संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली| चतुस्त्रिंशोsध्यायः सारावली प्रथमोsध्यायः । द्वितीयोsध्यायः । तृतीयोsध्यायः । चतुर्थोsध्यायः । पञ्चमोsध्यायः । षष्ठोsध्यायः । सप्तमोsध्यायः । अष्टमोsध्यायः । नवमोsध्यायः । दशमोsध्यायः । एकादशोsध्यायः । द्वादशोsध्यायः । त्रयोदशोsध्यायः । चतुर्दशोsध्यायः । पञ्चदशोsध्यायः । षोडशोsध्यायः । सप्तदशोsध्यायः । अष्टादशोsध्यायः । एकोनविंशोsध्यायः । विंशोsध्यायः । एकविंशोsध्यायः । द्वाविंशोsध्यायः । त्रयोविंशोsध्यायः । चतुर्विंशोsध्यायः । पञ्चविंशोsध्यायः । षड्विंशोsध्यायः । सप्तविंशोsध्यायः । अष्टाविंशोsध्यायः । एकोनत्रिंशोsध्यायः । त्रिंशोsध्यायः । एकत्रिंशोsध्यायः । द्वात्रिंशोsध्यायः । त्रयस्त्रिंशोsध्यायः । चतुस्त्रिंशोsध्यायः पञ्चत्रिंशोsध्यायः । षट्त्रिंशोsध्यायः । सप्तत्रिंशोsध्यायः । अष्टत्रिंशोsध्यायः । एकोनचत्वारिंशोsध्यायः । चत्वारिंशोsध्यायः । एकचत्वारिंशोsध्यायः । द्विचत्वारिंशोsध्यायः । त्रिचत्वारिंशोsध्यायः । चतुश्चत्वारिंशोsध्यायः । पञ्चचत्वारिंशोsध्यायः । षट्चत्वारिंशोsध्यायः । सप्तचत्वारिंशोsध्यायः । अष्टचत्वारिंशोsध्यायः । एकोनपञ्चाशोsध्यायः । पञ्चाशोsध्यायः । एकपञ्चाशोsध्यायः । द्विपञ्चाशोsध्यायः । त्रिपञ्चाशोsध्यायः । चतुःपञ्चाशोsध्यायः । चतुस्त्रिंशोsध्यायः एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले. Tags : kalyanvarmasaravaliकल्याणवर्मसंस्कृतसारावली चतुस्त्रिंशोsध्यायः Translation - भाषांतर रविदृष्टे प्राग्लग्ने विक्रान्तास्त्रीषु रोषणः क्रूरः ।पितृपक्षलब्धविभवो नरेन्द्रसेवी भवेज्जातः ॥१॥स्त्रीणां वश्यः सुभगो दाक्षिण्यमहोदधिः प्रचुरकोशः ।चन्द्रेक्षिते विलग्ने मार्दवजलपण्यवान्भवति ॥२॥साहससङ्ग्रामरुचिश्चण्डस्फुटबान्धवोsतिधर्मरतः ।उदये कुजसन्दृष्टे भवति नरः स्थूलशेफश्च ॥३॥बुधदृष्टे प्राग्लग्ने शिल्पकलाविद्यया समभिपूर्णः ।भवति नरो विपुलमतिः कीर्तिकरो मानसंयुक्तः ॥४॥इज्याव्रतनियमपरा नृपपूज्याः ख्यातकीर्तयो मनुजाः ।लग्ने सुरगुरुदृष्टे सज्जनगुर्वतिथिसंयुक्ताः ॥५॥वेश्यास्त्रीजनबहुलास्तरुणाः सम्पन्नभोगधनसौख्याः ।शुक्रेक्षिते विलग्ने भवन्ति मनुजाः सुरूपाश्च ॥६॥भाराध्वरोगतप्ताः क्रुद्धा वृद्धास्त्रिया युता विसुखाः ।मन्देक्षिते विलग्ने मलिना मूर्खाश्च जायन्ते ॥७॥पश्यन्ग्रहः स्वलग्नं सर्वं विदधाति सौख्यमर्थं च ।प्रायो नृपप्रियत्वं पापः पापं शुभं च शुभः ॥८॥एकेनापि न दृष्टं समस्तगुनवर्जितं लग्नम् ।स्वगृहस्वभागसहितं जनयति खलु केवलं नित्यम् ॥९॥द्व्यादिग्रहसन्दृष्टं प्रायेण सुखार्थदं भवति लग्नम् ।एकेनापि शुभेन च न तु पापैरिष्यते सद्भिः ॥१०॥सर्वैर्गगनभ्रमणैर्द्दृष्टे लग्ने भवेन्महीपालः ।बलिभिः समस्तसौख्यो विगतभयो दीर्घजीवी च ॥११॥लग्ने त्रयो विगतशोकविवर्द्धितानां कुर्वन्ति जन्मशुभदाः पृथ्वीपतीनाम् ।पापास्तु रोगभयशोकपरिप्लुतानां बह्वाशिनांण सकललोकतिरस्कृतानाम् ॥१२॥लग्नात्षष्ठमदाष्टमे यदि शुभाः पापैर्न युक्तेक्षिताः मन्त्री दण्डपतिः क्षितरेधिपतिः स्त्रीणां बहूनां पतिः ।दीर्घायुर्गवर्जितो गतभयो लग्नाधियोगे भवेत् सच्छीलो यवनाधिराजकथितो जातः पुमान्सौख्यभाक् ॥१३॥स्वगृहोच्चसौम्यवर्गे ग्रहः फलं पुष्टमेव विदधाति ।नीचर्क्षरिपुगृहस्थो विगतफलः कीर्तितो मुनिभिः ॥१४॥॥ इति लग्नचिन्ता ॥रविरविजभूमितनयाः कुटुम्बसंस्था विलोकनाद्वाsपि ।कुर्वन्ति धनविनाशं क्षीणेन्द्रुनिरीक्षिता विशेषेण ॥१५॥रविभौमौ धनसंस्थौ त्वग्दोषदरिद्रताकरौ कथितौ ।मन्दः कुरुते शुद्धो महार्थयुक्तं बुधेक्षितस्तत्र ॥१६॥रविरपि विधनं जनयति यमेक्षितः शस्यतेsन्यदृष्टश्च ।सौम्याः कुटुम्बराशौ बहुप्रकारं धनं दद्युः ॥१७॥बुधदृष्टस्त्रिदशगुरुः कुटुम्बराशौ च निःस्वतां कुरुते ।सोमतनयोsपि शशिना निरीक्षितो हन्ति सर्वधनम् ॥१८॥चन्द्रोsपि धनस्थाने क्षीणोsपि बुधेक्षितः सदा कुरुते ।पूर्वार्जितार्थनाशं निरोधमपि चान्यवित्तस्य ॥१९॥शुक्रः कुटुम्बभवने चन्द्रेण निरीक्षितः प्रधनदाता ।सौम्यग्रहेण दृष्टः स एव धनदः सदा ज्ञेयः ॥२०॥॥ इति धनचिन्ता ॥पापभवनं तृतीयं समस्तपापैर्युतं सहजहन्तृ ।विपरीतमितः श्रेष्ठं संख्यां तेषां प्रवक्ष्यामि ॥२१॥यावन्तो नवभागा यदागताः सहजराशौ तु ।तत्संख्यां कुर्वन्ति च दृष्टास्त्वन्यैस्तथा बहवः ॥२२॥तत्र स्थितो रविसुतः कुजेन दृष्टो विनाशयति जातान् ।शुक्रो गुरुसंदृष्टः पुष्णाति सदैव दायादान् ॥२३॥सौम्यो भास्करदृष्टः सुहृदां परिसंक्षयं सदा कुरुते ।भावाध्याये कथितं शेषं परिकल्पयेदत्र ॥२४॥॥ इति सहजचिन्ता ॥सुतभवनं शुभयुक्तं शुभदृष्टं वा शुभर्क्षमिह येषाम् ।तेषां प्रसवः पुंसां भवत्यवश्यं न विपरीते ॥२५॥एकतमे गुरुवर्गे शुभराशोवौरसो भवेत्पुत्रः ।लग्नाच्चन्द्रादथवा बलयोगाद्वीक्षितेsपि वा सौम्यैः ॥२६॥संस्ख्या नवांशतुल्या सौम्यांशे तावती सदा दृष्टा ।शुभदृष्टे तद्विगुणा क्लिष्टा पापांशकेsथवा दृष्टे ॥२७॥सौरर्क्षे सौरगणो बुधदृष्टो गुरुकुजार्कदृग्घीनः ।क्षेत्रजपुत्रं जनयति बौधोsपि गणो रविजदृष्टः ॥२८॥मान्दं सुतर्क्षमिन्दुर्निरीक्षिते यदि शनैश्चरेण युतम् ।दत्तकपुत्रोत्पत्तिः क्रीतस्य बुधेन चैवं स्यात् ॥२९॥सप्तमभागे कौजे सौरयुते पञ्चमे सदा भवने ।कृत्रिमपुत्रं विन्द्याच्छेषग्रहदर्शनान्मुक्ते ॥३०॥वर्गे पञ्चमराशौ सौरे सूर्येण वाsत्र संयुक्ते ।लोहितदृष्टे वाच्यो जातस्य सुतोद्यमप्रसवः ॥३१॥चन्द्रे भौमांशगते धीस्थे मन्दावलोकिते भवति ॥गूढोत्पन्नः पुत्रः शेषग्रहदर्शनं याते ॥३२॥तस्मिन्नेव च भौमे शनिवर्गस्थे निरीक्षिते रविणा ।पुरुष्यस्य भवति पुत्रोपविद्ध इति करुणमुनिवचनात् ॥३३॥शनिवर्गस्थे चन्द्रे शनियुक्ते पञ्चमे सदा भवने ।शुक्ररविभ्यां दृष्टे पुत्रः पौनर्भवो भवति ॥३४॥चूडायदार्कसक्ता कला च तस्यैव पञ्चमे गेहे ।रविदृष्टेsप्यथ सहिते कानीनः संभवति पुत्रः ॥३५॥वर्गे रविचन्द्रमसोः सुतगेहे चन्द्रसूर्यसंयुक्ते ।शुक्रेण दृष्टिमात्रे पुत्रः कथितः सहोढश्च ॥३६॥पापैर्बलिभिर्युक्ते पापर्क्षे पञ्चमे सदा राशौ ।जातोsपुत्रः पुरुषः सौम्यग्रहदर्शनातीते ॥३७॥शुक्रनवांशे तस्मिन्शुक्रेण निरीक्षिते त्पपत्यानि ।दासीप्रभवानि वदेच्चन्द्रादपि केचिदाचार्याः ॥३८॥सितशशिवर्गे धीस्थे ताभ्यां दृष्टेsथवापि संयुक्ते ।प्रायेण कन्यकाः स्युः समराशिगणेsपि चान्यथा पुत्राः ॥३९॥लग्नाद्दशमे चन्द्रे सप्तमसंस्थे भृगोः पुत्रे ।पापैः पातालस्थैर्वंशच्छेता भवेज्जातः ॥४०॥भौमः पञ्चमभवने जातं जातं विनाशयति पुत्रम् ।दृष्टे गुरुणा प्रथमं सितेन न च सर्वसंदृष्टः ॥४१॥धनजनसुखहीनः पञ्चमस्थैश्च पापै -र्भवति विकल एव क्ष्मासुते तत्र जातः ।दिवसकरसुते च व्याधिभिस्तप्तदेहः सुरगुरुबुधशुक्रैः सौख्यसंपद्धनाढ्यः ॥४२॥॥ इति पुत्रचिन्ता ॥रिपुभावे क्षितिसूनुर्मन्देन निरीक्षितो दिशति शत्रून् ।शुभयुक्तः शुभदृष्टः शत्रुभयं चैव नात्यन्तम् ॥४३॥क्षेत्रे ग्रहेन्द्रतुल्यां संख्यां तेषां विनिर्दिशेत्प्राज्ञः ।भावाध्यायेsभिहितं विस्तरतश्चिन्तयेच्छेषम् ॥४४॥॥ इति शत्रुचिन्ता ॥शुक्रेन्दुजीवशशिजैः सकलैस्त्रिभिश्च द्वाभ्यां कलत्रभवने च तथैककेन ।एषां गहेsपि च गणेsपि विलोकिते वा सन्ति स्त्रियो भवनवर्गखगस्वाभावाः ॥४५॥एवं क्रूरैर्नाशो लग्नाच्चन्द्राद्भवेच्च बलयोगात् ।शशिरविजयोः कलत्रे भार्या पुंसां पुनर्भूः स्यात् ॥४६॥भवनाधिपांशतुल्या भवन्ति नार्यो निरीक्षणाद्वाsपि ।एकैव रविकुजांशे गुरुबुधयोश्चापि जामित्रे ॥४७॥प्रायेण चन्द्रसितयोर्वर्गे युक्तेsथवापि जामित्रे ।दृष्टे वा बहुपत्न्यो भवन्ति शुक्रे विशेषेण ॥४८॥गुरुशुक्रयोः स्ववर्णा रविकुजशशिभानुजैर्भवन्त्यूनाः ॥शुक्रे वेश्याप्रायश्चन्द्रेsपि वदन्ति केतुमालाख्याः ॥४९॥भौमे कलत्रसंस्थे नित्यं वियुतो भवेत्तदा पुरुषः ।म्रियते वा शनिदृष्टे योषिदवश्यं न दृष्टेन्यैः ॥५०॥द्यूने कुजभार्गवयोर्जातः पुरुषो भवेद्विकलदारः ।धीधर्मस्थितयोर्वा परिकल्प्यं पण्डितैरेवम् ॥५१॥लग्नाद्व्ययरिपुगतयोः शशाङ्कभान्वोर्वदन्ति पुरुषस्य ।प्रभवं समस्तमुनयः क्रमेण पत्न्या सहैकतनयस्य ॥५२॥लग्नस्थे रवितनये गण्डान्ते भार्गवे कलत्रगते ।वन्ध्यापतिस्तदा स्याद्यदि न सुतर्क्षं सुभैर्युक्तम् ॥५३॥लग्नव्ययदशमस्थैः पापैः क्षीणे निशाकरे धीस्थे ।स्त्रीहीनो भवति नरः पुत्रैश्च विवर्जितो नूनम् ॥५४॥यमभूमिजयोर्वर्गे द्यूनस्थे तदवलोकिते शुक्रे ।जातो भवत्यवश्यं पत्न्या सह पुंश्चलः पुरुषः ॥५५॥बुधभार्गवयोरस्ते स्त्रीहीनो जायते ह्यपुत्रश्च ।दृष्टे शुभैश्च वाच्याः परिणतमयसः सदा प्रमदाः ॥५६॥भार्गववाक्पतिसौम्यैः प्रमदाभवने शशाङ्कयुक्तैश्च ।एकैकेन हि तेषां पुरुषस्य विभूतयो बहुलाः ॥५७॥॥ इति कलत्रचिन्ता ॥रविदृष्टे युक्ते वाsप्यायक्षेत्रे भवेत्सदा नृपतेः ।भवति धनं युद्धाद्यैश्चोरघनचतुष्पदाद्यैश्च ॥५८॥स्त्रीजनहस्तिप्रायं शशाङ्कवर्गे शशीक्षिते युक्ते ।क्षीणे क्षयोsथ पूर्णे वृद्धिः स्यादायगे वृत्तेः ॥५९॥हेमप्रवालभूषणमाणिक्यधनं कुजे भवेदेवम् ।साह्सगमनागमनैः पावकशस्त्रैश्च वक्तव्यम् ॥६०॥आये बुधेsपि वर्गे दृष्टे युक्तेsथवा भवेन्नित्यम् ।शिल्पादिलेख्यकाव्यैर्युक्तिप्रायं तथा सुतराम् ॥६१॥नगरजनयोगभोगैः ऋतुभिश्च तथा विशिष्टपुण्यैश्च ।हेमप्रायं वित्तं जीवे पितरङ्गमाकीर्णम् ॥६२॥वेश्यास्त्रीसंयोगैर्गमनागमनैर्धनं भवति पुंसाम् ।आये सितेsपि चैव मुक्तारजतादि भूयिष्ठम् ॥६३॥नगरपुरवृन्दयोगैः स्थावरकर्मक्रियाभिरपि वित्तम् ।लोहखरवृंदबहुलं रविजेsपि तथाsस्य वर्गे च ॥६४॥एवं फलनिर्देशः सौम्यैर्दृष्टे विशेषतो वाच्यः ।क्रूरैश्च समुपघातो मिश्रैर्मिश्रस्तदा पुंसाम् ॥६५॥सर्वग्रहयुतदृष्टे बहुप्रकारेण निर्दिशेद्वित्तम् ।बलवान्यस्तत्र भवेदतिरिक्तं सम्प्रयच्छति च ॥६६॥मित्रस्वगृहगतोर्धं स्वोच्चे पूर्णं तथास्तगः किञ्चित् ।शत्रुगृहस्थश्चरणं ददाति विहगस्तदाये तु ॥६७॥आजन्मतो नराणां भवति धनं निश्चितं यवनवृद्धैः ।क्षितिपतिमाण्डलिकानामपरिमितं प्राह लोकाक्षः ॥६८॥॥ इत्यायचिन्ता ॥भानौ क्षीणे चेन्दौ व्ययभवने भूपतिर्हरति वित्तम् ।भौमे बुधसंदृष्टो बहुप्रकारो भवेन्नाशः ॥६९॥गुरुचन्द्रदानवेज्या व्ययभवने वित्तपोषणं कुर्युः ।भूमितनयेन दृष्टा भावाध्यायोक्तमन्यच्च ॥७०॥॥ इति व्ययचिन्ता ॥लग्ने बुधद्रेक्काणे शशिना दृष्टे चतुष्टयस्थाने ।जातो नृपतिकुलेष्वपि शिल्पी स्यान्निश्चितं मुनिभिः ॥७१॥नीचे सौरनवांशे शुक्रेsन्त्ये रविशशाङ्कयोर्मदने ।मन्देन विलोकितयोर्माता दासी महाकुलेsपि स्यात् ॥७२॥सूर्याद्द्वितीयराशौ भास्करतनये खमध्यगे चन्द्रे ।भौमे सप्तमभवने विकलोsस्मिन्सर्वदा जातः ॥७३॥मध्ये पापग्रहयोश्चन्द्रे मदनस्थितेsर्कजे जन्तोः ।श्वासक्षयविद्रधिना गुल्मप्लीहातिपीडितस्सुभगः ॥७४॥सूर्यांशे यदि चन्द्रश्चन्द्रांशे भास्करो यदि श्लेष्मी ।सममेकराशिगतयोर्दुर्बलदेहः सदा पुरुषः ॥७५॥निधनधनारिव्ययगा रविचन्द्रकुजार्कजा नियतम् ।नयनविघातं कुर्युर्बलवद्ग्रहदोषसंभूतम् ॥७६॥धर्मायसहजसुतगाः पापाः सौम्यैर्न वीक्षिता जन्तोः ।श्रवणविनाशं कुर्युः सप्तमसंस्थाश्च दन्तानाम् ॥७७॥उदये दिनकरपुत्रे त्रिकोणभवने कुजे च सोन्मादः ।क्षीणे शशिनि ससौरे याते वा व्ययगृहे जातः ॥७८॥इति कल्याणवर्मविरचितायां सारावल्यां लोकयात्रा नाम चतुस्त्रिंशोsध्यायः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP