संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु| ऱोगादिवर्ग राजनिघण्टु मङ्गलाचरण प्रस्तावना आनूपादिवर्ग धरण्यादिवर्ग ङुडूच्यादिवर्ग पर्पटादिवर्ग पिप्पल्यादिवर्ग शताह्वादिवर्ग ऊलकादिवर्ग शाल्मल्यादिवर्ग प्रभद्रादिवर्ग करवीरादिवर्ग आम्रादिवर्ग अन्दनादिवर्ग उवर्णादिवर्ग पानीयादिवर्ग क्षीरादिवर्ग शाल्यादिवर्ग आंसादिवर्ग अनुष्यादिवर्गः इंहादिवर्ग ऱोगादिवर्ग अत्त्वादिवर्ग इश्रकादिवर्ग कार्थादिवर्ग १ कार्थादिवर्ग २ कार्थादिवर्ग ३ कार्थादिवर्ग ४ कार्थादिवर्ग ५ कार्थादिवर्ग ६ कार्थादिवर्ग ७ कार्थादिवर्ग ८ कार्थादिवर्ग ९ कार्थादिवर्ग १० कार्थादिवर्ग ११ राजनिघण्टु - ऱोगादिवर्ग नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड. Tags : narahar panditrajanighantuvedआयुर्वेदनरहरि पन्डितराजनिघण्टुसंस्कृत ऱोगादिवर्ग Translation - भाषांतर गदो रुजा व्याधिरपाटवामरोगामयातङ्कभयोपघाताः ।रुङ्मान्द्यभङ्गार्तितमोविकारग्लानिक्षयानार्जवमृत्युभृत्याः ॥२०.१राजयक्ष्मा क्षयो यक्ष्मा रोगराजो गदाग्रणीः ।उष्मा शोषोऽतिरोगश्च रोगाधीशो नृपामयः ॥२०.२पाण्डुरोगस्तु पाण्डुः स्यात्विसर्पः सचिवामयः ।शोफः शोथस्तु श्वयथुः कासः क्षवथुरुच्यते ॥२०.३क्षुतं तु क्षवथुः क्षुच्च प्रतिश्यायस्तु पीनसः ।नेत्रामयो नेत्ररोगो मुखरोगो मुखामयः ॥२०.४दुश्चर्मा मण्डलं कोठस्त्वग्दोषश्चर्मदूषिका ।कुष्ठं तु पुण्डरीकः स्यात्श्वित्रं तु चर्मचित्रकं ॥२०.५किलाससिध्मे च शिखी श्वासः पामा विचर्चिका ।कण्डूः कण्डूतिकण्डूयाखर्जूकण्डूयनानि च ॥२०.६संचारी शुण्डिकास्फोटे पामपामे विचर्चिका ।पीतस्फोटे तु पामा च क्षुद्रस्फोटे तु कञ्चिका ॥२०.७पिटका पिटिका प्रोक्ता मसूराभा मसूरिका ।विस्फोटः स्फोटकः स्फोटः केशघ्नस्त्विन्द्रलुप्तकः ॥२०.८गलशुण्डी तु शुण्डा स्याद्गलगण्डो गलस्तनः ।दन्तार्बुदो दन्तमूलं दन्तशोथो द्विजव्रणः ॥२०.९गुल्मस्तु जाठरग्रन्थिः पृष्ठग्रन्थौ गडुर्भवेत् ।पक्तिशूलं तु शूलं स्यात्पाकजं परिणामजं ॥२०.१०लूता चर्मव्रणो वृक्कं नाडी नाडीव्रणो भवेत् ।श्लीपदं पादवल्मीकं पादस्फोटो विपादिका ॥२०.११विष्टम्भस्तु विबन्धः स्यादानाहो मलरोधनं ।अर्शांसि गुदकीलाः स्युर्दुर्नामानि गुदाङ्कुराः ॥२०.१२मलवेगस्त्वतीसारो ग्रहणीरुक्प्रवाहिका ।वमथुर्वान्तिरुद्गारश्छर्दिर्विच्छर्दिका वमिः ॥२०.१३हृद्रोगो हृद्गदो हृद्रुगुत्प्राणः श्वास उच्यते ।ज्वरस्तु स ज्वरातङ्को रोगश्रेष्ठो महागदः ॥२०.१४द्वंद्वजा द्वंद्वदोषोत्थाः शीताद्या विषमज्वराः ।अतीत्यागन्तवस्ते द्व्यैकाहिकत्र्याहिकादयः ॥२०.१५रक्तपित्तं पित्तरक्तं पित्तास्रं पित्तशोणितं ।इत्येवं रक्तवातादिद्वंद्वदोषं उदाहरेत् ॥२०.१६तृष्णोदन्या पिपासा तृण्मदातङ्को मदात्ययः ।पानात्ययो मदव्याधिर्मदस्तूद्रिक्तचित्तता ॥२०.१७मूर्छा तु मोहो मूढिश्च स्वरसादः स्वरक्षयः ।अश्रद्धानभिलाषः स्यादरुचिश्चाप्यरोचकः ॥२०.१८मूत्रदोषस्तु विज्ञेयः प्रमेहो मेह इत्यपि ।कृच्छ्रं तु मूत्रकृच्छ्रं स्यात्मूत्ररोधोऽश्मरी च सा ॥२०.१९वातव्याधिश्चलातङ्को वातरोगोऽनिलामयः ।कम्पस्तु वेपनं वेपः कम्पनं वेपथुस्तथा ॥२०.२०जृम्भा तु जृम्भिका जम्भा जृम्भणं जम्भिका च सा ।आलस्यं मन्दता मान्द्यं कार्यप्रद्वेष इत्यपि ॥२०.२१तुन्दः स्थविष्ठ इत्युक्तो जठरघ्नो जलोदरः ।आमो मलस्य वैषम्याद्रक्तार्तिः शोणितामयः ॥२०.२२जालगर्दभकः प्रोक्तो जालरासभकामयः ।जालखरगदो ज्ञेयः स गर्दभगदस्तथा ॥२०.२३विद्रधिः स्याद्विदरणं हृद्ग्रन्थिर्हृद्व्रणश्च सः ।व्रणो भगप्रदेशे यः स भगंदरनामकः ॥२०.२४शिरःशूलादयो ज्ञेयास्तत्तदङ्गाभिधानकाः ।इत्थं अन्येऽपि बोद्धव्या भिषग्भिर्देहतो गदाः ॥२०.२५संतापः संज्वरस्तापः शोष उष्मा च कथ्यते ।यश्चापि कोष्ठसंतापः सोऽन्तर्दाह इति स्मृतः ॥२०.२६स दाहो मुखताल्वोष्ठे दवथुश्चक्षुरादिषु ।पाणिपादांसमूलेषु शाखापित्तं तदुच्यते ॥२०.२७तन्द्रा तु विषयाज्ञानं प्रमीला तन्द्रिका च सा ।प्रलयस्त्विन्द्रियस्वापश्चेष्टानाशः प्रलीनता ॥२०.२८उन्मादो मतिविभ्रान्तिरुन्मनायितं इत्यपि ।आवेशो भूतसंचारो भूतक्रान्तिर्ग्रहागमः ॥२०.२९अपस्मारोऽङ्गविकृतिर्लोलाङ्गो भूतविक्रिया ।स्तैमित्यं जडता जाड्यं शीतलत्वमपाटवं ॥२०.३०वातिको वातजो व्याधिः पैत्तिकः पित्तसम्भवः ।श्लैष्मिकः श्लेष्मसम्भूतः समूहः सांनिपातिकः ॥२०.३१व्याधितो विकृतो ग्लास्नुर्ग्लानो मन्दस्तथातुरः ।अभ्यान्तोऽभ्यमितो रुग्नश्चामयाव्यपटुश्च सः ॥२०.३२तद्विशेषास्तु विज्ञेयास्तन्मत्वर्थीययोगतः ।यथा ज्वरितकण्डूलवातकक्षयदद्रुणाः ॥२०.३३उत्साही द्विजदेवभेषजभिषग्भक्तोऽपि पथ्ये रतो धीरो धर्मपरायणः प्रियवचा मानी मृदुर्मानदः ।विश्वासी ऋजुरास्तिकः सुचरितो दाता दयालुः शुचिर्यः स्यात्कामं अवञ्चकः स विकृतो मुच्येत मृत्योरपि ॥२०.३४उपचारस्तूपचर्या चिकित्सा रुक्प्रतिक्रिया ।निग्रहो वेदनानिष्ठा क्रिया चोपक्रमः समाः ॥२०.३५भैषज्यं भेषजं जैत्रमगदो जायुरौषधं ।आयुर्योगो गदारातिरमृतं च तदुच्यते ॥२०.३६तच्च पञ्चविधं प्रोक्तं स्वस्वयोगविशेषतः ।रसश्चूर्णं कषायश्चावलेहः कल्क इत्यपि ॥२०.३७रसो दृषदि संभिन्नो दिव्यद्रव्यसमन्वितः ।चूर्णं तु वस्तुभिः क्षुण्णैः कषायः क्वथितैस्तु तैः ॥२०.३८तैः पक्वैरवलेहः स्यात्कल्को मध्वादिमर्दितैः ॥२०.३९पाचनः शोधनीयश्च क्लेदनश्च शमस्तथा ।दीपनस्तर्पणः शोष इति सप्तविधाः स्मृताः ॥२०.४०पाचनोऽर्धावशेषश्च शोधनो द्वादशांशकः ।क्लेदनश्चतुरंशस्तु शमश्चाष्टांशको मतः ॥२०.४१दीपनस्तु षडंशश्च तर्पणः पञ्चमांशकः ।शोषणः षोडशांशश्च क्वाथभेदा इतीरिताः ॥२०.४२ज्ञेयं रसादिकथनादनन्तरं किलानुपानं कथयन्ति सूरयः ।विलम्ब्य च क्रामणं एतदीरितं रात्रौ पुनः पाचनं एतदूचिरे ॥२०.४३आत्मनीनं तु पथ्यं स्यादायुष्यं च हितं च तत् ॥२०.४४किल पाटवं आरोग्यं अगदं स्यादनामयं ।कल्पस्तु पटुरुल्लाघो निरातङ्को निरामयः ॥२०.४५अगदो नीरुजो निरुगनातङ्कश्च कथ्यते ॥२०.४६वैद्यः श्रेष्ठोऽगदंकारो रोगहारी भिषग्विधिः ।रोगज्ञो जीवनो विद्वानायुर्वेदी चिकित्सकः ॥२०.४७विप्रो वैद्यकपारगः शुचिरनूचानः कुलीनः कृती धीरः कालकलाविदास्तिकमतिर्दक्षः सुधीर्धार्मिकः ।स्वाचारः समदृग्दयालुरखलो यः सिद्धमन्त्रक्रमः शान्तः काममलोलुपः कृतयशा वैद्यः स विद्योतते ॥२०.४८अधीरः कर्कशो लुब्धः सरोगो न्यूनशिक्षितः ।पञ्च वैद्या न युज्यन्ते धन्वन्तरिसमा अपि ॥२०.४९पुमर्थाश्चत्वारः खलु करणसौख्यैकसुभगास्तदेतद्भैषज्यानवरतनिषेवैकवशगं ।तदप्येकायत्तं फलदं अगदंकारकृपया ततो लोके लोके न परं उपकर्तैवममुतः ॥२०.५०राजानो विजिगीषया निजभुजप्रक्रान्तं ओजोदयात्शौर्यं संगररङ्गसद्मनि यथा संबिभ्रते संगताः ।यस्मिन्नौषधयस्तथा समुदिताः सिध्यन्ति वीर्याधिका विप्रोऽसौ भिषगुच्यते स्वयमिति श्रुत्यापि सत्यापितं ॥२०.५१यथावदुत्खाय शुचिप्रदेशजा द्विजेन कालादिकतत्त्ववेदिना ।यथायथं चौषधयो गुणोत्तराः प्रत्याहरन्ते यमगोचरानपि ॥२०.५२येन त्वां खनते ब्रह्मा येन त्वां खनते भृगुः ।येनेन्द्रो येन वरुणः खनते येन केशवः ।तेनाहं त्वां खनिष्यामि सिद्धिं कुरु महौषध ॥२०.५३विप्रः पठन्निमं मन्त्रं प्रयतात्मा महौषधीं ।खात्वा खादिरकीलेन यथावत्तां प्रयोजयेत् ॥२०.५४वीर्यं प्रकाश्य निजमोषधयः किलोचुरन्योन्यं उर्व्यपि दिवो भुवमाव्रजन्त्यः ।जीवं मुमूर्षं अपि यं हि वयं महिम्ना स्वेन स्तुवीमहि स जात्वपि नैव नश्येत् ॥२०.५५प्रत्यायिताः प्रमुदिता मुदितेन राज्ञा सोमेन साकमिदमोषधयः समूचुः ।यस्मै द्विजो दिशति भेषजमाशु राजन्तं पालयाम इति च श्रुतिराह साक्षात् ॥२०.५६आसामीशो लिखितपठितः स द्विजानां हि राजा सिद्ध्यै याश्च द्विजं अवृजिनं स्वाश्रयं कामयन्ते ।तास्वेवान्यः प्रसरति मदाद्यस्तु जात्या च गत्या हीनः शून्यो जगति कुपिताः पातयन्त्येनं एताः ॥२०.५७द्रव्याभिधानगदनिश्चयकायसौख्यं शल्यादिभूतविषग्रहबालवैद्यं ।विद्याद्रसायनवरं दृढदेहहेतुं आयुःश्रुतेर्द्विचतुरङ्गं इहाह शम्भुः ॥२०.५८अष्टाङ्गं शल्यशालाक्यकायभूतविषं तथा ।बालो रसायनं वृष्यमिति कैश्चिदुदाहृतं ॥२०.५९अष्टाङ्गज्ञः सुवैद्यो हि कियद्धीनो यथाङ्गतः ।अङ्गहीनः स विज्ञेयो न श्लाघ्यो राजमन्दिरे ॥२०.६०प्राज्ञो विज्ञः पण्डितो दीर्घदर्शी धीरो धीमान्कोविदो लब्धवर्णः ।दोषज्ञः सन्दूरदर्शी मनीषी मेधावी ज्ञः सूरिविज्ञौ विपश्चित् ॥२०.६१वैज्ञानिकः कृतमुखः संख्यावान्मतिमान्कृती ।कुशाग्रीयमतिः कृष्टिः कुशलो विदुरो बुधः ॥२०.६२निष्णातः शिक्षितो दक्षः सुदीक्षः कृतधीः सुधीः ।अभिज्ञो निपुणो विद्वान्कृतकर्मा विचक्षणः ॥२०.६३विदग्धश्चतुरश्चैव प्रौढो बोद्धा विशारदः ।सुमेधाः सुमतिस्तीक्ष्णः प्रेक्षावान्विबुधो विदन् ॥२०.६४मनीषा धिषणा प्रज्ञा धारणा शेमुषी मतिः ।धीर्बुद्धिः प्रतिपत्प्रेक्षा प्रतिपत्तिश्च चेतना ॥२०.६५संविज्ज्ञप्तिश्चोपलब्धिश्चिन्मेधा मननं मनः ।भानं बोधश्च हृल्लेखः संख्या च प्रतिभा च सा ॥२०.६६आदानं रोगहेतुः स्यान्निदानं रोगलक्षणं ।चिकित्सा तत्प्रतीकारः आरोग्यं रुङ्निवर्तनं ॥२०.६७मण्डः पेया विलेपी च यवागूः पथ्यभेदकाः ।भक्तैर्विना द्रवो मण्डः पेया भक्तसमन्विता ।विलेपी बहुभक्ता स्याद्यवागूर्विरलद्रवा ॥२०.६८विदलं माषमुद्गादि पक्वं सूपाभिधानकं ॥२०.६९पादाहारं पथ्यमाहुश्च वैद्या विद्यादर्धाहारं आहारसंज्ञं ।पादोनं स्याद्भोजनं भोगमन्यद्विद्याच्छेषं वातदोषप्रसूत्यै ॥२०.७०अन्नं जीवनमाहारः कूरं कशिपुरोदनं ।अन्धो भिस्सादनं भोज्यं अन्नाद्यं अशनं तथा ॥२०.७१भोज्यं पेयं तथा चोष्यं लेह्यं खाद्यं च चर्वणं ।निष्पेयं चैव भक्ष्यं स्यादन्नमष्टविधं स्मृतं ॥२०.७२व्यञ्जनं सूपशाकादि मिष्टान्नं तेमनं स्मृतं ।उपदंशो विदंशः स्यात्संधानो रोचकश्च सः ॥२०.७३जेमनमभ्यवहारः प्रत्यवसानं च भोजनं जग्धिः ।बल्भनं अशनं स्वदनं निघसाहारौ च निगरणं न्यादः ॥२०.७४जक्षणं भक्षणं लेहः स्वादनं रसनस्वदौ ।चर्वणं पानपीती च धयनं चूषणं भिदाः ॥२०.७५मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा ।सन्तीति रसनीयत्वादन्नाद्ये षडमी रसाः ॥२०.७६मधुरं लौल्यं इत्याहुरिक्ष्वादौ च स लक्ष्यते ॥२०.७७लवणस्तु पटुः प्रोक्तः सैन्धवादौ स दृश्यते ॥२०.७८तिक्तश्च पिचुमन्दादौ व्यक्तमास्वाद्यते रसः ॥२०.७९कषायस्तुवरः प्रोक्तः स तु पूगीफलादिषु ॥२०.८०अम्लस्तु चिञ्चाजम्बीरमातुलुङ्गफलादिषु ॥२०.८१कटुस्तु तीक्ष्णसंज्ञः स्यान्मरीचादौ स चेक्ष्यते ॥२०.८२मधुरश्च रसश्चिनोति केशान्वपुषः स्थैर्यबलौजोवीर्यदायी ।अतिसेवनतः प्रमेहशैत्यं जडतामान्द्यमुखान्करोति दोषान् ॥२०.८३लवणो रुचिकृद्रसोऽग्निदायी पचनः स्वादुकरश्च सारकश्च ।अतिसेवनतो जरां च पित्तं सितिमानं च ददाति कुष्ठकारी ॥२०.८४तिक्तो जन्तून्हन्ति कुष्ठं ज्वरार्तिं कासं दाहं दीपनो रोचनश्च ।मर्त्यैर्गाढं प्रत्यहं सेवितश्चेत्तीव्रं दत्ते राजयक्ष्माणमेषः ॥२०.८५कषायनामा निरुणद्धि शोफं वर्णं तनोर्दीपनपाचनश्च ।सत्त्वापहोऽसौ शिथिलत्वकारी निषेवितः पाण्डु करोति गात्रं ॥२०.८६अम्लाभिधः प्रीतिकरो रुचिप्रदः प्रपाचनोऽग्नेः पटुतां च यच्छति ।भ्रान्तिं च कुष्ठं कफपाण्डुतां च कार्ष्ण्यं च कासं कुरुतेऽतिसेवितः ॥२०.८७कटुः कफं कण्ठजदोषशोफमन्दानलश्वित्रगदान्निहन्ति ।एषोऽपि दत्ते बहुसेवितश्चेत्क्षयावहो वीर्यबलक्षयं च ॥२०.८८कटुः कषायश्च कफापहारिणौ माधुर्यतिक्तावपि पित्तनाशनौ ।पट्वम्लसंज्ञौ च रसौ मरुद्धरौ इत्थं द्विशोऽमी सकलामयापहाः ॥२०.८९अन्योन्यं मधुराम्लौ लवणाम्लौ कटुतिक्तकौ च रसौ ।कटुलवणौ च स्यातां मिश्ररसौ तिक्तलवणौ च ॥२०.९०लवणमधुरौ विरुद्धावथ कटुमधुरौ च तिक्तमधुरौ च ।साधारणः कषायः सर्वत्र समानतां धत्ते ॥२०.९१संधत्ते मधुरोऽम्लतां च लवणो धत्ते यथावत्स्थितिं तिक्ताख्यः कटुतां तथा मधुरतां धत्ते कषायाह्वयः ।अम्लस्तिक्तरुचिं ददाति कटुको यात्यन्ततस्तिक्ततां इत्येषां स्वविपाकतोऽपि कथिता षण्णां रसानां स्थितिः ॥२०.९२मधुरोऽम्लः कटुस्तिक्तः पटुस्तुवर इत्यमी ।क्रमादन्योन्यसंकीर्णा नानात्वं यान्ति षड्रसाः ॥२०.९३आद्याद्यो मधुरादिश्चेदेकैकेनोत्तरेण युक् ।द्विकभेदाः पञ्चदश पर्यायैः पञ्चभिस्तथा ॥२०.९४आद्यः सानन्तरः प्राग्वदुत्तरेण श्रुतो यदा ।चतुर्भिरपि पर्यायैराद्ये प्रोक्ता भिदा दश ॥२०.९५एवं द्वितीये षड्भेदास्तृतीये च त्रयः स्मृताः ।चतुर्थे चैक इत्येते त्रिकभेदास्तु विंशतिः ॥२०.९६आद्यौ सानन्तरौ त्रिः षडेकैकाग्रिमयोगतः ।त्यक्ते द्वितीये चत्वारः स्वाग्रिमैकैकसंयुते ॥२०.९७आद्ये त्यक्ते तु पञ्च स्युः स्वाग्रिमैकैकसंयुते ।चतुष्कभेदा इत्येते क्रमात्पञ्चदशेरिताः ॥२०.९८ततः पञ्चकभेदाः षडेकैकत्यागतः स्मृताः ।एकः सर्वसमासेन व्यासे षडिति सप्त ते ॥२०.९९एवं त्रिषष्टिराख्याता रसभेदाः समासतः ।तारतम्येष्वसंख्यातांस्तान्वेत्ति यदि शंकरः ॥२०.१००बृंहणं पुष्टिदं पोष्यमुत्कं पीनत्वदं च तत् ।वीर्यवृद्धिकरं वृष्यं वाजीकरणबीजकृत् ॥२०.१०१आप्यायनं तर्पणं च प्रीणनं तोषणं च तत् ।निःष्यन्दनं अभिष्यन्दि नेत्रद्रावं सरं च तत् ॥२०.१०२इति बहुविधरोगव्याधितोपक्रमोऽत्र प्रकृतभिषगनुक्ताहारपथ्यप्रयोगं ।इममखिलमुदित्वा वर्गमुत्सर्गसिद्धान्प्रवदतु स च विद्वानामयप्रत्ययांस्तान् ॥२०.१०३येन व्याधिशतान्धकारपटलीनिष्कासनाभास्करप्रायेणापि पुनस्तरां प्रविहिता हन्त द्विषां व्याधयः ।तस्यायं कृतिवाचि विंशतितमः श्रीमन्नृसिंहेशितुः शान्तिं नामकिरीटमण्डनमणौ वर्गो गदादिर्गतः ॥२०.१०४ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP