संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली| अष्टत्रिंशोsध्यायः । सारावली प्रथमोsध्यायः । द्वितीयोsध्यायः । तृतीयोsध्यायः । चतुर्थोsध्यायः । पञ्चमोsध्यायः । षष्ठोsध्यायः । सप्तमोsध्यायः । अष्टमोsध्यायः । नवमोsध्यायः । दशमोsध्यायः । एकादशोsध्यायः । द्वादशोsध्यायः । त्रयोदशोsध्यायः । चतुर्दशोsध्यायः । पञ्चदशोsध्यायः । षोडशोsध्यायः । सप्तदशोsध्यायः । अष्टादशोsध्यायः । एकोनविंशोsध्यायः । विंशोsध्यायः । एकविंशोsध्यायः । द्वाविंशोsध्यायः । त्रयोविंशोsध्यायः । चतुर्विंशोsध्यायः । पञ्चविंशोsध्यायः । षड्विंशोsध्यायः । सप्तविंशोsध्यायः । अष्टाविंशोsध्यायः । एकोनत्रिंशोsध्यायः । त्रिंशोsध्यायः । एकत्रिंशोsध्यायः । द्वात्रिंशोsध्यायः । त्रयस्त्रिंशोsध्यायः । चतुस्त्रिंशोsध्यायः पञ्चत्रिंशोsध्यायः । षट्त्रिंशोsध्यायः । सप्तत्रिंशोsध्यायः । अष्टत्रिंशोsध्यायः । एकोनचत्वारिंशोsध्यायः । चत्वारिंशोsध्यायः । एकचत्वारिंशोsध्यायः । द्विचत्वारिंशोsध्यायः । त्रिचत्वारिंशोsध्यायः । चतुश्चत्वारिंशोsध्यायः । पञ्चचत्वारिंशोsध्यायः । षट्चत्वारिंशोsध्यायः । सप्तचत्वारिंशोsध्यायः । अष्टचत्वारिंशोsध्यायः । एकोनपञ्चाशोsध्यायः । पञ्चाशोsध्यायः । एकपञ्चाशोsध्यायः । द्विपञ्चाशोsध्यायः । त्रिपञ्चाशोsध्यायः । चतुःपञ्चाशोsध्यायः । अष्टत्रिंशोsध्यायः । एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले. Tags : kalyanvarmasaravaliकल्याणवर्मसंस्कृतसारावली अष्टत्रिंशोsध्यायः । Translation - भाषांतर विस्तरतो निर्दिष्टाः क्षितिपतियोगा विचित्रसंस्थानाः ।भङ्गश्च भवति तेषां यथा तथा सम्प्रवक्ष्यामि ॥१॥कुजार्कजीवार्किभिरत्र नीचैर्द्वाभ्यां त्रिभिर्वैकतमे विलग्ने ।निशाकरे वृश्चिकराशिसंस्थे विशीर्यते राजकरो हि योगः ॥२॥अन्त्याष्टमादिभागे चरराश्यादिषु शशी यदा क्षीणः ।एकेनापि न दृष्टो ग्रहेण भङ्गस्तदा नृपतेः ॥३॥सर्वे क्रूराः केन्द्रे नीचारिगता न सौम्ययुतदृष्टाः ।शुभदा व्ययरिपुरन्ध्रे तदाsपि भङ्गो भवेन्नृपतेः ॥४॥लग्नं गणोत्तमोनं न खेचरैर्दृश्यते तदा भङ्गः ।भवति हि नृपयोगानां दारिद्र्याय प्रजातस्य ॥५॥घटोदये नीचगतैस्त्रिभिर्गहैर्बृहस्पतौ सूर्ययुते च नीचगे ।एकोsपि नोच्चे तु शुभेन सङ्गताः प्रयान्ति नाशं शतशो नृपोद्भवाः ॥६॥शून्येषु केन्द्रेषु शुभैर्नवेन्दावस्तं गतैर्नीचमथ प्रयातैः ।चतुर्ग्रहैर्वाsपि गृहे रिपूणां प्रणश्यति क्ष्माधिपतेस्तु योगः ॥७॥स्वांशे रवौ शीतकरे विनष्टे पापैश्च दृष्टे शुभदृष्टिहीने ।कृत्वाsपि राज्यं च वने मनुष्यः पश्चात्सुदुःखं लभते गताशः ॥८॥शिशिरकिरणशत्रुर्लग्नपश्चन्द्रदृष्टःसहजरिपुमदस्था भानुभूपुत्रमन्दाः ।शुभविरहितकेन्द्रैरस्तगैर्वाsपि सौम्यै -र्नृपतिजननयोगा यान्ति नाशं क्षणेन ॥९॥पञ्चभिर्निम्नगैः खेटैरस्तं यातैरथापि वा ।प्रयान्ति विलयं योगा भूभुजां ये प्रकीर्तिताः ॥१०॥उल्कायाः पतने चैव निर्घातव्यतिपातयोः ।केतोश्च दर्शने चैव यान्ति नाशं नृपोद्भवाः ॥११॥अन्यैः क्रूरोत्पातैस्त्रिशङ्कुतारा यदोदयं यान्ति ।सद्यः प्रयान्ति विलयं नृपयोगा भानुजो यदि विलग्ने ॥१२॥कर्तारो नृपतीनां गगनसदो युद्धकाङ्क्षिणो मलिनाः ।रूक्षा जर्जरदेहा विघ्नं जनयन्ति राजयोगस्य ॥१३॥परनीचं गते चन्द्रे क्षीणो योगो महीपतेः ।नाशमायाति राजेव दैवज्ञप्रतिलोमगः ॥१४॥तुलायां पद्मिनीबन्धुस्त्रिंशांशे दशमे स्थितः ।हन्ति राज्यं यथा लोभः समस्तगुणसञ्चयम् ॥१५॥जूकस्य दशमे भागे स्थितः कमलबोधनः ।सहस्रं राजयोगानां मन्दमेव करोत्यसौ ॥१६॥स्वत्रिकोणगृहं केचित्स्वोच्चं याताः स्वमन्दिरम ।अतिनीचे रविश्चैको न तेषां फलसंभवः ॥१७॥गुरुर्मृगे विलग्नस्थो दुःखैः सन्तापयेन्नरम् ।कामार्तमधनं वेश्या यद्वदिन्दुर्न चेत्स्वभे ॥१८॥एकेनापि शशाङ्को ग्रहेण केमद्रुमे यदि न दृष्टः ।विघ्नयति राजयोगं मलिनाचारः प्रसूतः स्यात् ॥१९॥भिक्षामटति त्र्याद्यैर्नीचर्क्षगतैः सुदुःखितो मलिनः ।सकलमहीभृत्पुत्रः परिभूतो जायते निःस्वः ॥२०॥अत्यरिभवनं प्राप्तैः पञ्चादिभिरस्तगैश्च गगनचरैः ।नाश प्रयाति राजा यदि रविचन्द्रौ न तुङ्गस्थौ ॥२१॥सचिवो दानवेन्द्रस्य नीचांशे समवस्थितः ।संप्राप्तमतुलं राज्यं नरैर्हापयते ध्रुवम् ॥२२॥राजयोगाः समाख्यातास्तेषां भङ्गश्च दारुणः ।परीक्ष्य यत्नतः प्राज्ञः फलं ब्रूयाद्बलाबलात् ॥२३॥कमलभवनबन्धुः कन्ययालिङ्गिताङ्ग -स्त्वलिनि कुजसुरेड्यौ चन्द्रमा मेषसंस्थः ।न च यदि परिशेषैर्दृश्यते स्यात्स भूपः प्रचलितगजमेघच्छादिताशानभोभ्रः ॥२४॥राजयोगभङ्गो नामाष्टत्रिंशोsध्यायः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP