संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु| प्रस्तावना राजनिघण्टु मङ्गलाचरण प्रस्तावना आनूपादिवर्ग धरण्यादिवर्ग ङुडूच्यादिवर्ग पर्पटादिवर्ग पिप्पल्यादिवर्ग शताह्वादिवर्ग ऊलकादिवर्ग शाल्मल्यादिवर्ग प्रभद्रादिवर्ग करवीरादिवर्ग आम्रादिवर्ग अन्दनादिवर्ग उवर्णादिवर्ग पानीयादिवर्ग क्षीरादिवर्ग शाल्यादिवर्ग आंसादिवर्ग अनुष्यादिवर्गः इंहादिवर्ग ऱोगादिवर्ग अत्त्वादिवर्ग इश्रकादिवर्ग कार्थादिवर्ग १ कार्थादिवर्ग २ कार्थादिवर्ग ३ कार्थादिवर्ग ४ कार्थादिवर्ग ५ कार्थादिवर्ग ६ कार्थादिवर्ग ७ कार्थादिवर्ग ८ कार्थादिवर्ग ९ कार्थादिवर्ग १० कार्थादिवर्ग ११ राजनिघण्टु - प्रस्तावना नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड. Tags : narahar panditrajanighantuvedआयुर्वेदनरहरि पन्डितराजनिघण्टुसंस्कृत प्रस्तावना Translation - भाषांतर धन्वन्तरीयमदनादिहलायुधादीन्विश्वप्रकाश्यमरकोषसशेषराजौ ।आलोक्य लोकविदितांश्च विचिन्त्य शब्दान्द्रव्याभिधानगणसंग्रह एष सृष्टः ॥१आयुःश्रुतीनामतुलोपकारकं धन्वन्तरिग्रन्थमतानुसारकं ।आचक्ष्महे लक्षणलक्ष्मधारकं नामोच्चयं सर्वरुजापसारकं ॥२निर्देशलक्षणपरीक्षणनिर्णयेन नानाविधौषधविचारपरायणो यः ।सोऽधीत्य यत्सकलं एनं अवैति सर्वं तस्मादयं जयति सर्वनिघण्टुराजः ॥३नानाविधौषधिरसाह्वयवीर्यपाकप्रस्तावनिस्तरणपण्डितचेतनोऽपि ।मुह्यत्यवश्यं अनवेक्ष्य निघण्टुं एनं तस्मादयं विरचितो भिषजां हिताय ॥४निघण्टुना विना वैद्यो विद्वान्व्याकरणं विना ।अनभ्यासेन धानुष्कस्त्रयो हास्यस्य भाजनं ॥५नानादेशविशेषभाषितवशाद्यत्संस्कृतप्राकृतापभ्रंशादिकनाम्नि नैव गणना द्रव्योच्चयव्याहृतौ ।तस्मादत्र तु यावतास्त्युपकृतिस्तावन्मया गृह्यते पाथोदैः परिपीयते किं अखिलं तद्वारि वारां निधेः ॥६आभीरगोपालपुलिन्दतापसाः पान्थास्तथान्येऽपि च वन्यपारगाः ।परीक्ष्य तेभ्यो विविधोषधाभिधारसादिलक्ष्माणि ततः प्रयोजयेत् ॥७नानाभिधेयं अथ यत्र शिवासमङ्गाश्यामादिनाम निगमेषु निवेशितं यत् ।प्रस्ताववीर्यरसयोगवशादमुष्य बुद्ध्या विमृश्य भिषजां च धृतिर्विधेया ॥८नामानि क्वचिदिह रूढितः स्वभावात्देश्योक्त्या क्वचन च लाञ्छनोपमाभ्यां ।वीर्येण क्वचिदितराह्वयादिदेशात्द्रव्याणां ध्रुवं इति सप्तधोदितानि ॥९अत्रौषधीनिवहनामगुणाभिधानप्रस्तावतस्तदुपयुक्ततयेतराणि ।क्षेत्रावनीधरनदीनरतिर्यगादीन्व्याख्यागुणैरतिसविस्तरं ईरितानि ॥१०एकः कोऽपि सचेतसां यदि मुदे कल्पेत जल्पे गुणस्तत्रान्येऽपि विनार्थनां बहुमतिं सन्तः स्वयं तन्वते ।अप्यार्द्रीकृतशैलसानुगशिलां आपीय चान्द्रीं सुधां अम्भोधिः कुमुदैर्दृशश्च जगतां नन्दन्ति केनार्दिताः ॥११अप्रसिद्धाभिधं चात्र यदौषधं उदीरितं ।तस्याभिधाविवेकः स्यादेकार्थादिनिरूपणे ॥१२रम्भाश्यामादिनाम्ना ये स्वर्गस्त्रीतरुणीति च ।अर्था नानार्थतन्त्रोक्तास्त्यक्तास्तेऽस्मिन्नपार्थकाः ॥१३व्यक्तिः कृतात्र कर्णाटमहाराष्ट्रीयभाषया ।आन्ध्रलाटादिभाषास्तु ज्ञातव्यास्तद्द्वयाश्रयाः ॥१४एतत्त्रिनेत्रगुणनीयगुणानुविद्धवर्णाढ्यवृत्तसितमौक्तिकवर्गसारं ।कण्ठे सतां सकलनिवृतिधामनामचिन्तामणिप्रकरदाम करोतु केलिं ॥१५अत्रानूपादिरस्मादवनिरथ गुडूचीशताह्वादिको द्वौ तत्प्रान्ते पर्पटादिस्तदुपरि पठितौ पिप्पलीमूलकादिः ।शाल्मल्यादिः प्रभद्रादिकं अनु करवीरादिराम्रादिरन्यस्तस्याग्रे चन्दनादिस्तदनु निगदितः कोमलः काञ्चनादिः ॥१६पानीयः क्षीरशाल्यादिकं अनु कथितो मासमानुष्यकादिः सिंहादिः स्याद्गदादिस्तदनु भवति सत्त्वाधिको मिश्रकोऽन्यः ।एकार्थादिस्तदेतैस्त्रिकरपरिचितैः प्रातिभोन्मेषसर्गं वर्गैरासाद्य वैद्यो निजमतहृदये निस्तरां निश्चिनोतु ॥१७काश्मीरेण कपर्दिपादकमलद्वंद्वार्चनोपार्जितश्रीसौभाग्ययशःप्रतापपदवी धाम्ना प्रतिष्ठापिता ।सेयं श्रीनरसिंहनामविदुषो स्वर्वैद्यविद्यास्थितिः प्रीत्या प्राप्तसुवर्णराजिरचना चित्रोज्ज्वला पीठिका ॥१८अन्यत्र विद्यमानत्वादुपयोगानवेक्षणात् ।वृथा विस्तरभीत्या च नोक्तो गुणगणो मया ॥१९ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP