोकदा रतिदा ॥३२॥भौमदशायां लभते नृपाग्निचोरप्रयोगरिपुमर्दैः ।व्यालविषशस्त्रबन्धनसुतैक्ष्ण्यकूटैश्च धनलाभम् ॥३३॥क्षित्याजाविकतान्त्रिकस्वर्णावश्यादिभिस्तथा द्यूतैः ।आसवकषायकटुकै रसैश्च धनधान्यभाग्भवति ॥३४॥मित्रकलत्रविरोधो भ्रातृसुतैर्विग्रहश्च तृष्णा च ।मूर्च्छा शोणितदोषः शाखाच्छेदो व्रणश्चापि ॥३५॥परदाररतिर्द्वेष्यो गुरुसत्यानामधर्मनिरतश्च ।पित्तकृतैरपि दोषैरभिभूतो मानवो भवति ॥३६॥सौम्यदशायां प्राप्ते मित्रादाढ्याद्धनस्य सम्प्राप्तिः ।दीक्षितनृपतेर्द्यूताद्वणिग्जनाच्चापि सम्भवति ॥३७॥वेसरमहीसुवर्ण शुक्तिद्रव्यं यशः प्रशंसा च ।दूत्यं सौख्यमतुल्यं सौभाग्यं मतिचयख्यातिः ॥३८॥धर्मक्रियासु सिद्धिर्हास्यरतिः शत्रुसंक्षयो भवति ।गणितालेख्यलिपीनां कौतुकभागी सदा पुरुषः ॥३९॥पीडां धातुत्रितयात्पारुष्यं बन्धनं तथोद्वेगम् ।मानसशोकं वाsपि बुधस्य कष्टा दशा कुरुते ॥४०॥त्रिदशपतिगुरुदशायां मन्त्री नृपन्रुत्यनीतिभिर्वित्तम् ।मानगुणानां लब्धिरतिप्रतापः सुहृद्विवृद्धिश्च ॥४१॥कान्तासुवर्णवेसरगजाश्वभोगी सदा पुरुषः ।माङ्गल्यपौष्टिकानां लाभो द्विषतां विनाशश्च ॥४२॥लाभो भवति नराणां प्रीतिः सद्भूमिपैः सार्धम् ।जनताया नृपवक्रात्पण्याग्राद्गुरुजनाच्च धनलाभः ॥४३॥व्यजनातपत्रसुमनो वस्त्रध्वजपेयभक्षणादीनाम् ।गात्रश्वथपृथुशोकं पङ्गुत्वं गुल्मकर्णरोगांश्च ।पुंस्त्वविनाशं मेदःक्षयं नृपतितो भयं समाप्नोति ॥४४॥शुक्रदशायां विजयः क्ष्माभवनविलासशयनपत्नीनाम् ।माल्याच्छादनभोजनयशःप्रमोदो निधिप्राप्तिः ॥४५॥गेयरतिः स्त्रीसङ्गो नृपतेः कृषितो धनस्य सम्प्राप्तिः ।ज्ञानेष्टसौख्यसुहृदां मन्मथयोग्योपकरणानाम् ॥४६॥कुलगुणवृद्धैर्वादो यानासनसंभवानि पापानि ।स्त्रीनृपतिकृतावश्यं लोकविरुद्धैः सह प्रीतिः ॥४७॥सौरेर्दशां प्रपन्नः प्राप्नोति पुमान्खरोष्ट्रमहिषाद्यान् ।कुलटां जरदङ्गीं वा कुलित्थतिलक्रोद्रवादींश्च ॥४८॥वृन्दग्रामपुराणामधिकारभवं च सत्कारम् ।लोहत्रपुकादीनां स्वकीयपक्षस्थिरास्पदं चैव ॥४९॥वाहननाशोद्वेगस्त्वरतिः स्त्रीस्वजनविप्रयोगश्च ।युद्धेष्वसिद्धिकलहं बन्धनतन्द्रीश्रमं तथा व्यङ्गम् ।भृत्यापत्यविरोधो भवति च कष्टा यदा दशा सौरेः ॥५१॥सौम्ये पापफलं प्रोक्तं सामान्यं स्वदशास्विदम् ।विशेषेण प्रवक्ष्यामि प्रत्येकं फलभेदतः ॥५२॥स्वोच्चनीचत्रिकोणर्क्षं केन्द्रं शत्रुगृहं तथा ।पञ्चप्रकारसंयुक्ता दशा भानोः प्रकीर्तिताः ॥५३॥राज्यं ददाति विपुलं दशा रवेर्लग्नसंस्थितस्य नृणाम् ।केन्द्रस्थितस्य दद्यात्कटिगलनेत्रप्रकोपमरिगस्य ॥५४॥नीचस्य दशा भानोरक्ष्णोर्नाशं ज्वरं शिरोरोगम् ।बन्धनमन्याश्च रुजः कुष्ठामयदर्शनं चिह्नम् ॥५५॥स्वोच्चप्राप्तस्य दशा ददाति राज्यं सहस्रकिरनस्य ।तुरगातप्रत्रचामरकरीन्द्रसंवर्धितं सम्यक् ॥५६॥सवितुर्दशा च पुंसो विदधाति पुरा त्रिकोणसंस्थस्य ।उत्तमविषयपतित्वं विध्वस्ताशेषदुःखस्य ॥५७॥शत्रुगृहेsर्कदशायां नयनविनाशो भवेच्च कुब्जत्वम् ।ज्वालावक्त्रजरोगा भवन्ति कृमयः परिभवाश्च ॥५८॥अष्टमगतस्य भानोर्दश क्षयं नयति सर्वगात्रं च ।भ्रमयति देशाद्देशं प्रमापयत्यपि च विक्लिष्टम् ॥५९॥सामान्यतश्च षोढा चन्द्रदशा भिद्यते समासेन ।स्वोच्चसुहृच्छत्रुगृहे नीचे क्षीणे प्रपूर्ण च ॥६०॥तत्रोच्चदशा राज्यं नीचदशा मरणमरिदशा बन्धम् ।कथयति नलिनीशत्रोर्मित्रदशा स्वस्वजनसम्प्राप्तिम् ॥६१॥क्षीणेन्दुदशायोगे चिह्नान्येतानि लक्षयेद्विद्वान् ।उदरामयज्वरशिरोनयनोत्कोपप्रतिश्रयाच्चापि ॥६२॥बलिनः परिपूर्णस्य च शशिनः कुरुते सदा दशा पुंसाम् ।दयितासहस्रपरिवृतमन्तःपुरमुत्तमस्त्रीकम् ॥६३॥भवति नरस्य भ्रंशो विषयस्यान्तःपुरस्य भृत्यानाम् ।अष्टमचन्द्रदशायां म्रियते च स्वजनपरिभूतः ॥६४॥यन्त्रतृणकाष्ठगोमयवंशकरञ्जीफलोदकाजीवी ।भवति कदन्नकुचेली नृपोsपि भृतकोsरिगृहदशायाम् ॥६५॥लग्नगृहस्य हि दशा मण्डललाभं तथोच्चगस्यापि ।केन्द्रस्थितस्य कुरुते धनवाहनदेशसम्प्राप्तिम् ॥६६॥कष्टदशा व्यसनकरी मरणं च करोति नैधनस्थदशा ।अस्तमितग्र्हपाको बन्धनमात्रेण पीडयति ॥६७॥वक्रोपगस्य हि दशा भ्रमयति च कुलालचक्रवत्पुरुषम् ।व्यसनानि रिपुविरोधं करोति पापस्य न शुभस्य ॥६८॥रिक्तातिरिक्तनिम्नातिनिम्नरिपुहृतिरिपुगृहदशासु ।पृथ्वीपतिरपि भूत्वा स्वभृत्यभृत्यो भवेत्पुरुषः ॥६९॥देशत्यागो व्याधिर्भ्रंशोत्थानं मुहुर्मुहुः कलहः ।बन्धनमरातिजनितं रिपुराशिगतस्य हि दशायाम् ॥७०॥महितकरिगलितमदजलसेकक्ष्मापीठवारितरजस्कः ।राजा कष्टसहायो रिक्तदशायां ध्रुवं भ्रमति ॥७१॥अङ्गप्रत्यङ्गानां छेदं विदधाति षष्ठशत्रुदशा ।कोणद्यूनारिदशा निधनारिदशा शिरश्छेदम् ॥७२॥रिपुभयविदेशगमनं बन्धनरोगादिपीडनं भवति ।नीचस्थग्रहपाके राजाभिभवो ध्रुवं पुंसाम् ॥७३॥चिन्ता स्वाप्नानुभवैः परिणमति फलं विहीनवीर्यस्य ।आदौ दशास फलदः शीर्षोदयराशिसंस्थितो विहगः ।उभयोदये च मध्ये स्वान्त्ये पृष्ठोदये च नीचर्क्षे ॥७५॥इति कल्याणवर्मविरचितायां सारावल्यां मूलदशाफलं नाम चत्वारिंशोsध्यायः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP