संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु| उवर्णादिवर्ग राजनिघण्टु मङ्गलाचरण प्रस्तावना आनूपादिवर्ग धरण्यादिवर्ग ङुडूच्यादिवर्ग पर्पटादिवर्ग पिप्पल्यादिवर्ग शताह्वादिवर्ग ऊलकादिवर्ग शाल्मल्यादिवर्ग प्रभद्रादिवर्ग करवीरादिवर्ग आम्रादिवर्ग अन्दनादिवर्ग उवर्णादिवर्ग पानीयादिवर्ग क्षीरादिवर्ग शाल्यादिवर्ग आंसादिवर्ग अनुष्यादिवर्गः इंहादिवर्ग ऱोगादिवर्ग अत्त्वादिवर्ग इश्रकादिवर्ग कार्थादिवर्ग १ कार्थादिवर्ग २ कार्थादिवर्ग ३ कार्थादिवर्ग ४ कार्थादिवर्ग ५ कार्थादिवर्ग ६ कार्थादिवर्ग ७ कार्थादिवर्ग ८ कार्थादिवर्ग ९ कार्थादिवर्ग १० कार्थादिवर्ग ११ राजनिघण्टु - उवर्णादिवर्ग नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड. Tags : narahar panditrajanighantuvedआयुर्वेदनरहरि पन्डितराजनिघण्टुसंस्कृत उवर्णादिवर्ग Translation - भाषांतर त्रिस्वर्णरौप्यताम्राणि त्रपु सीसं द्विरीतिका ।कांस्यायो वर्तकं कान्तं किट्टं मुण्डं च तीक्ष्णकं ॥१३.१शिला सिन्दूरभूनागं हिङ्गुलं गैरिकं द्विधा ।तुवरी हरितालं च गन्धकं च शिलाजतु ॥१३.२सिक्थकं च द्विकासीसं माक्षिकौ पञ्चधाञ्जनं ।कम्पिल्लतुत्थरसकं पारदश्चाभ्रकं चतुः ॥१३.३स्फटी च क्षुल्लकः शङ्खौ कपर्दः शुक्तिका द्विधा ।खटिनी दुग्धपाषाणो मणिश्च कर्पूराद्यकः ॥१३.४सिकता च द्विकङ्गुष्ठं विमला च द्विधा मता ।तथाखुप्रस्तरश्चैव शरवेदमिताह्वयाः ।अथ रत्नं नवं वक्ष्ये पद्मरागादिकं क्रमात् ॥१३.५माणिक्यमुक्ताफलविद्रुमाणि गारुत्मतं स्यादथ पुष्परागः ।वज्रं च नीलं च नव क्रमेण गोमेदवैडूर्ययुतानि तानि ॥१३.६स्फटिकश्च सूर्यकान्तो वैक्रान्तश्चन्द्रकान्तकः ।राजावर्तः पेरोजं स्यादुभौ बाणाश्च संख्यया ॥१३.७स्वर्णं सुवर्णकनकोज्ज्वलकाञ्चनानि कल्याणहाटकहिरण्यमनोहराणि ।गाङ्गेयगैरिकमहारजताग्निवीर्यरुक्माग्निहेमतपनीयकभास्कराणि ॥१३.८जाम्बूनदाष्टापदजातरूपपिञ्जानचामीकरकर्बुराणि ।कार्तस्वरापिञ्जरभर्मभूरितेजांसि दीप्तानलपीतकानि ॥१३.९मङ्गल्यसौमेरवशातकुम्भशृङ्गारचन्द्राजरजाम्बवानि ।आग्नेयनिष्काग्निशिखानि चेति नेत्राब्धिनिर्धारितनाम हेम ॥१३.१०स्वर्णं स्निग्धकषायतिक्तमधुरं दोषत्रयध्वंसनं शीतं स्वादु रसायनं च रुचिकृच्चक्षुष्यं आयुष्प्रदं ।प्रज्ञावीर्यबलस्मृतिस्वरकरं कान्तिं विधत्ते तनोः संधत्ते दुरितक्षयं श्रियं इदं धत्ते नॄणां धारणात् ॥१३.११दाहे च रक्तं अथ यच्च सितं छिदायां काश्मीरकान्ति च विभाति निकाषपट्टे ।स्निग्धं च गौरवं उपैति च यत्तुलायां जात्या तदेव कनकं मृदु रक्तपीतं ॥१३.१२तच्चैकं रसवेधजं तदपरं जातं स्वयं भूमिजं किंचान्यद्बहुलोहसंकरभवं चेति त्रिधा काञ्चनं ।तत्राद्यं किल पीतरक्तं अपरं रक्तं ततोऽन्यत्तथा मैरालं तदतिक्रमेण तदिदं स्यात्पूर्वपूर्वोत्तमं ॥१३.१३रौप्यं शुभ्रं वसुश्रेष्ठं रुचिरं चन्द्रलोहकं ।श्वेतकं तु महाशुभ्रं रजतं तप्तरूपकं ॥१३.१४चन्द्रभूतिः सितं तारं कलधौतेन्दुलोहकं ।कुप्यं धौतं तथा सौधं चन्द्रहासं मुनीन्दुकं ॥१३.१५रौप्यं स्निग्धं कषायाम्लं विपाके मधुरं सरं ।वातपित्तहरं रुच्यं वलीपलितनाशनं ॥१३.१६दाहच्छेदनिकाषेषु सितं स्निग्धं च यद्गुरु ।सुघर्षेऽपि च वर्णाढ्यं उत्तमं तदुदीरितं ॥१३.१७ताम्रं म्लेच्छमुखं शुल्वं तपनेष्टं उदुम्बरं ।त्र्यम्बकं चारविन्दं च रविलोहं रविप्रियं ।रक्तं नेपालकं चैव रक्तधातुः करेन्दुधा ॥१३.१८ताम्रं सुपक्वं मधुरं कषायं तिक्तं विपाके कटु शीतलं च ।कफापहं पित्तहरं विबन्धशूलघ्नपाण्डूदरगुल्मनाशि ॥१३.१९घनघातसहं स्निग्धं रक्तपत्त्रामलं मृदु ।शुद्धाकरसमुत्पन्नं ताम्रं शुभं असंकरं ॥१३.२०त्रपु त्रपुसमाण्डूकं वङ्गं च मधुरं हिमं ।कुरूप्यं पिच्चटं रङ्गं पूतिगन्धं दशाह्वयं ॥१३.२१त्रपुसं कटुतिक्तहिमं कषायलवणं सरं च मेहघ्नं ।क्रिमिदाहपाण्डुशमनं कान्तिकरं तद्रसायनं चैव ॥१३.२२श्वेतं लघु मृदु स्वच्छं स्निग्धं उष्णापहं हिमं ।सूतपत्त्रकरं कान्तं त्रपु श्रेष्ठं उदाहृतं ॥१३.२३सीसकं तु जडं सीसं यवनेष्टं भुजंगमं ।योगीष्टं नागपुरगं कुवङ्गं परिपिष्टकं ॥१३.२४मृदु कृष्णायसं पद्मं तारशुद्धिकरं स्मृतं ।सिरावृत्तं च वङ्गं स्याच्चीनपिष्टं च षोडश ॥१३.२५सीसं तु वङ्गतुल्यं स्यात्रसवीर्यविपाकतः ।उष्णं च कफवातघ्नं अर्शोघ्नं गुरु लेखनं ॥१३.२६स्वर्णे नीलं मृदु स्निग्धं निर्मलं च सुगौरत्वं ।रौप्यसंशोधनं क्षिप्रं सीसकं च तदुत्तमं ॥१३.२७रीतिः क्षुद्रसुवर्णं सिंहलकं पिङ्गलं च पित्तलकं ।लौहितकं आरकुट्टं पिङ्गललोहं च पीतकं नवधा ॥१३.२८राजरीतिः काकतुण्डी राजपुत्री महेश्वरी ।ब्राह्मणी ब्रह्मरीतिश्च कपिला पिङ्गलापि च ॥१३.२९रीतिकायुगलं तिक्तं शीतलं लवणं रसे ।शोधनं पाण्डुवातघ्नं क्रिमिप्लीहार्तिपित्तजित् ॥१३.३०शुद्धा स्निग्धा मृदुः शीता सुरङ्गा सूत्रपत्त्रिणी ।हेमोपमा शुभा स्वच्छा जन्या रीतिः प्रकीर्तिता ॥१३.३१कांस्यं सौराष्ट्रिकं घोषं कंसीयं वह्निलोहकं ।दीप्तं लोहं घोरपुष्पं दीप्तकं सुमनाह्वयं ॥१३.३२कांस्यं तु तिक्तं उष्णं चक्षुष्यं वातकफविकारघ्नं ।रूक्षं कषायरुच्यं लघु दीपनपाचनं पथ्यं ॥१३.३३श्वेतं दीप्तं मृदु ज्योतिः शब्दाढ्यं स्निग्धनिर्मलं ।घनाग्निसहसूत्राङ्गं कांस्यं उत्तमं ईरितं ॥१३.३४वर्तलोहं वर्ततीक्ष्णं वर्तकं लोहसंकरं ।नीलिका नीललोहं च लोहजं वट्टलोहकं ॥१३.३५इदं लोहं कटूष्णं च तिक्तं च शिशिरं तथा ।कफहृत्पित्तशमनं मधुरं दाहमेहनुत् ॥१३.३६अयस्कान्तं कान्तलोहं कान्तं स्याल्लोहकान्तिकं ।कान्तायसं कृष्णलोहं महालोहं च सप्तधा ॥१३.३७स्याद्भ्रामकं तदनु चुम्बकरोमकाख्यं स्याच्छेदकाख्यं इति तच्च चतुर्विधं स्यात् ।कान्ताश्मलोहगुणवृद्धि यथाक्रमेण दार्ढ्याङ्गकान्तिकचकार्ष्ण्यविरोगदायि ॥१३.३८अयस्कान्तविशेषाः स्युर्भ्रामकाश्चुम्बकादयः ।रसायनकराः सर्वे देहसिद्धिकराः पराः ॥१३.३९न सूतेन विना कान्तं न कान्तेन विना रसः ।सूतकान्तसमायोगाद्रसायनं उदीरितं ॥१३.४०लोहकिट्टं तु किट्टं स्याल्लोहचूर्णं अयोमलं ।लोहजं कृष्णचूर्णं च कार्ष्ण्यं लोहमलं तथा ॥१३.४१लोहकिट्टं तु मधुरं कटूष्णं क्रिमिवातनुत् ।पक्तिशूलं मरुच्छूलं मेहगुल्मार्तिशोफनुत् ॥१३.४२मुण्डं मुण्डायसं लोहं दृषत्सारं शिलात्मजं ।अश्मजं कृषिलोहं च आरं कृष्णायसं नव ॥१३.४३तीक्ष्णं शस्त्रायसं शस्त्रं पिण्डं पिण्डायसं शठं ।आयसं निशितं तीव्रं लोहखड्गं च मुण्डजं ।अयश्चित्रायसं प्रोक्तं चीनजं वेदभूमितं ॥१३.४४लोहं रूक्षोष्णतिक्तं स्याद्वातपित्तकफापहं ।प्रमेहपाण्डुरशूलघ्नं तीक्ष्णं मुण्डाधिकं स्मृतं ॥१३.४५स्वर्णं सम्यगशोधितं श्रमकरं स्वेदावहं दुःसहं रौप्यं जाठरजाड्यमान्द्यजननं ताम्रं वमिभ्रान्तिदं ।नागं च त्रपु चाङ्गदोषदं अयो गुल्मादिदोषप्रदं तीक्ष्णं शूलकरं च कान्तं उदितं कार्ष्ण्यामयस्फोटदं ॥१३.४६विशुद्धिहीनौ यदि मुण्डतीक्ष्णौ क्षुधापहौ गौरवगुल्मदायकौ ।कांस्यायसं क्लेदकतापकारकं रीत्यौ च सम्मोहनशोषदायिके ॥१३.४७मनःशिला स्यात्कुनटी मनोज्ञा शिला मनोह्वापि च नागजिह्वा ।नेपालिका स्यान्मनसश्च गुप्ता कल्याणिका रोगशिला दशाह्वा ॥१३.४८मनःशिला कटुः स्निग्धा लेखनी विषनाशनी ।भूतावेशभयोन्मादहारिणी वश्यकारिणी ॥१३.४९सिन्दूरं नागरेणुः स्याद्रक्तं सीमन्तकं तथा ।नागजं नागगर्भं च शोणं वीररजः स्मृतं ॥१३.५०गणेशभूषणं संध्यारागं शृङ्गारकं स्मृतं ।सौभाग्यं अरुणं चैव मङ्गल्यं मनुसंमितं ॥१३.५१सिन्दूरं कटुकं तिक्तं उष्णं व्रणविरोपणं ।कुष्ठास्रविषकण्डूतिवीसर्पशमनं परं ॥१३.५२सुरङ्गोऽग्निसहः सूक्ष्मः स्निग्धः स्वच्छो गुरुर्मृदुः ।सुवर्णकरजः शुद्धः सिन्दूरो मङ्गलप्रदः ॥१३.५३भूनागः क्षितिनागश्च भूजन्तू रक्तजन्तुकः ।क्षितिजः क्षितिजन्तुश्च भूमिजो रक्ततुण्डकः ॥१३.५४भूनागो वज्रमारः स्यान्नानाविज्ञानकारकः ।रसस्य जारणे तूक्तं तत्सत्त्वं तु रसायनं ॥१३.५५हिङ्गुलं बर्बरं रक्तं सुरङ्गं सुगरं स्मृतं ।रञ्जनं दरदं म्लेच्छं चित्राङ्गं चूर्णपारदं ॥१३.५६अन्यच्च मारकं चैव मणिरागं रसोद्भवं ।रञ्जकं रसगर्भं च बाणभूसंख्यसंमितं ॥१३.५७हिङ्गुलं मधुरं तिक्तं उष्णवातकफापहं ।त्रिदोषद्वंद्वदोषोत्थं ज्वरं हरति सेवितं ॥१३.५८गैरिकं रक्तधातुः स्याद्गिरिधातुर्गवेधुकं ।धातुः सुरङ्गधातुश्च गिरिजं गिरिमृद्भवं ॥१३.५९सुवर्णगैरिकं चान्यत्स्वर्णधातुः सुरक्तकं ।संध्याभ्रं बभ्रुधातुश्च शिलाधातुः षडाह्वयं ॥१३.६०गैरिकं मधुरं शीतं कषायं व्रणरोपणं ।विस्फोटार्शोऽग्निदाहघ्नं वरं स्वर्णादिकं शुभं ॥१३.६१तुवरी मृच्च सौराष्ट्री मृत्स्ना सङ्गा सुराष्ट्रजा ।भूघ्नी मृतालकं कासी मृत्तिका सुरमृत्तिका ।स्तुत्या काङ्क्षी सुजाता च ज्ञेया चैव चतुर्दश ॥१३.६२तुवरी तिक्तकटुका कषायाम्ला च लेखनी ।चक्षुष्या ग्रहणीछर्दिपित्तसंतापहारिणी ॥१३.६३हरितालं गोदन्तं पीतं नटमण्डनं च गौरं च ।चित्राङ्गं पिञ्जरकं भवेदालं तालकं च तालं च ॥१३.६४कनकरसं काञ्चनकं बिडालकं चैव चित्रगन्धं च ।पिङ्गं च पिङ्गसारं गौरीललितं च सप्तदशसंज्ञं ॥१३.६५हरितालं कटूष्णं च स्निग्धं त्वग्दोषनाशनं ।भूतभ्रान्तिप्रशमनं विषवातरुजार्तिजित् ॥१३.६६गन्धको गन्धपाषाणो गन्धाश्मा गन्धमोदनः ।पूतिगन्धोऽतिगन्धश्च वटः सौगन्धिकस्तथा ॥१३.६७सुगन्धो दिव्यगन्धश्च गन्धश्च रसगन्धकः ।कुष्ठारिः क्रूरगन्धश्च कीटघ्नः शरभूमितः ॥१३.६८गन्धकः कटुरुष्णश्च तीव्रगन्धोऽतिवह्निकृत् ।विषघ्नः कुष्ठकण्डूतिखर्जूत्वग्दोषनाशनः ॥१३.६९श्वेतो रक्तश्च पीतश्च नीलश्चेति चतुर्विधः ।गन्धको वर्णतो ज्ञेयो भिन्नो भिन्नगुणाश्रयः ॥१३.७०श्वेतः कुष्ठापहारी स्याद्रक्तो लोहप्रयोगकृत् ।पीतो रसप्रयोगार्हो नीलो वर्णान्तरोचितः ॥१३.७१शिलाजतु स्यादश्मोत्थं शैलं गिरिजं अश्मजं ।अश्मलाक्षाश्मजतुकं जत्वश्मकं इति स्मृतं ॥१३.७२शिलाजतु भवेत्तिक्तं कटूष्णं च रसायनं ।मेहोन्मादाश्मरीशोफकुष्ठापस्मारनाशनं ॥१३.७३सिक्थकं मधुकं सिक्थं मधुजं मधुसम्भवं ।मदनकं मधूच्छिष्टं मदनं मक्षिकामलं ॥१३.७४क्षौद्रेयं पीतरागं च स्निग्धं माक्षिकजं तथा ।क्षौद्रजं मधुशेषं च द्रावकं मक्षिकाश्रयं ।मधूषितं च सम्प्रोक्तं मधूत्थं चोनविंशति ॥१३.७५सिक्थकं कपिलं स्वादु कुष्ठवातार्तिजिन्मृदु ।कटु स्निग्धं च लेपेन स्फुटिताङ्गविरोपणं ॥१३.७६कासीसं धातुकासीसं केसरं हंसलोमशं ।शोधनं पांशुकासीसं शुभ्रं सप्ताह्वयं मतं ॥१३.७७कासीसं तु कषायं स्यात्शिशिरं विषकुष्ठजित् ।खर्जूक्रिमिहरं चैव चक्षुष्यं कान्तिवर्धनं ॥१३.७८द्वितीयं पुष्पकासीसं वत्सकं च मलीमसं ।ह्रस्वं नेत्रौषधं योज्यं विशदं नीलमृत्तिका ॥१३.७९पुष्पकासीसं तिक्तं शीतं नेत्रामयापहं ।लेपेनात्यामकुष्ठादिनानात्वग्दोषनाशनं ॥१३.८०माक्षिकं चैव माक्षीकं पीतकं धातुमाक्षिकं ।तापीजं ताप्यकं ताप्यमापीतं पीतमाक्षिकं ॥१३.८१आवर्तं मधुधातुः स्यात्क्षौद्रधातुस्तथापरः ।प्रोक्तं माक्षिकधातुश्च वेदभूर्हेममाक्षिकं ॥१३.८२माक्षिकं मधुरं तिक्तमम्लं कटु कफापहं ।भ्रमहृल्लासमूर्छार्तिश्वासकासविषापहं ॥१३.८३माक्षिकं द्विविधं प्रोक्तं हेमाह्वं तारमाक्षिकं ।भिन्नवर्णविशेषत्वात्रसवीर्यादिकं पृथक् ॥१३.८४तारवादादिके तारमाक्षिकं च प्रशस्यते ।देहे हेमादिकं शस्तं रोगहृद्बलपुष्टिदं ॥१३.८५अञ्जनं यामुनं कृष्णं नादेयं मेचकं तथा ।स्रोतोजं दृक्प्रदं नीलं सौवीरं च सुवीरजं ॥१३.८६तथा नीलाञ्जनं चैव चक्षुष्यं वारिसम्भवं ।कपोतकं च कापोतं सम्प्रोक्तं शरभूमितं ॥१३.८७शीतं नीलाञ्जनं प्रोक्तं कटु तिक्तं कषायकं ।चक्षुष्यं कफवातघ्नं विषघ्नं च रसायनं ॥१३.८८कुलत्था दृक्प्रसादा च चक्षुष्याथ कुलत्थिका ।कुलाली लोचनहिता कुम्भकारी मलापहा ॥१३.८९कुलत्थिका तु चक्षुष्या कषाया कटुका हिमा ।विषविस्फोटकण्डूतिव्रणदोषनिबर्हिणी ॥१३.९०पुष्पाञ्जनं पुष्पकेतुः कौसुम्भं कुसुमाञ्जनं ।रीतिकं रीतिकुसुमं रीतिपुष्पं च पौष्पकं ॥१३.९१पुष्पाञ्जनं हिमं प्रोक्तं पित्तहिक्काप्रदाहनुत् ।नाशयेद्विषकासार्तिं सर्वनेत्रामयापहं ॥१३.९२रसाञ्जनं रसोद्भूतं रसगर्भं रसाग्रजं ।कृतकं बालभैषज्यं दार्वीक्वाथोद्भवं तथा ॥१३.९३रसजातं तार्क्ष्यशैलं ज्ञेयं वर्याञ्जनं तथा ।रसनाभं चाग्निसारं द्वादशाह्वं च कीर्तितं ॥१३.९४रीत्यां तु ध्मायमानायां तत्किट्टं तु रसाञ्जनं ।तदभावे तु कर्तव्यं दार्वीक्वाथसमुद्भवं ॥१३.९५स्रोतोञ्जनं वारिभवं तथान्यं स्रोतोद्भवं स्रोतनदीभवं च ।सौवीरसारं च कपोतसारं वल्मीकशीर्षं मुनिसंमिताह्वं ॥१३.९६स्रोतोञ्जनं शीतकटु कषायं क्रिमिनाशनं ।रसाञ्जनं रसे योग्यं स्तन्यवृद्धिकरं परं ॥१३.९७वल्मीकशिखराकारं भिन्ननीलाञ्जनप्रभं ।घृष्टे च गैरिकावर्णं श्रेष्ठं स्रोतोञ्जनं च तत् ॥१३.९८कम्पिल्लकोऽथ रक्ताङ्गो रेचनो रेचकस्तथा ।रञ्जको लोहिताङ्गश्च कम्पिल्लो रक्तचूर्णकः ॥१३.९९कम्पिल्लको विरेची स्यात्कटूष्णो व्रणनाशनः ।कफकासार्तिहारी च जन्तुक्रिमिहरो लघुः ॥१३.१००तुत्थं नीलाश्मजं नीलं हरिताश्मं च तुत्थकं ।मयूरग्रीवकं चैव ताम्रगर्भामृतोद्भवं ।मयूरतुत्थं सम्प्रोक्तं शिखिकण्ठं दशाह्वयं ॥१३.१०१तुत्थं कटु कषायोष्णं श्वित्रनेत्रामयापहं ।विषदोषेषु सर्वेषु प्रशस्तं वान्तिकारकं ॥१३.१०२द्वितीयं खर्परीतुत्थं खर्परी रसकं तथा ।चक्षुष्यममृतोत्पन्नं तुत्थखर्परिका तु षट् ॥१३.१०३खर्परी कटुका तिक्ता चक्षुष्या च रसायनी ।त्वग्दोषशमनी रुच्या दीप्या पुष्टिविवर्धनी ॥१३.१०४पारदो रसराजश्च रसनाथो महारसः ।रसश्चैव महतेजा रसलोहो रसोत्तमः ॥१३.१०५सूतराट्चपलो जैत्रः शिवबीजं शिवस्तथा ।अमृतं च रसेन्द्रः स्याल्लोकेशो धूर्तरः प्रभुः ॥१३.१०६रुद्रजो हरतेजश्च रसधातुरचिन्त्यजः ।खेचरश्चामरः प्रोक्तो देहदो मृत्युनाशनः ॥१३.१०७स्कन्दः स्कन्दांशकः सूतो देवो दिव्यरसस्तथा ।प्रोक्तो रसायनश्रेष्ठो यशोदस्त्रित्रिधाह्वयः ॥१३.१०८पारदः सकलरोगनाशनः षड्रसो निखिलयोगवाहकः ।पञ्चभूतमय एष कीर्तितो देहलोहपरसिद्धिदायकः ॥१३.१०९मूर्छितो हरते व्याधीन्बद्धः खेचरसिद्धिदः ।सर्वसिद्धिकरो नीलो निरुद्धो देहसिद्धिदः ॥१३.११०विविधव्याधिभयोदयमरणजरासंकटेऽपि मर्त्यानां ।पारं ददाति यस्मात्तस्मादयमेव पारदः कथितः ॥१३.१११अभ्रकमभ्रं भृङ्गं व्योमाम्बरं अन्तरिक्षमाकाशं ।बहुपत्त्रं खमनन्तं गौरीजं गौरिजेयमिति रवयः ॥१३.११२श्वेतं पीतं लोहितं नीलमभ्रं चातुर्विध्यं याति भिन्नक्रियार्हं ।श्वेतं तारे काञ्चने पीतरक्ते नीलं व्याधावग्र्यं अग्र्यं गुणाढ्यं ॥१३.११३नीलाभ्रं दर्दुरो नागः पिनाको वज्र इत्यपि ।चतुर्विधं भवेत्तस्य परीक्षा कथ्यते क्रमात् ॥१३.११४यद्वह्नौ निहितं तनोति नितरां भेकारवं दर्दुरो नागः फूत्कुरुते धनुःस्वनमुपादत्ते पिनाकः किल ।वज्रं नैव विकारमेति तदिमान्यासेवमानः क्रमात्गुल्मी च व्रणवांश्च कुत्सितगदी नीरुक्च संजायते ॥१३.११५मनोजभावभावितौ यदा शिवौ परस्परं ।तदा किलाभ्रपारदौ गुहोद्भवौ बभूवतुः ॥१३.११६स्फटी च स्फटिकी प्रोक्ता श्वेता शुभ्रा च रङ्गदा ।रङ्गदृढा दृढरङ्गा रङ्गाङ्गा वसुसंमिता ॥१३.११७स्फटी च कटुका स्निग्धा कषाया प्रदरापहा ।मेहकृच्छ्रवमीशोषदोषघ्नी दृढरङ्गदा ॥१३.११८क्षुल्लकः क्षुद्रशङ्खः स्यात्शम्बूको नखशङ्खकः ।क्षुल्लकः कटुकस्तिक्तः शूलहारी च दीपनः ॥१३.११९शङ्खो ह्यर्णोभवः कम्बुर्जलजः पावनध्वनिः ।कुटिलोऽन्तर्महानादः कम्बूः पूतः सुनादकः ॥१३.१२०सुस्वरो दीर्घनादश्च बहुनादो हरिप्रियः ।एवं षोडशधा ज्ञेयो धवलो मङ्गलप्रदः ॥१३.१२१शङ्खः कटुरसः शीतः पुष्टिवीर्यबलप्रदः ।गुल्मशूलहरः श्वासनाशनो विषदोषनुत् ॥१३.१२२क्रिमिशङ्खः क्रिमिजलजः क्रिमिवारिरुहश्च जन्तुकम्बुश्च ।कथितो रसवीर्याद्यैः कृतधीभिः शङ्खसदृशोऽयं ॥१३.१२३कपर्दको वराटश्च कपर्दिश्च वराटिका ।चराचरश्चरो वर्यो बालक्रीडरनकश्च सः ॥१३.१२४कपर्दः कटुतिक्तोष्णः कर्णशूलव्रणापहः ।गुल्मशूलामयघ्नश्च नेत्रदोषनिकृन्तनः ॥१३.१२५शुक्तिर्मुक्ताप्रसूश्चैव महाशुक्तिश्च शुक्तिका ।मुक्तास्फोटस्तौतिकं तु मौक्तिकप्रसवा च सा ।ज्ञेया मौक्तिकशुक्तिश्च मुक्तामाताङ्कधा स्मृता ॥१३.१२६मुक्ताशुक्तिः कटुः स्निग्धा श्वासहृद्रोगहारिणी ।शूलप्रशमनी रुच्या मधुरा दीपनी परा ॥१३.१२७जलशुक्तिर्वारिशुक्तिः क्रिमिसूः क्षुद्रशुक्तिका ।शम्बूका जलशुक्तिश्च पुटिका तोयशुक्तिका ॥१३.१२८जलशुक्तिः कटुः स्निग्धा दीपनी गुल्मशूलनुत् ।विषदोषहरा रुच्या पाचनी बलदायिनी ॥१३.१२९खटिनी खटिका चैव खटी धवलमृत्तिका ।सितधातुः श्वेतधातुः पाण्डुमृत्पाण्डुमृत्तिका ॥१३.१३०खटिनी मधुरा तिक्ता शीतला पित्तदाहनुत् ।व्रणदोषकफास्रघ्नी नेत्ररोगनिकृन्तनी ॥१३.१३१दुग्धाश्मा दुग्धपाषाणः क्षीरी गोमेदसंनिभः ।वज्राभो दीप्तिकः सौधो दुग्धी क्षीरयवोऽपि च ॥१३.१३२दुग्धपाषाणको रुच्य ईषदुष्णो ज्वरापहः ।पित्तहृद्रोगशूलघ्नः कासाध्मानविनाशनः ॥१३.१३३कर्पूरनामभिश्चादावन्ते च मणिवाचकः ।कर्पूरमणिनामायं युक्त्या वातादिदोषनुत् ॥१३.१३४सिकता वालुका सिक्ता शीतला सूक्ष्मशर्करा ।प्रवाहोत्था महाश्लक्ष्णा सूक्ष्मा पानीयचूर्णका ॥१३.१३५वालुका मधुरा शीता संतापश्रमनाशिनी ।सेकप्रयोगतश्चैव शाखाशैत्यानिलापहा ॥१३.१३६कङ्कुष्ठं कालकुष्ठं च विरङ्गं रङ्गदायकं ।रेचकं पुलकं चैव शोधकं कालपालकं ॥१३.१३७कङ्कुष्ठं च द्विधा प्रोक्तं तारहेमाभ्रकं तथा ।कटुकं कफवातघ्नं रेचकं व्रणशूलहृत् ॥१३.१३८विमलं निर्मलं स्वच्छममलं स्वच्छधातुकं ।बाणसंख्याभिधं प्रोक्तं तारहेम द्विधा मतं ॥१३.१३९विमलं कटुतिक्तोष्णं त्वग्दोषव्रणनाशनं ।रसवीर्यादिके तुल्यं वेधे स्याद्भिन्नवीर्यकं ॥१३.१४०मूषकस्याभिधा पूर्वं पाषाणस्याभिधा ततः ।आखुपाषाणनामायं लोहसंकरकारकः ॥१३.१४१धनार्थिनो जनाः सर्वे रमन्तेऽस्मिन्नतीव यत् ।ततो रत्नमिति प्रोक्तं शब्दशास्त्रविशारदैः ॥१३.१४२द्रव्यं किंचन लक्ष्मीभोग्यं वसुवस्तुसम्पदो वृद्धिः ।श्रीर्व्यवहार्यं द्रविणं धनमर्थो राः स्वापतेयं च ॥१३.१४३रत्नं वसुमणिरुपलो दृषद्द्रविणदीप्तवीर्याणि ।रौहिणकमब्धिसारं खानिकमाकरजमित्यभिन्नार्थाः ॥१३.१४४माणिक्यं शोणरत्नं च रत्नराड्रविरत्नकं ।शृङ्गारि रङ्गमाणिक्यं तरलो रत्ननायकः ॥१३.१४५रागदृक्पद्मरागश्च रत्नं शोणोपलस्तथा ।सौगन्धिकं लोहितकं कुरुविन्दं शरेन्दुकं ॥१३.१४६माणिक्यं मधुरं स्निग्धं वातपित्तप्रणाशनं ।रत्नप्रयोगप्रज्ञानां रसायनकरं परं ॥१३.१४७स्निग्धं गुरुगात्रयुतं दीप्तं स्वच्छं सुरङ्गं च ।इति जात्यादिमाणिक्यं कल्याणं धारणात्कुरुते ॥१३.१४८द्विछायं अभ्रपिहितं कर्कशशर्करिलं भिन्नधूम्रं च ।रागविकलं विरूपं लघु माणिक्यं न धारयेद्धीमान् ॥१३.१४९तद्रक्तं यदि पद्मरागमथ तत्पीतातिरक्तं द्विधा जानीयात्कुरुविन्दकं यदरुणं स्यादेषु सौगन्धिकं ।तन्नीलं यदि नीलगन्धिकमिति ज्ञेयं चतुर्धा बुधैर्माणिक्यं कषघर्षणेऽप्यविकलं रागेण जात्यं जगुः ॥१३.१५०मुक्ता सौम्या मौक्तिकं मौक्तिकेयं तारं तारा भौतिकं तारका च ।अम्भःसारं शीतलं नीरजं च नक्षत्रं स्यादिन्द्ररत्नं वलक्षं ॥१३.१५१मुक्ताफलं बिन्दुफलं च मुक्तिका शौक्तेयकं शुक्लमणिः शशिप्रियं ।स्वच्छं हिमं हैमवतं सुधांशुभं सुधांशुरत्नं शरनेत्रसंमितं ॥१३.१५२मौक्तिकं च मधुरं सुशीतलं दृष्टिरोगशमनं विषापहं ।राजयक्ष्ममुखरोगनाशनं क्षीणवीर्यबलपुष्टिवर्धनं ॥१३.१५३नक्षत्राभं वृत्तमत्यन्तमुक्तं स्निग्धं स्थूलं निर्मलं निर्व्रणं च ।न्यस्तं धत्ते गौरवं यत्तुलायां तन्निर्मूल्यं मौक्तिकं सौख्यदायि ॥१३.१५४यद्विच्छायं मौक्तिकं व्यङ्गकायं शुक्तिस्पर्शं रक्ततां चापि धत्ते ।मत्स्याक्ष्याभं रूक्षमुत्ताननिम्नं नैतद्धार्यं धीमता दोषदायि ॥१३.१५५मातंगोरगमीनपोत्रिशिरसस्त्वक्सारशङ्खाम्बुभृत्शुक्तीनामुदराच्च मौक्तिकमणिः स्पष्टं भवत्यष्टधा ।छायाः पाटलनीलपीतधवलास्तत्रापि सामान्यतः सप्तानां बहुशो न लब्धिरितरच्छौक्तेयकं तूल्वणं ॥१३.१५६लवणक्षारक्षोदिनि पात्रे गोमूत्रपूरिते क्षिप्तं ।मर्दितमपि शालितुषैर्यदविकृतं तत्तु मौक्तिकं जात्यं ॥१३.१५७प्रवालोऽङ्गारकमणिर्विद्रुमोऽम्भोधिपल्लवः ।भौमरत्नं च रक्ताङ्गो रक्ताङ्कुरो लतामणिः ॥१३.१५८प्रवालो मधुरोऽम्लश्च कफपित्तादिदोषनुत् ।वीर्यकान्तिकरः स्त्रीणां धृतो मङ्गलदायकः ॥१३.१५९शुद्धं दृढघनं वृतं स्निग्धगात्रं सुरङ्गकं ।समं गुरु सिराहीनं प्रवालं धारयेत्शुभं ॥१३.१६०गौररङ्गं जलाक्रान्तं वक्रं सूक्ष्मं सकोटरं ।रूक्षं कृष्णं लघु श्वेतं प्रवालं अशुभं त्यजेत् ॥१३.१६१बालार्ककिरणरक्ता सागरसलिलोद्भवा प्रवाललता ।या न त्यजति निजरुचिं निकषे घृष्टापि सा स्मृता जात्या ॥१३.१६२गारुत्मतं मरकतं रौहीणेयं हरिन्मणिः ।सौपर्णं गरुडोद्गीर्णं बुधरत्नाश्मगर्भजं ।गरलारिर्वायवालं गारुडं रुद्रसंमितं ॥१३.१६३मरकतं विषघ्नं च शीतलं मधुरं रसे ।आमपित्तहरं रुच्यं पुष्टिदं भूतनाशनं ॥१३.१६४स्वच्छं गुरु सुच्छायं स्निग्धं गात्रे च मार्दवसमेतं ।अव्यङ्गं बहुरङ्गं शृङ्गारि मरकतं शुभं बिभृयात् ॥१३.१६५शर्करिलकलिलरूक्षं मलिनं लघु हीनकान्ति कल्माषं ।त्रासयुतं विकृताङ्गं मरकतममरोऽपि नोपभुञ्जीत ॥१३.१६६यत्शैवालशिखण्डिशाद्वलहरित्काचैश्च चाषच्छदैः खद्योतेन च बालकीरवपुषा शैरीषपुष्पेण च ।छायाभिः समतां दधाति तदिदं निर्दिष्टमष्टात्मकं जात्यं यत्तपनातपैश्च परितो गारुत्मतं रञ्जयेत् ॥१३.१६७पीतस्तु पुष्परागः पीतस्फटिकश्च पीतरक्तश्च ।पीताश्मा गुरुरत्नं पीतमणिः पुष्परागश्च ॥१३.१६८पुष्परागोऽम्लशीतश्च वातजिद्दीपनः परः ।आयुः श्रियं च प्रज्ञां च धारणात्कुरुते नृणां ॥१३.१६९सच्छायपीतगुरुगात्रसुरङ्गशुद्धं स्निग्धं च निर्मलमतीव सुवृत्तशीतं ।यः पुष्परागं अमलं कलयेदमुष्य पुष्णाति कीर्तिं अतिशौर्यसुखायुरर्थान् ॥१३.१७०कृष्णबिन्द्वङ्कितं रूक्षं धवलं मलिनं लघु ।विच्छायं शर्कराङ्गाभं पुष्परागं सदोषकं ॥१३.१७१घृष्टं निकाषपट्टे यत्पुष्यति रागमधिकमात्मीयं ।तेन खलु पुष्परागो जात्यतयायं परीक्षकैरुक्तः ॥१३.१७२वज्रमिन्द्रायुधं हीरं भिदुरं कुलिशं पविः ।अभेद्यमशिरं रत्नं दृढं भार्गवकं स्मृतं ।षट्कोणं बहुधारं च शतकोट्यब्धिभूमितं ॥१३.१७३वज्रं च षड्रसोपेतं सर्वरोगापहारकं ।सर्वाघशमनं सौख्यं देहदार्ढ्यं रसायनं ॥१३.१७४भस्माङ्गं काकपादं च रेखाक्रान्तं तु वर्तुलं ।अधारं मलिनं बिन्दुसंत्रासं स्फुटितं तथा ।नीलाभं चिपिटं रूक्षं तद्वज्रं दोषदं त्यजेत् ॥१३.१७५श्वेतालोहितपीतकमेचकतया छायाश्चतस्रः क्रमात्विप्रादित्वं इहास्य यत्सुमनसः शंसन्ति सत्यं ततः ।स्फीतां कीर्तिं अनुत्तमां श्रियमिदं धत्ते यथास्वं धृतं मर्त्यानां अयथायथं तु कुलिशं पथ्यं हि नान्यत्ततः ॥१३.१७६यत्पाषाणतले निकाषनिकरे नोद्घृष्यते निष्ठुरैर्यच्चोलूखललोहमुद्गरघनैर्लेखां न यात्याहतं ।यच्चान्यन्निजलीलयैव दलयेद्वज्रेण वा भिद्यते तज्जात्यं कुलिशं वदन्ति कुशलाः श्लाघ्यं महार्घ्यं च तत् ॥१३.१७७विप्रः सोऽपि रसायनेषु बलवानष्टाङ्गसिद्धिप्रदो राजन्यस्तु नृणां वलीपलितजित्मृत्युं जयेदञ्जसा ।द्रव्याकर्षणसिद्धिदस्तु सुतरां वैश्वोऽथ शूद्रो भवेत्सर्वव्याधिहरस्तदेष कथितो वज्रस्य वर्ण्यो गुणः ॥१३.१७८नीलस्तु सौरिरत्नं स्यान्नीलाश्मा नीलरत्नकः ।नीलोपलस्तृणग्राही महानीलः सुनीलकः ।मसारं इन्द्रनीलं स्याद्गल्लर्कः पद्मरागजः ॥१३.१७९नीलः सतिक्तकोष्णश्च कफपित्तानिलापहः ।यो दधाति शरीरे स्यात्सौरिर्मङ्गलदो भवेत् ॥१३.१८०न निम्नो निर्मलो गात्रमसृणो गुरुदीप्तिकः ।तृणग्राही मृदुर्नीलो दुर्लभो लक्षणान्वितः ॥१३.१८१मृच्छर्कराश्मकलिलो विच्छायो मलिनो लघुः ।रूक्षः स्फुटितगर्तश्च वर्ज्यो नीलः सदोषकः ॥१३.१८२सितशोणपीतकृष्णाश्छाया नीले क्रमादिमाः कथिताः ।विप्रादिवर्णसिद्ध्यै धारणमस्यापि वज्रवत्फलवत् ॥१३.१८३आस्त्यानं चन्द्रिकास्यन्दं सुन्दरं क्षीरपूरितं ।यः पात्रं रञ्जयत्याशु स जात्यो नील उच्यते ॥१३.१८४गोमेदकस्तु गोमेदो राहुरत्नं तमोमणिः ।स्वर्भानवः षडाह्वोऽयं पिङ्गस्फटिक इत्यपि ॥१३.१८५गोमेदकोऽम्ल उष्णश्च वातकोपविकारजित् ।दीपनः पाचनश्चैव धृतोऽयं पापनाशनः ॥१३.१८६गोमूत्राभं यन्मृदु स्निग्धमुग्धं शुद्धच्छायं गौरवं यच्च धत्ते ।हेमारक्तं श्रीमतां योग्यमेतत्गोमेदाख्यं रत्नं आख्यान्ति सन्तः ॥१३.१८७पात्रे यत्र न्यस्ते पयः प्रयात्येव गोजलोज्ज्वलतां ।घर्षेऽप्यहीनकान्तिं गोमेदं तं बुधा विदुर्जात्यं ॥१३.१८८अरङ्गं श्वेतकृष्णाङ्गं रेखात्रासयुतं लघु ।विच्छायं शर्करागारं गोमेदं विबुधस्त्यजेत् ॥१३.१८९वैडूर्यं केतुरत्नं च कैतवं बालवीयजं ।प्रावृष्यं अभ्रलोहं च खशब्दाङ्कुरकस्तथा ।वैडूर्यरत्नं सम्प्रोक्तं ज्ञेयं विदूरजं तथा ॥१३.१९०वैडूर्यं उष्णं अम्लं च कफमारुतनाशनं ।गुल्मादिदोषशमनं भूषितं च शुभावहं ॥१३.१९१एकं वेणुपलाशपेशलरुचा मायूरकण्ठत्विषा मार्जारेक्षणपिङ्गलच्छविजुषा ज्ञेयं त्रिधा छायया ।यद्गात्रे गुरुतां दधाति नितरां स्निग्धं तु दोषोज्झितं वैडूर्यं विमलं वदन्ति सुधियः स्वच्छं च तच्छोभनं ॥१३.१९२विच्छायं मृच्छिलागर्भे लघु रूक्षं च सक्षतं ।सत्रासं परुषं कृष्णं वैडूर्यं दूरतस्त्यजेत् ॥१३.१९३घृष्टं यदात्मना स्वच्छं स्वछायां निकषाश्मनि ।स्फुटं प्रदर्शयेदेतद्वैडूर्यं जात्यमुच्यते ॥१३.१९४माणिक्यं पद्मबन्धोरतिविमलतमं मौक्तिकं शीतभानोर्माहेयस्य प्रवालं मरकतमतुलं कल्पयेदिन्दुसूनोः ।देवेज्ये पुष्परागं कुलिशमपि कवेर्नीलं अर्कात्मजस्य स्वर्भानोश्चापि गोमेदकं अथ विदुरोद्भावितं किंतु केतोः ॥१३.१९५इत्थं एतानि रत्नानि तत्तदुद्देशतः क्रमात् ।यो दद्याद्बिभृयाद्वापि तस्मिन्सानुग्रहा ग्रहाः ॥१३.१९६संत्यज्य वज्रं एकं सर्वत्रान्यत्र संघाते ।लाघवमथ कोमलता साधारणदोष एव विज्ञेयः ॥१३.१९७लोहितकवज्रमौक्तिकमरकतनीला महोपलाः पञ्च ।वैडूर्यपुष्परागप्रवालगोमेदकादयोऽर्वाञ्चः ॥१३.१९८गोमेदप्रवालवायव्यं देवेज्यमणीन्द्रतरणिकान्ताद्याः ।नानावर्णगुणाढ्या विज्ञेयाः स्फटिकजातयः प्राज्ञैः ॥१३.१९९स्फटिकः सितोपलः स्यादमलमणिर्निर्मलोपलः स्वच्छः ।स्वच्छमणिरमलरत्नं निस्तुषरत्नं शिवप्रियं नवधा ॥१३.२००स्फटिकः समवीर्यश्च पित्तदाहार्तिदोषनुत् ।तस्याक्षमाला जपतां दत्ते कोटिगुणं फलं ॥१३.२०१यद्गङ्गातोयबिन्दुछविविमलतमं निस्तुषं नेत्रहृद्यं स्निग्धं शुद्धान्तरालं मधुरं अतिहिमं पित्तदाहास्रहारि ।पाषाणैर्यन्निघृष्टं स्फुटितं अपि निजां स्वच्छतां नैव जह्यात्तज्जात्यं जात्वलभ्यं शुभं उपचिनुते शैवरत्नं विचित्रं ॥१३.२०२अथ भवति सूर्यकान्तस्तपनमणिस्तपनश्च रविकान्तः ।दीप्तोपलोऽग्निगर्भो ज्वलनाश्माऽर्कोपलश्च वसुनामा ॥१३.२०३सूर्यकान्तो भवेदुष्णो निर्मलश्च रसायनः ।वातश्लेष्महरो मेध्यः पूजनाद्रवितुष्टिदः ॥१३.२०४शुद्धः स्निग्धो निर्व्रणो निस्तुषोऽन्तर्यो निर्मृष्टो व्योम्नि नैर्मल्यं एति ।यः सूर्यांशुस्पर्शनिष्ठ्यूतवह्निर्जात्यः सोऽयं जायते सूर्यकान्तः ॥१३.२०५वैक्रान्तं चैव विक्रान्तं नीचवज्रं कुवज्रकं ।गोनासः क्षुद्रकुलिशं चूर्णवज्रं च गोनसः ॥१३.२०६वज्राभावे च वैक्रान्तं रसवीर्यादिके समं ।क्षयकुष्ठविषघ्नं च पुष्टिदं सुरसायनं ॥१३.२०७वज्राकारतयैव प्रसह्य हरणाय सर्वरोगाणां ।यद्विक्रान्तिं धत्ते तद्वैक्रान्तं बुधैरिदं कथितं ॥१३.२०८इन्द्रकान्तश्चन्द्रकान्तश्चन्द्राश्मा चन्द्रजोपलः ।शीताश्मा चन्द्रिकाद्रावः शशिकान्तश्च सप्तधा ॥१३.२०९चन्द्रकान्तस्तु शिशिरः स्निग्धः पित्तास्रतापहृत् ।शिवप्रीतिकरः स्वच्छो ग्रहालक्ष्मीविनाशकृत् ॥१३.२१०स्निग्धं श्वेतं पीतमात्रासमेतं धत्ते चित्ते स्वच्छतां यन्मुनीनां ।यच्च स्रावं याति चन्द्रांशुसङ्गाज्जात्यं रत्नं चन्द्रकान्ताख्यमेतत् ॥१३.२११राजावर्तो नृपावर्तो राजन्यावर्तकस्तथा ।आवर्तमणिरावर्तः स्यादित्येषः शराह्वयः ॥१३.२१२राजावर्तः कटुः स्निग्धः शिशिरः पित्तनाशनः ।सौभाग्यं कुरुते नॄणां भूषणेषु प्रयोजितः ॥१३.२१३निर्गारं असितमसृणं नीलं गुरु निर्मलं बहुछायं ।शिखिकण्ठसमं सौम्यं राजावर्तं वदन्ति जात्यमणिं ॥१३.२१४पेरोजं हरिताश्मं च भस्माङ्गं हरितं द्विधा ।पेरोजं सुकषायं स्यान्मधुरं दीपनं परं ॥१३.२१५स्थावरं जङ्गमं चैव संयोगाच्च यथा विषं ।तत्सर्वं नाशयेत्शीघ्रं शूलं भूतादिदोषजं ॥१३.२१६सिद्धाः पारदं अभ्रकं च विविधान्धातूंश्च लोहानि च प्राहुः किंच मणीनपीह सकलान्संस्कारतः सिद्धिदान् ।यत्संस्कारविहीनं एषु हि भवेद्यच्चान्यथा संस्कृतं तन्मर्त्यं विषवन्निहन्ति तदिह ज्ञेया बुधैः संस्क्रियाः ॥१३.२१७यान्संस्कृतान्शुभगुणानथ चान्यथा चेद्दोषांश्च यानपि दिशन्ति रसादयोऽमी ।याश्चेह सन्ति खलु संस्कृतयस्तदेतन्नात्राभ्यधायि बहुविस्तरभीतिभाग्भिः ॥१३.२१८इति लोहधातुरसरत्नतद्भिदाद्यभिधागुणप्रकटनस्फुटाक्षरं ।अवधार्य वर्गं इमं आद्यवैद्यकप्रगुणप्रयोगकुशलो भवेद्बुधः ॥१३.२१९कुर्वन्ति ये निजगुणेन रसाध्वगेन नॄणां जरन्त्यपि वपूंषि पुनर्नवानि ।तेषामयं निवसतिः कनकादिकानां वर्गः प्रसिध्यति रसायनवर्गनाम्ना ॥१३.२२०नित्यं यस्य गुणाः किलान्तरलसत्कल्याणभूयस्तथा चित्ताकर्षणचञ्चवस्त्रिभुवनं भूम्ना परिकुर्वते ।तेनात्रैष कृते नृसिंहकृतिना नामादिचूडामणौ संस्थामेति मितस्त्रयोदशतया वर्गः सुवर्णादिकः ॥१३.२२१ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP