संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु| धरण्यादिवर्ग राजनिघण्टु मङ्गलाचरण प्रस्तावना आनूपादिवर्ग धरण्यादिवर्ग ङुडूच्यादिवर्ग पर्पटादिवर्ग पिप्पल्यादिवर्ग शताह्वादिवर्ग ऊलकादिवर्ग शाल्मल्यादिवर्ग प्रभद्रादिवर्ग करवीरादिवर्ग आम्रादिवर्ग अन्दनादिवर्ग उवर्णादिवर्ग पानीयादिवर्ग क्षीरादिवर्ग शाल्यादिवर्ग आंसादिवर्ग अनुष्यादिवर्गः इंहादिवर्ग ऱोगादिवर्ग अत्त्वादिवर्ग इश्रकादिवर्ग कार्थादिवर्ग १ कार्थादिवर्ग २ कार्थादिवर्ग ३ कार्थादिवर्ग ४ कार्थादिवर्ग ५ कार्थादिवर्ग ६ कार्थादिवर्ग ७ कार्थादिवर्ग ८ कार्थादिवर्ग ९ कार्थादिवर्ग १० कार्थादिवर्ग ११ राजनिघण्टु - धरण्यादिवर्ग नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड. Tags : narahar panditrajanighantuvedआयुर्वेदनरहरि पन्डितराजनिघण्टुसंस्कृत धरण्यादिवर्ग Translation - भाषांतर अथ धरणिधरित्रीभूतधात्रीधराभूक्षितिमहिधरणीडाक्ष्मावनीमेदिनीज्या ।अवनिरुदधिवस्त्रा गौः क्षमा क्षौणिरुर्वी कुरपि वसुमतीरा काश्यपी रत्रगर्भा ॥२.१क्षमादिमा भूमिरिला वसुन्धरा वरा च धात्री वसुधाचलोर्वरा ।विश्वम्भराद्या जगती क्षिती रसा पृथ्वी च गोत्रा पृथिवी पृथुर्मही ॥२.२क्षौणी सर्वसहानन्ता भूतमाता च निश्चला ।भूमी वीजप्रसूः श्यामा क्रोडकान्ता च कीर्तिता ॥२.३सा भूमिरुर्वराख्या या सर्वशस्योद्भवप्रदा ।समस्तवस्तूद्भवनादुर्वरा नाम भूरियं ॥२.४मृन्मृत्तिका प्रशस्ता सा मृत्सा मृत्स्नेति चेष्यते ॥२.५क्षारा मृदूषरो देशस्तद्वानिरणं ऊषरं ।खिलं अप्रहतं प्राहुर्धन्वा तु मरुरुच्यते ॥२.६मरुप्रायस्तु यो देशः स चोक्तो जाङ्गलाभिधः ।कृष्णमृत्कृष्णभूमिः स्यात्पाण्डुभूमिस्तु पाण्डुमृत् ॥२.७स शार्करः शार्करिलो देशो यः शर्करान्वितः ।सैकतः स्यात्सिकतिलः सिकतावांश्च यो भवेत् ॥२.८देशो जनपदो नीवृद्विषयश्चोपवर्त्तनं ।प्रदेशः स्थानं आख्या भूरवकाशः स्थितिः पदं ॥२.९नद्यम्बुजैर्भृतो धान्यैर्नदीमात्रक उच्यते ।वृष्ट्यम्बजैस्तु तैरेष देशः स्याद्देवमातृकः ॥२.१०नदीवृष्टिजलोद्भूतैर्नानाधान्यैः समावृतः ।देशो द्वयानुगमनात्स द्वैमातृक उच्यते ॥२.११मुद्गादीनां क्षेत्रं उद्भूतिदं यत्तन्मौद्गीनं कोद्रवीणं तथान्यत् ।व्रैहेयं स्यात्किंच शालेयं एवं बुद्धाणव्यञ्चाणवीनं च विद्यात् ॥२.१२अथ माष्यं माषीणं भङ्ग्यं भाङ्गीनं उम्यं औमीनं ।तिल्यं तैलीनं स्यादिति षष्टिक्यं च यव्यं च ॥२.१३शाकादेर्यत्र निष्पत्तिरेतत्स्याच्छाकशाकटं ।शाकशाकिनं इत्येतत्तथा वास्तूकशाकटं ॥२.१४अथ गिरिधरणीध्रगोत्रभूभृत्शिखरिशिलोच्चयशैलसानुमन्तः ।क्षितिभृदगनगावनीधराद्रिस्थिरकुधराश्च धराधरो धरश्च ॥२.१५अहार्यः पर्वतो ग्रावा कटकी प्रस्थवानपि ।शृङ्गी च वृक्षवांश्चेति शब्दाः शैलार्थवाचकाः ॥२.१६मध्यमस्तु नितम्बः स्यात्कटकं मेखला च सा ।तटे तटी प्रपातश्च प्रस्थे स्नुः सानुसानुनी ॥२.१७शृङ्गं तु शिखरं कूटं कन्दरे कन्दरा दरी ।विलं गुहा शिलासन्धिर्देवखातं च गह्वरं ॥२.१८प्रत्यन्तगिरयः पादा गण्डशैलाश्च्युतोपलाः ।आकरः खनिरित्युक्तो धातवो गैरिकादयः ॥२.१९ग्रावा प्रस्तरपाषाणौ दृषदश्मोपलः शिला ।लोहानि विविधानि स्युरश्मसारादिसंज्ञया ॥२.२०काननं गहनं सत्रं कान्तारं विपिनं वनं ।अरण्यं अटवी दावो दवश्च वनवाचकाः ॥२.२१अन्यदुद्यानं आक्रीडो यत्र क्रीडन्ति रागिणः ।नृपालयेषु प्रमदवनं अन्तःपुरोचितं ॥२.२२महावनं अरण्यानी महारण्यं महाटवी ।अथोपवनं आरामः पुरप्रान्ते वनं तु यत् ॥२.२३कुजः क्षितिरुहोऽङ्घ्रिपः शिखरिपादपौ विष्टरः कुठस्तरुरनोकहः कुरुहभूरुहद्रुद्रुमाः ।अगो नगवनस्पती विटपिशाखिभूजागमा महीजधरणीरुहक्षितिजवृक्षशालादयः ॥२.२४फलितः फलवानेष फलिनश्च फली तथा ।फलेग्रहिरबन्ध्यो यः स्यादमोघफलोदयः ॥२.२५अथावकेशी बन्ध्योऽयं विफलो निष्फलोऽफलः ।उक्तौ प्रागात्मना भिन्नौ वानस्पत्यवनस्पती ॥२.२६मूलं तु नेत्रं पादः स्यादङ्घ्रिश्चरणं इत्यपि ।उद्भेदस्त्वङ्कुरो ज्ञेयः प्ररोहोऽङ्कूर इत्यपि ॥२.२७अर्वाग्भागोऽस्य बुध्नः स्यात्नितम्बः सपृथुर्भवेत् ।आस्कन्धात्त प्रकाण्डः स्यात्काण्डो दण्डश्च कथ्यते ॥२.२८स्कन्धप्रमाणास्य लतास्तु शाखाः स्कन्धोत्थशाखास्तु भवन्ति शालाः ।जटाः शिरास्तस्य किलावरोहाः शाखा शिफा मज्जनि सारं आहुः ॥२.२९निष्कुटं कोटरं प्रोक्तं त्वचि वल्कं तु वल्कलं ।नवपुष्पाढ्यशाखाग्रे वल्लरी मञ्जरी तथा ॥२.३०पर्णं पत्रं दलं बर्हं पलाशं छदनं छदः ।स्यात्पल्लवः किशलयः प्रबालः पल्लवं नवं ॥२.३१विस्तारो विटपः प्रोक्तः प्राग्रं तु शिखरं शिरः ।माढिः पर्णशिरा ज्ञेया वृन्तं प्रसवबन्धनं ॥२.३२कुलक्षारकजालककलिकास्तु कुडमले कथिताः ।कुसुमं सुमनः प्रसूनप्रसवसुमं सूनुफुल्लपुष्पं स्यात् ॥२.३३मकरन्दो मरन्दश्च मधु पुष्परसाह्वयं ।पौष्पं रजः परागः स्यान्मधुली धूलिका च सा ॥२.३४गुच्छो गुलुञ्छः स्तवको गुच्छकः कुसुमोच्चयः ।समं परिमलामोदगन्धसौरभ्यसौरभं ॥२.३५उज्जृम्भितं उज्जृम्भं स्मितं उन्मिषितं विनिद्रं उन्निद्रं ।उन्मीलितं विजृम्भितं उद्बुद्धोद्भिदुरभिन्नं उद्भिन्नं ॥२.३६विकसितहसितविकस्वरविकचव्याकोशफुल्लसम्फुल्लं ।स्फुटं उदितदलितदीर्णस्फुटितोत्फुल्लप्रफुल्लं एकार्थं ॥२.३७निद्राणं मुद्रितं सुप्तं मिलितं मीलितं नतं ।निकूणितं सङ्कुचितं सनिद्रं अलसं समं ॥२.३८आहुस्तरूणां फलं अत्र शस्यं तदामं उक्तं हि शलाटुसंज्ञं ।शुष्कं तु वानं प्रवदन्ति गुल्मस्तम्बौ प्रकाण्डैरहितो महीजः ॥२.३९उलपं गुल्मिनी वीरुल्लता वल्ली प्रतानिनी ।व्रततिः प्रततिश्चैषा विस्तीर्णा वीरुदुच्यते ॥२.४०अथ वक्षामि नक्षत्रवृक्षानागमलक्षितान् ।पूज्यानायुष्यदांश्चैव वर्द्धनात्पालनादपि ॥२.४१विषद्रुधात्रीतरुहेमदुग्धा जम्बूस्तथा खादिरकृष्णवंशाः ।अश्वत्थनागौ च वटः पलाशः प्लक्षस्तथाम्बष्ठतरुः क्रमेण ॥२.४२बिल्वार्जुनौ चैव विकङ्कतोऽथ सकेसराः शम्बरसर्जवञ्जुलाः ।सपानसार्काश्च शमीकदम्बास्तथाम्रनिम्बौ मधुकद्रुमः क्रमात् ॥२.४३अमी नक्षत्रदैवत्या वृक्षाः स्युः सप्तविंशतिः ।अश्विन्यादिक्रमादेषां एषा नक्षत्रपद्धतिः ॥२.४४यस्त्वेतेषां आत्मजन्मर्क्षभाजां मर्त्यः कुर्याद्भेषजादीन्मदान्धः ।तस्यायुष्यं श्रीकलत्रं च पुत्रो नश्यत्येषा वर्धते वर्द्धनाद्यैः ॥२.४५आचार्योक्तौ स्फुटं अथ बृहत्सुश्रुते नारदीये नारायण्यां क्वचिदपि तथान्यत्र तन्त्रान्तरेषु ।ज्ञात्वापीह प्रथितभिषजा नातिदृष्टोपयोगं नैवास्माभिर्विशदितं इदं गौरवाद्ग्रन्थभीतेः ॥२.४६तालाद्या जातयः सर्वाः क्रमुकः केतकी तथा ।खर्जूरीनारिकेलाद्यास्तरयवृक्षाः प्रकीर्तिताः ॥२.४७सर्वाआंरो चार्द्राणि नवौएषधानि सुवीर्य्यवन्तीति वदन्ति धीराः ।सर्वारिय शुष्कारिय तु मध्यमानि शुष्काणि जेईर्णानि च निष्फलानि ॥२.४८वास्तूककुटजगुडूचीवासाकुष्माण्डकादिशतपत्री ।इत्यादि तु नित्यार्द्रं गुणवच्छुष्कं यदा तदा द्विमुयणं ।विडङ्ग मधु मगूरी दाडिमं पिप्पलो गुडुः ।नागवल्लेईन्दुवश्शाल्याद्याः पुराणाः स्युआआरुणोत्तमाः ॥२.४९काठिन्यं मध्यकाठिन्यं मार्दवं चेति तु त्रिधा ।द्रव्याणां इह सर्वेषां प्रकृतिः कथ्यते बुधैः ॥२.५०द्रव्याणां सन्ति सर्वेषां पूर्वैरुक्तास्त्रयो गुणाः ।रसो वीर्यं विपाकश्च ज्ञातव्यास्तेऽतियत्नतः ॥२.५१रसस्तु मधुरादिः स्याद्वीर्यं कार्यसमर्थता ।परिणामे गुणाढ्यत्वं विपाक इति संज्ञितं ॥२.५२शीतं उष्णं च रूक्षं च स्निग्धं तीक्ष्णं तथा मृदु ।पिच्छिलं विशदं चेति वीर्यं अष्टविधं स्मृतं ॥२.५३निस्कुटप्रमदकाननादिषु द्रव्यं एतदपि निर्गुणं भवेत् ।क्वाप्यलीकवचनोपकर्णनात्क्वाप्यसाधुवनितादिसेवनात् ॥२.५४जातं श्मशाने वल्मीके देशे मूत्रादिदूषिते ।द्रव्यं नैवोपयोगाय भिषजां उपजायते ॥२.५५कन्दं हिमर्तौ शिशिरे च मूलं पुष्पं वसन्ते गुणदं वदन्ति ।प्रबालपत्राणि निदाघकाले स्युः पङ्कजातानि शरत्प्रयोगे ॥२.५६निम्बोडुम्बरजम्बवाद्या यथाकालं गुणोत्तराः ।कन्दादिष्वथ सर्वेषां पृथगेव रसाद्यः ॥२.५७केचित्कन्दे केऽपि मूलेषु केचित्पत्रे पुष्पे केऽपि केचित्फलेषु ।त्वच्येवान्ये वल्कले केचिदित्थं द्रव्यस्तोमा भिन्नभिन्नं गुणाढ्याः ॥२.५८देशे देशे योजनद्वादशान्ते भिन्नान्याहुर्द्रव्यनामानि लोके ।किंचामीषु प्राणिनां वर्णभाषाचेष्टाच्छाया भिन्नरूपा विभाति ॥२.५९अनिर्दिष्टप्रयोगेषु मूलं ग्राह्यं त्वगादिषु ।सामान्योक्तौ प्रयोक्तव्यं प्राहुस्तोयं तु नाभसं ॥२.६०चूर्णकल्ककषायाणां प्रमाणं यत्र नोदितं ।तत्र द्रव्यप्रमाणेन स्वयं बुद्ध्या प्रयोजयेत् ॥२.६१माध्वीकं सर्वमद्यानां मधूनां माक्षिकं तथा ।तैलं तु तिलसम्भूतं धातवो वस्तिसम्भवाः ॥२.६२शालीनां रक्तशालिः स्यात्सूप्यानां मुद्ग एव च ।मूलानां पिप्पलीमूलं फलानां मदनं फलं ॥२.६३त्वचा तु गन्धद्रव्याणां पत्राणां गन्धपत्रकं ।जीवन्तिशाकं शाकानां लवणानां च सैन्धवं ॥२.६४सामान्यपुष्पनिर्देशात्मालतीकुसुमं क्षिपेत् ।इत्थं अन्येऽपि बोद्धव्याः प्रयोगा योगलक्षिताः ॥२.६५द्रव्यं वातहरं यत्तत्सकलं दीपनं परं ।कफहारि समं प्रोक्तं पित्तघ्नं मन्ददीपनं ॥२.६६यच्छीतवीर्यं गुरु पित्तहारि द्रव्यं नृणां वातकरं तदुक्तं ।यदुष्णवीर्यं लघु वातहारि श्लेष्मापहं पित्तकरं च तत्स्यात् ॥२.६७इति बहुविधदेशभूध्रभूमीरुहवनगुल्मलताभिधागुणानां ।सविवरं अभिधाय लक्ष्म साधारणं अथ तच्च विशेषतोऽभिधास्ये ॥२.६८इत्थं भूमीविपिनविषयक्षेत्रगोत्रादिनामस्तोमाख्यानप्रकरणगुणव्याकृतिप्रौढं एनं ।वर्गं बुद्ध्वा भिषगुपचितानर्गलात्यन्तसूक्ष्मप्रज्ञालोकप्रकटितधियां आधिराज्ये भिषज्येत् ॥२.६९इत्येष वैद्यकविकल्पविधानिदानचूडामणौ मृडपरागमपारगेण । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP