संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु| आनूपादिवर्ग राजनिघण्टु मङ्गलाचरण प्रस्तावना आनूपादिवर्ग धरण्यादिवर्ग ङुडूच्यादिवर्ग पर्पटादिवर्ग पिप्पल्यादिवर्ग शताह्वादिवर्ग ऊलकादिवर्ग शाल्मल्यादिवर्ग प्रभद्रादिवर्ग करवीरादिवर्ग आम्रादिवर्ग अन्दनादिवर्ग उवर्णादिवर्ग पानीयादिवर्ग क्षीरादिवर्ग शाल्यादिवर्ग आंसादिवर्ग अनुष्यादिवर्गः इंहादिवर्ग ऱोगादिवर्ग अत्त्वादिवर्ग इश्रकादिवर्ग कार्थादिवर्ग १ कार्थादिवर्ग २ कार्थादिवर्ग ३ कार्थादिवर्ग ४ कार्थादिवर्ग ५ कार्थादिवर्ग ६ कार्थादिवर्ग ७ कार्थादिवर्ग ८ कार्थादिवर्ग ९ कार्थादिवर्ग १० कार्थादिवर्ग ११ राजनिघण्टु - आनूपादिवर्ग नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड. Tags : narahar panditrajanighantuvedआयुर्वेदनरहरि पन्डितराजनिघण्टुसंस्कृत आनूपादिवर्ग Translation - भाषांतर नानाक्षौणीजनानाजलमृगसहितं निर्झरव्रातशीतं शैलाकीर्णं कनीयः कुररमुखखगालङ्कृतं ताम्रभूमि ।बिभ्रद्व्रीह्यादिकं यत्स्थलं अतिविपुलं नीरसं यत्त्वनुष्णं पित्तघ्नं श्लेष्मवातप्रदं उदररुजापामदं स्यादनूपं ॥१.१तच्चोक्तकृत्स्ननिजलक्षणधारिभूरिच्छायावृतान्तरवहद्बहुवारिमुख्यं ।ईषत्प्रकाशसलिलं यदि मध्यमं ततेतच्च नातिबहलाम्बु भवेत्कनीयः ॥१.२यत्रानूपविपर्ययस्तनुतृणास्तीर्णा धरा धूसरा मुद्गव्रीहियवादिधान्यफलदा तीव्रोष्मवत्युत्तमा ।प्रायः पित्तविवृद्धिरुद्धतबलाः स्युर्नीरजः प्राणिनो गावोऽजाश्च पयः क्षरन्ति बहु तत्कूपे जलं जाङ्गलं ॥१.३एतच्च मुख्यं उदितं स्वगुणैः समग्रं अल्पाल्पभूरुहयुतं यदि मध्यमं तत् ।तच्चापि कूपखनने सुलभाम्बु यत्तज्ज्ञेयं कनीय इति जाङ्गलकं त्रिरूपं ॥१.४लक्ष्मोन्मीलति यत्र किंचिदुभयोस्तज्जाङ्गलानूपयोर्गोधूमोल्वणयावनालविलसन्माषादिधान्योद्भवः ।नानावर्णं अशेषजन्तुसुखदं देशं बुधा मध्यमं दोषोद्भूतिविकोपशान्तिसहितं साधारणं तं विदुः ॥१.५तच्च साधारणं द्वेधानूपजाङ्गलयोः परं ।यत्र यत्र गुणाधिक्यं तत्र तस्य गुणं भजेत् ॥१.६मुख्यं तद्देशवैषम्यान्नास्ति साधारणं क्वचित् ।सूक्ष्मत्वाल्लक्ष्म तत्त्वस्य तद्विधैर्वेदं इष्यते ॥१.७क्षेत्रभेदं प्रवक्ष्यामि शिवेनाख्यातं अञ्जसा ।ब्राह्मं क्षात्रं च वैश्यीयं शौद्रं चेति यथाक्रमात् ॥१.८तत्र क्षेत्रे ब्रह्मभूमीरुहाढ्यं वारिस्फारं यत्कुशाङ्कूरकीर्णं ।रम्यं यच्च श्वेतमृत्स्नासमेतं तद्व्याचष्टे ब्राह्मं इत्यष्टमूर्तिः ॥१.९ताम्रभूमिवलयं विभूधरं यन्मृगेन्द्रमुखसंकुलं कुलं ।घोरघोषि खदिरादिदुर्गमं क्षात्रं एतदुदितं पिनाकिना ॥१.१०शातकुम्भनिभभूमिभास्वरं स्वर्णरेणुनिचितं विधानवत् ।सिद्धकिंनरसुपर्वसेवितं वैश्यं आख्यदिदं इन्दुशेखरः ॥१.११श्यामस्थलाढ्यं बहुशस्यभूतिदं लसत्तृणैर्बब्बुलवृक्षवृद्धिदं ।धान्योद्भवैः कर्षकलोकहर्षदं जगाद शौद्रं जगतौ वृषध्वजः ॥१.१२द्रव्यं क्षेत्रादुदितं अनघं ब्राह्म तत्सिद्धिदायि क्षत्रादुत्थं वलिपलितजिद्विश्वरोगापहारि ।वैश्याज्जातं प्रभवतितरां धातुलोहादिसिद्धौ शौद्रादेतज्जनितं अखिलव्याधिविद्रावकं द्राक् ॥१.१३ब्रह्मा शक्रः किंनरेशस्तथा भूरित्येतेषां देवताः स्युः क्रमेण ।प्रोक्तास्तत्र प्रागुमावल्लभेन प्रत्येकं ते पञ्च भूतानि वक्ष्ये ॥१.१४पीतस्फुरद्वलयशर्करिलाश्मरम्यं पीतं यदुत्तममृगं चतुरस्रभूतं ।प्रायश्च पीतकुसुमान्वितवीरुदादि तत्पार्थिवं कठिनं उद्यदशेषतस्तु ॥१.१५अर्धचन्द्राकृतिश्वेतं कमलाभं दृषच्चितं ।नदीनदजलाकीर्णं आप्यं तत्क्षेत्रं उच्यते ॥१.१६खदिरादिद्रुमाकीर्णं भूरिचित्रकवेणुकं ।त्रिकोणं रक्तपाषाणं क्षेत्रं तैजसं उत्तमं ॥१.१७धूम्रस्थलं धूम्रदृषत्परीतं षट्कोणकं तूर्णमृगावकीर्णं ।शाकैस्तृणैरञ्चितरूक्षवृक्षकं प्रकारं एतत्खलु वायवीयं ॥१.१८नानावर्णं वर्तुलं तत्प्रशस्तं प्रायः शुभ्रं पर्वताकीर्णं उच्चैः ।यच्च स्थानं पावनं देवतानां प्राह क्षेत्रं त्रीक्षणस्त्वान्तरिक्षं ॥१.१९द्रव्यं व्याधिहरं बलातिशयकृत्स्वादु स्थिरं पार्थिवं स्यादाप्यं कटुकं कषायं अखिलं शीतं च पित्तापहं ।यत्तिक्तं लवणं च दीप्यमरुजिच्चोष्णं च तत्तैजसं वायव्यं तु हिमोष्णं अम्लं अबलं स्यान्नाभसं नीरसं ॥१.२०ब्रह्मा विष्णुश्च रुद्रोऽस्मादीश्वरोऽथ सदाशिवः ।इत्येताः कमतः पञ्च क्षेत्रभूताधिदेवताः ॥१.२१जित्वा जवादजरसैन्यं इहाजहार वीरः पुरा युधि सुधाकलशं गरुत्मान् ।कीर्णैस्तदा भुवि सुधाशकलैः किलासीद्वृक्षादिकं सकलं अस्य सुधांशुरीशः ॥१.२२तत्रोत्पन्नास्तूत्तमे क्षेत्रभागे विप्रीयादौ विप्रुषो यत्र यत्र ।क्षौणीजादिद्रव्यभूयं प्रपन्नास्तास्ताः संज्ञा बिभ्रते तत्र भूयः ॥१.२३एवं क्षेत्रानुगुण्येन तज्जा विप्रादिवर्णिनः ।यदि वा लक्षणं वक्ष्याम्यमोहाय मनीषिणां ॥१.२४किसलयकुसुमे प्रकाण्डशाखादिषु विशदेषु वदन्ति विप्रं एतान् ।नरपतिमतिलोहितेषु वैश्यं कनकनिभेषु सितेतरेषु शूद्रं ॥१.२५विप्रादिजातिसम्भूतान्विप्रादिष्वेव योजयेत् ।गुणाढ्यानपि वृक्षादीन्प्रातिलोम्यं न चाचरेत् ॥१.२६विप्रो विप्राद्येषु वर्णेषु राजा राजन्यादौ वैश्यमुख्येषु वैश्यः ।शूद्रः शूद्राद्येषु शस्तं गुणाढ्यं द्रव्यं नैव प्रातिलोम्येन किंचित् ॥१.२७द्रव्यं यदङ्कूरजं आहुरार्यास्तत्ते पुनः पञ्चविधं वदन्ति ।वनस्पतिश्चापि स एव वानस्पत्यः क्षुपो वीरुदथौषधीश्च ॥१.२८ज्ञेयः सोऽत्र वनस्पतिः फलति यः पुष्पैर्विना तैः फलं वानस्पत्य इति स्मृतस्तनुरसौ ह्रस्वः क्षुपः कथ्यते ।या वेल्लत्यगमादिसंश्रयवशादेषा तु वल्ली मता शाल्यादिः पुनरोषधिः फलपरीपाकावसानान्विता ॥१.२९स्त्रीपुंनपुंसकत्वेन त्रैविध्यं स्थावरेष्वपि ।शृणु वक्ष्यामि तल्लक्ष्म व्यक्तं अत्र यथाक्रमं ॥१.३०इक्षुवेणुतरुवीरुदादयः स्कन्धकाण्डफलपुष्पपल्लवैः ।स्निग्धदीर्घतनुतामनोरमास्ताः स्त्रियः खलु मता विपश्चितां ॥१.३१यत्र पुष्पप्रवालादि नातिदीर्घं न चाल्पकं ।स्थूलं परुषं इत्येष पुमानुक्तो मनीषिभिः ॥१.३२स्त्रीपुंसयोर्यत्र विभाति लक्ष्म द्वयोरपि स्कन्धफलादिकेषु ।संदेहदं नैकतरावधारि नपुंसकं तद्विबुधा वदन्ति ॥१.३३द्रव्यं पुमान्स्यादखिलस्य जन्तोरारोग्यदं तद्बलवर्धनं च ।स्त्री दुर्बला स्वल्पगुणा गुणाढ्या स्त्रीष्वेव न क्वापि नपुंसकः स्यात् ॥१.३४यदि स्त्रियः स्त्रीषु कृता गुणाढ्याः क्लीबानि तु क्लीबशरीरभाजां ।सदा च सर्वत्र पुमान्प्रयुक्तौ गुणावहश्चेति च केचिदाहुः ॥१.३५क्षुत्पिपासा च निद्रा च वृक्षादिष्वपि लक्ष्यते ।मृज्जलादानतस्त्वाद्ये पर्णसंकोचितान्तिमा ॥१.३६यत्काठिन्ये सा क्षितिर्योद्भवोऽम्भस्तेजस्तूष्मा वर्धते यत्स वातः ।यद्यच्छिद्रं तन्नभः स्थावराणां इत्येतेषां पञ्चभूतात्मकत्वं ॥१.३७इत्थं देशगुणस्वरूपकथनप्रक्रान्तकान्तारजक्षेत्रद्रव्यगुणान्वयक्रमं इमं वर्गं पठित्वा नरः ।प्राप्नोत्याशु भिषक्प्रयोगविषयप्रावीण्यपारीणताहंकुर्वाणसुपर्वसंसदगदङ्कारक्रियाकौशलं ॥१.३८असूत सुतं ईश्वरः श्रुतयशा यं अष्टादशप्रभेदविधवाङ्मयाम्बुनिधिपारपारीणधीः ।अमुष्य नृहरीशितुः कृतिवरस्य वर्गः कृतावसावगमदादिमः सदभिधानचूडामणौ ॥१.३९ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP