संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|सारावली| एकविंशोsध्यायः । सारावली प्रथमोsध्यायः । द्वितीयोsध्यायः । तृतीयोsध्यायः । चतुर्थोsध्यायः । पञ्चमोsध्यायः । षष्ठोsध्यायः । सप्तमोsध्यायः । अष्टमोsध्यायः । नवमोsध्यायः । दशमोsध्यायः । एकादशोsध्यायः । द्वादशोsध्यायः । त्रयोदशोsध्यायः । चतुर्दशोsध्यायः । पञ्चदशोsध्यायः । षोडशोsध्यायः । सप्तदशोsध्यायः । अष्टादशोsध्यायः । एकोनविंशोsध्यायः । विंशोsध्यायः । एकविंशोsध्यायः । द्वाविंशोsध्यायः । त्रयोविंशोsध्यायः । चतुर्विंशोsध्यायः । पञ्चविंशोsध्यायः । षड्विंशोsध्यायः । सप्तविंशोsध्यायः । अष्टाविंशोsध्यायः । एकोनत्रिंशोsध्यायः । त्रिंशोsध्यायः । एकत्रिंशोsध्यायः । द्वात्रिंशोsध्यायः । त्रयस्त्रिंशोsध्यायः । चतुस्त्रिंशोsध्यायः पञ्चत्रिंशोsध्यायः । षट्त्रिंशोsध्यायः । सप्तत्रिंशोsध्यायः । अष्टत्रिंशोsध्यायः । एकोनचत्वारिंशोsध्यायः । चत्वारिंशोsध्यायः । एकचत्वारिंशोsध्यायः । द्विचत्वारिंशोsध्यायः । त्रिचत्वारिंशोsध्यायः । चतुश्चत्वारिंशोsध्यायः । पञ्चचत्वारिंशोsध्यायः । षट्चत्वारिंशोsध्यायः । सप्तचत्वारिंशोsध्यायः । अष्टचत्वारिंशोsध्यायः । एकोनपञ्चाशोsध्यायः । पञ्चाशोsध्यायः । एकपञ्चाशोsध्यायः । द्विपञ्चाशोsध्यायः । त्रिपञ्चाशोsध्यायः । चतुःपञ्चाशोsध्यायः । एकविंशोsध्यायः । एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले. Tags : kalyanvarmasaravaliकल्याणवर्मसंस्कृतसारावली एकविंशोsध्यायः । Translation - भाषांतर यवनाद्यैर्विस्तरतः कथिता योगास्तु नाभसा नाम्ना ।अष्टादशशतगुणितास्तेषां द्वात्रिंशदिह वक्ष्ये ॥१॥नौच्छत्रकूटकार्मुकश्रृङ्गाटकवज्रदामनीपाशाः ।वीणासरोजमुसला वापीहलशरसमुद्रचक्राणि ॥२॥माला सर्पार्धेन्दू यवकेदारौ गदाविहगयूपाः ।युगशकटशूलदण्डा रज्जुः शक्तिस्तथा नलो गोलः ॥३॥सचराचरस्य जगतो योगैरेभिः प्रकीर्त्यते प्रसवः ।आश्रयजातान् प्राहुर्माणिन्धा मुसलरज्जुनलयोगान् ॥४॥गोलयुगशूलपाशा वीणाकेदारदामनीसंज्ञाः ।सप्तैते संख्याख्याः पूर्वाचार्यैः समुद्दिष्टाः ॥५॥द्वे चार्धयोगसंज्ञे भुजङ्गमाले पराशरेणोक्ते ।आकृतिजाता विंशतिरपरैः कथिताश्च सावित्रे ॥६॥आश्रययोगे जाता अमिश्रिते सौख्यलाभगुणयुक्ता: ।अन्योन्यमिश्रिताश्चेद्विगतफलाः स्युस्तदा योगाः ॥७॥नन्दन्ति स्वैर्भाग्यैर्नृपलब्धधना नृपप्रियाः ख्याताः ।प्रायेण सौख्ययुक्ताश्चाकृतियोगेषु ये जाताः ॥८॥परभाग्यलब्धसौख्या धनभाग्यैरेव जीवितास्तेषाम् ।संख्यासंज्ञे जाता ये पुरुषाः सर्वतो विकलाः ॥९॥क्वचित् स्वभाग्यैः क्वचिदेवमेवं क्वचित्पराद्भूपतितः फलं च ।क्वचित्सुखं दुःखमतीव कष्टं समार्धयोगे पुरुषो लभेत ॥१०॥होरादिकण्टकेभ्यः सप्तर्क्षगतैः क्रमेण योगाः स्युः ।नौच्छत्रकूटकार्मुकनिर्देशाः पूर्वयवनेन्द्रैः ॥११॥लग्नादिकण्टकेभ्यश्चतुर्गृहावस्थितैर्ग्रहैर्योगाः ।यूपशरशक्तिदण्डाः सत्याचार्यप्रिया नित्यम् ॥१२॥सप्तर्क्षगैर्ग्रहेन्द्रैः केन्द्रादन्यत्र कीर्तितोsर्धशशी ।केन्द्रप्रत्यासन्नैर्भवनद्वयगैर्गदा नाम ॥१३॥लग्नास्तगतैः सौम्यैः पापैः सुखकर्मगैर्भवति वज्रम् ।विपरीतैर्यवयोगो मिश्रैः पद्मं बहिःस्थितैर्वाsपि ॥१४॥होरास्तगतैः शकटं चतुर्थदशमाश्रितैर्भवेद्विहगः ।उदयान्त्यगैस्त्रिकोणे हल इति श्रृङ्गाटकं सलग्ने तत् ॥१५॥राश्यन्तरितैर्लग्नात् षट्भवनगतैर्भवेच्चक्रम् ।अर्थात्तथैव यातैश्चक्राकारो भवेज्जलधिः ॥१६॥इत्याकृतिजा एते विंशतिसंख्या मया समुद्दिष्टाः ।आश्रयजातान् वक्ष्ये यथामतं वृद्धगार्ग्यस्य ॥१७॥उभयस्थिरचरसंस्थैः सर्वैर्नलमुसलरज्जवः क्रमशः ।केन्द्रेषु सौम्यपापैर्माला सर्पश्च दलयोगौ ॥१८॥एकभवनादिसंस्थैः संख्याख्याः स्युर्यथाक्रमं योगाः ।गोलयुगशूलसंज्ञाः केदारः पाशदामनीवीणाः ॥१९॥एतेषां फलयोगं कथयामि यथाक्रमं मुनिभिरुक्तम् ।सर्वदशास्वपि फलदाः सकला एते बुधैश्चिन्त्याः ॥२०॥सलिलोपजीवविभवा बह्वायाख्यातकीर्तयो दृष्टाः ।कृपणा बलिनो लुब्धा नौसम्भूताश्चलाः पुरुषाः ॥२१॥आनृतिककितनबन्धनपाला निष्किञ्चनाः शठाः क्रूराः ।कूटसमुत्था नित्यं भवन्ति गिरिदुर्गवासिनो मनुजाः ॥२२॥स्वजनाश्रयो दयावान् दाता नृपवल्लभः प्रकृष्टमतिः ।प्रथमेsन्त्ये वयसि नरः सुखभाग्ययुतः सितातपत्रःस्यात् ॥२३॥आनृतिकगुप्तिपालाश्चोराः कितवाश्च कानने निरताः ।कार्मुकयोगे जाता भाग्यविहीना वयोमध्ये ॥२४॥सुभगाः सेनापतयः कान्तशरीरा नृपप्रिया बलिनः ।मणिकनकभूषणयुता भवन्ति योगेsर्धचन्द्राख्ये ॥२५॥आद्यन्तवयसि सुखिताः शूराः सुभगा विरोगदेहाश्च ।भाग्यविहीना वज्रे जाताः स्वजनैर्विरुद्धाश्च ॥२६॥व्रतनियममङ्गलपरा वयसो मध्ये सुखार्थसंयुक्ताः ।दातारः स्थिरवित्ता यवयोगभवाः सदा पुरुषाः ॥२७॥स्फीतयशसो गुणाढ्याः स्थिरायुषो विपुलकीर्तयः कान्ताः ।शुभयशसः पृथिवीशाः कमलभवा मानवा नित्यम् ॥२८॥निधिकरणे निपुणधियः स्थिरार्थसुखसंयुताः सुरूपाश्च ।नयनसुखसम्प्रहृष्टा वापीयोगे नरा जाताः ॥२९॥रोगार्त्ताः कुललत्रा मूर्खाः शकटानुजीविनो निःस्वाः ।स्वजनैर्मित्रैर्हीनाः शकटे जाता भवन्ति नराः ॥३०॥भ्रमणरुचयो निकृष्टा दूताः सुरतानुजीविनो धृष्टाः ।कलहप्रियाश्च नित्यं विहगे योगे सदा जाताः ॥३१॥सततं मानार्थपरा यज्वानः शास्त्रयोगकुशलश्च ।धनकनकरत्नसम्पत्संयुक्ता मानवा गदायान्तु ॥३२॥प्रियकलहसमरसाहससुखिनो नृपतेः प्रियाः सुभगकान्ताः ।आढ्या युवतिद्वेष्याः श्रृङ्गाटकसंभवा मनुजाः ॥३३॥बह्वाशिनो दरिद्राः कृषीवला दुःखिताश्च सोद्वेगाः ।बन्धुसुहृत्सन्त्यक्ताः प्रेष्याहलसंज्ञिते पुरुषाः ॥३४॥प्रणताशेषनराधिपकिरीटरत्नप्रभाच्छुरितपादः ।भवति नरेन्द्रो मनुजचक्रे यो जायते योगे ॥३५॥बहुधनरत्नाः क्षितिपा भोगार्थयुता जनप्रियाश्चापि ।उदधिसमुत्थाः पुरुषाः स्थिरचित्ताः सत्ववन्तश्च ॥३६॥आत्मनि रक्षानिरतस्त्यागयुतो वित्तसौख्यसम्पन्नः ।व्रतनियमसत्यनिरतो यूपे जातो विशिष्टश्च ॥३७॥इषुकरणदस्युबन्धनमृगयावनसेवनेतिसोन्मादाः ।हिंस्राः कुशिल्पनिरताः शरयोगे सम्प्रसूताः स्युः ॥३८॥धनरहितविकलदुःखितनीचालसपेलवायुषः पुरुषाः ।सङ्ग्रामयुद्धनिपुणाः शक्त्यां जाताः स्थिराः सुभगाः ॥३९॥हतपुत्रदारनिःस्वाः सर्वजनैर्न्यक्कृताः स्वजनबाह्याः ।दुःखितनीचाः प्रेष्या दण्डप्रभवा नराः सततम् ॥४०॥नित्यं सुखप्रधाना वाहनवस्त्रार्थभोगसम्पन्नाः ।कान्ताः सुबहुस्त्रीका मालायां सम्प्रसूताः स्युः ॥४१॥विषमाः क्रूरा निःस्वा नित्यं दुःखार्दिताः सुदीनाश्व ।परभुक्ताः पानरताः सर्पे जाता भवन्ति नराः ॥४२॥अटनप्रियाः सुरूपाः परदेशेष्वर्थभागिनो मनुजाः ।क्रूराः खलस्वभावा रज्जुप्रभवाः सदा कथिताः ॥४३॥मानधनज्ञानयुताः कर्मोद्युक्ता नृपप्रियाः ख्याताः ।स्थिरचित्ता मुसलोत्था भवन्ति शूराः सदा पुरुषाः ॥४४॥ऊनातिरिक्तदेहा धनसंचयभागिनोsतिनिपुणाश्च ।बन्धुहिताश्च सुरूपा नलयोगे सम्प्रसूयन्ते ॥४५॥दारिद्र्यालस्ययुता विद्याज्ञामानवर्जिता मलिनाः ।नित्यं दुःखितदीना गोले योगे भवन्ति नराः ॥४६॥पाषण्डभागिनो वा धनरहिता वा बहिष्कृता लोके ।सुतमानधर्मरहिता युगयोगे मानवा जाताः ॥४७॥तीक्ष्णालसधनरहिता हिंस्राः सुबहिष्कृता महाशूराः ।सङ्रामलब्धशब्दाः शूले रौद्राः प्रजायन्ते ॥४८॥सुबहूनामुपयोज्याः कृषीवलाः सत्यवादिनः सुखिताः ।केदारे सम्भूताश्चलस्वभावा धनैर्युक्ताः ॥४९॥पाशे बन्धनभाजः कार्योद्युक्ताः प्रपञ्चकाराश्च ।बहुभाषिणो विशीला बहुभृत्याः सम्प्रसूताः स्युः ॥५०॥दामिन्यामुपकारी पशुगणयुक्तो धनेश्वरो मूढः ।बहुसुतरत्नसमृद्धो धीरो विद्वान् प्रजातः स्यात् ॥५१॥मित्रान्विताः सुवचसः शास्त्रपरा गेयवाद्यनिरताश्च ।सुखभाजो बहुभृत्या वीणायां कीर्तिता मनुजाः ॥५२॥इति कल्याणवर्मविरचितायां सारावल्यां नाभसयोगो नामैकविंशोsध्यायः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP