संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु| आंसादिवर्ग राजनिघण्टु मङ्गलाचरण प्रस्तावना आनूपादिवर्ग धरण्यादिवर्ग ङुडूच्यादिवर्ग पर्पटादिवर्ग पिप्पल्यादिवर्ग शताह्वादिवर्ग ऊलकादिवर्ग शाल्मल्यादिवर्ग प्रभद्रादिवर्ग करवीरादिवर्ग आम्रादिवर्ग अन्दनादिवर्ग उवर्णादिवर्ग पानीयादिवर्ग क्षीरादिवर्ग शाल्यादिवर्ग आंसादिवर्ग अनुष्यादिवर्गः इंहादिवर्ग ऱोगादिवर्ग अत्त्वादिवर्ग इश्रकादिवर्ग कार्थादिवर्ग १ कार्थादिवर्ग २ कार्थादिवर्ग ३ कार्थादिवर्ग ४ कार्थादिवर्ग ५ कार्थादिवर्ग ६ कार्थादिवर्ग ७ कार्थादिवर्ग ८ कार्थादिवर्ग ९ कार्थादिवर्ग १० कार्थादिवर्ग ११ राजनिघण्टु - आंसादिवर्ग नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड. Tags : narahar panditrajanighantuvedआयुर्वेदनरहरि पन्डितराजनिघण्टुसंस्कृत आंसादिवर्ग Translation - भाषांतर मांसं तु पिशितं क्रव्यं पलं तु रस्यमस्रजं ।पललं जाङ्गलं कीरं आमिषं च तदुच्यते ॥१७.१सद्योहतस्य मांसं श्रेष्ठं हरिणादिकस्य यूनस्तु ।ज्ञेयं सुगन्धि पथ्यं जाङ्गलदेशस्थितस्य पथ्यतमं ॥१७.२बालस्य वृद्धस्य कृशस्य रोगिणो विषाग्निदग्धस्य मृतस्य चाम्बुषु ।त्याज्यं मृगादेः पिशितं तु तस्य विगन्धि शुष्कं च चिरस्थितं च ॥१७.३सर्वं मांसं वातविध्वंसि वृष्यं बल्यं रुच्यं बृंहणं तच्च मांसं ।देशस्थानाच्चात्मसंस्थं स्वभावैर्भूयो नानारूपतां याति नूनं ॥१७.४तत्रानूपीयमांसं गवयरुरुमृगक्रोडगण्डादिकानां स्निग्धं पथ्यं च बल्यं लघु शशशिखराद्युद्भवं जाङ्गलीयं ।पुष्टिं दीप्तिं च दत्ते रुचिकृदथ लघु स्वादु साधारणीयं वृष्यं बल्यं च रुच्यं रुरुहरिणमृगक्रोडसारङ्गकाणां ॥१७.५मांसं सारसहंसरात्रिविरहिक्रौञ्चादिजं शीतलं स्निग्धं वातकफापहं गुरु ततः स्वादु त्रिदोषापहं ।पथ्यं लावकतित्तिरादिजनितं वृष्यं लघु स्यात्परं चक्रक्रौञ्चमयूरतित्तिरभवं देशत्रयादीदृशं ॥१७.६द्रुतो विलम्बितश्चैव प्लवश्चेति गतैस्त्रयः ।स्थानतोऽपि त्रयस्ते तु बिलस्थलजलाश्रयाः ॥१७.७पुनस्ते तु प्रसहनाः प्रतुदा विष्किरा इति ।स्वभावतस्त्रयः प्रोक्ताः क्रमशो मृगपक्षिणः ॥१७.८अथैषां क्रमशो लक्ष्मगुणान्वक्ष्यामि वर्गशः ।एवं नवविधाः प्रोक्तास्त एव मृगपक्षिणः ॥१७.९अजशशहरिणादयः स्वयं ये द्रुतगमना द्रुतसंज्ञकाः स्मृतास्ते ।तदुदितपललं च पथ्यबल्यं रचयति वीर्यमदप्रदं लघु स्यात् ॥१७.१०गजखड्गमुखा महामृगा निजगत्यैव विलम्बिताः स्मृतास्ते ।बलकृत्पिशितं च पिच्छलं कफकासानिलमान्द्यदं गुरु स्यात् ॥१७.११सारसहंसबलाकाश्चक्रक्रौञ्चादयो जले प्लवनात् ।प्लवसंज्ञाः कथितास्ते तन्मांसं गुरूष्णं च बलदायि ॥१७.१२अहिनकुलशल्यगोधामूषकमुख्या बिलेशयाः कथिताः ।श्वासानिलकासहरं तन्मांसं पित्तदाहकरं ॥१७.१३क्रोडरुरुकुरङ्गाद्या विविधा ये मृगादयः ।स्थलेशयास्तु ते सर्वे मांसं सर्वगुणावहं ॥१७.१४झषमकरनक्रकर्कटकूर्मप्रमुखा जलेशयाः कथिताः ।मांसं तेषां तु सरं वृष्यं गुरु शिशिरबलसमीरकरं ॥१७.१५शार्दूलसिंहशरभर्क्षतरक्षुमुख्या येऽन्ये प्रसह्य विनिहन्त्यभिवर्तयन्ति ।ते कीर्तिताः प्रसहनाः पललं तदीयं अर्शःप्रमेहजठरामयजाड्यहारि ॥१७.१६भोक्ता निष्कृष्यामिषं स प्रतुदः प्रोक्तो गृध्रश्येनकाकादिको यः ।मांसं तस्य स्वादु संतर्पणं च स्निग्धं बल्यं पित्तदाहास्रदायि ॥१७.१७भक्ष्याश्च कुक्कुटकपोतकतित्तिराद्याः क्षौणीं विलिख्य नखरैः खलु वर्तयन्ति ।ते विष्किराः प्रकथिताः पिशितं तदीयं वृष्यं कषायमधुरं शिशिरं च रुच्यं ॥१७.१८अयमेव गुणो ज्ञेयः पक्षिणां च यथाक्रमं ।सर्वस्थानविशेषेण संख्या च गतिरुच्यते ॥१७.१९यत्र स्थिता ये गतितोऽपि देशादन्यत्र याता मृगपक्षिमुख्याः ।स्वस्वोचितस्थाननिवर्तनेन मांसेऽपि तेषां गुणपर्ययाः स्युः ॥१७.२०मांसं खड्गमृगोत्थं तु बलकृद्बृंहणं गुरु ॥१७.२१गवयस्यामिषं बल्यं रुच्यं वृष्यं च बृंहणं ॥१७.२२रुरुक्रव्यं गुरु स्निग्धं मन्दवह्निबलप्रदं ॥१७.२३अपूतं गोभवं क्रव्यं गुरु वातकफप्रदं ॥१७.२४वनमहिषामिषं स्यादीषल्लघु दीपनं च बलदायि ॥१७.२५ग्रामीणमहिषमांसं स्निग्धं निद्राकरं च पित्तहरं ॥१७.२६हस्तिक्रव्यं गुरु स्निग्धं वातलं श्लेष्मकारकं ।बहुपुष्टिप्रदं चैव दुर्जरं मन्दवह्निदं ॥१७.२७अश्वमांसं भवेदुष्णं वातघ्नं बलदं लघु ।पित्तदाहप्रदं नृणां तदेतच्चातिसेवनात् ॥१७.२८उष्ट्रमांसं तु शिशिरं त्रिदोषशमनं लघु ।बलपुष्टिप्रदं रुच्यं मधुरं वीर्यवर्धनं ॥१७.२९गर्दभप्रभवं मांसं किंचिद्गुरु बलप्रदं ।रुच्यं तु वन्यजं शैत्यं बहुवीर्यबलप्रदं ॥१७.३०एणस्य मांसं लघुशीतवृष्यं त्रिदोषहृत्षड्रसजं च रुच्यं ॥१७.३१कुरङ्गमांसं मधुरं च तद्वत्कफापहं मांसदपित्तनाशि ॥१७.३२सारङ्गं जाङ्गलं स्निग्धं मधुरं लघु वृष्यकं ॥१७.३३शिखरीसम्भवं मांसं लघु हृद्यं बलप्रदं ॥१७.३४वराहमांसं गुरु वातहारि वृष्यं बलस्वेदकरं वनोत्थं ॥१७.३५तस्माद्गुरु ग्रामवराहमांसं तनोति मेदो बलवीर्यवृद्धिं ॥१७.३६शरशृङ्गस्य मांसं तु गुरु स्निग्धं कफप्रदं ।बल्यं वृष्यकरं पुष्टिकिंचिद्वातकरं परं ॥१७.३७छागमांसं लघु स्निग्धं नातिशीतं रुचिप्रदं ।निर्दोषं वातपित्तघ्नं मधुरं बलपुष्टिदं ॥१७.३८छागपोतभवं मांसं लघु शीतं प्रमेहजित् ।ईषल्लघु बलं दत्ते तदेव तृणचारिणः ॥१७.३९औरभ्रं मधुरं शीतं गुरु विष्टम्भि बृंहणं ॥१७.४०आविकं मधुरं मांसं किंचिद्गुरु बलप्रदं ॥१७.४१शल्यमांसं गुरु स्निग्धं दीपनं श्वासकासजित् ॥१७.४२पिच्छिलं नाकुलं मांसं वातघ्नं श्लेष्मपित्तकृत् ॥१७.४३गोधामांसं तु वातघ्नं श्वासकासहरं च तत् ॥१७.४४शशमांसं त्रिदोषघ्नं दीपनं श्वासकासजित् ॥१७.४५अन्ये बिलेशया ये स्युः कोकडोन्दुरुकादयः ।मांसं च गर्हितं तेषां मान्द्यं गौरवदुर्जरं ॥१७.४६आरण्यकुक्कुटक्रव्यं हृद्यं श्लेष्महरं लघु ॥१७.४७ग्राम्यकुक्कुटजं स्निग्धं वातहृद्दीपनं गुरु ॥१७.४८हारीतपललं स्वादु कफपित्तास्रदोषजित् ॥१७.४९वर्धनं वीर्यबलयोस्तद्वदेव कपोतजं ॥१७.५०पारावतपलं स्निग्धं मधुरं गुरु शीतलं ।पित्तास्रदाहनुद्बल्यं तथान्यद्वीर्यवृद्धिदं ॥१७.५१स्निग्धं तित्तिरिजं मांसं लघु वीर्यबलप्रदं ।कषायं मधुरं शीतं त्रिदोषशमनं परं ॥१७.५२तद्वच्च लावकं मांसं पथ्यं ग्राहि लघु स्मृतं ॥१७.५३तद्वच्च वर्तकमांसं निर्दोषं वीर्यपुष्टिदं ॥१७.५४चटकायाः पलं शीतं लघु वृष्यं बलप्रदं ॥१७.५५तद्वच्चारण्यचटकक्रव्यं लघु च पथ्यदं ॥१७.५६चटकाच्छीतलं रुच्यं वृष्यं कापिञ्जलामिषं ॥१७.५७तद्वच्चकोरजं मांसं वृष्यं च बलपुष्टिदं ॥१७.५८क्रव्यं तु चक्रवाकस्य लघु स्निग्धं बलप्रदं ।वह्निकृत्सर्वशूलघ्नं उष्णं वातामयापहं ॥१७.५९सारसस्य तु मांसं च मधुराम्लकषायकं ।महातीसारपित्तघ्नं ग्रहण्यर्शोरुजापहं ॥१७.६०स्निग्धहिमं गुरु वृष्यं मांसं जलपक्षिणां तु वातहरं ॥१७.६१तेष्वपि च हंसमांसं वृष्यतमं तिमिरहरणं च ॥१७.६२अन्ये बकबलाकाद्या गुरवो मांसभक्षणात् ।अनुक्तं तु मृगादीनां मांसं ग्राह्यं हितादिषु ॥१७.६३मत्स्याः स्निग्धोष्णगुरवो वातघ्ना रक्तपित्तदाः ।तत्र कांश्चिदपि ब्रूमो विशेषगुणलक्षणान् ॥१७.६४रोहितो गर्गरो भीरुर्बालको बर्बरस्तथा ।छागलो रक्तमत्स्योऽथ महिषश्चाविलस्तथा ॥१७.६५वातूकोऽलोमशा चापि ज्ञेया कर्णवशादयः ।लक्ष्यलक्षणवीर्यादीन्कथयामि यथाक्रमं ॥१७.६६कृष्णः शल्की श्वेतकुक्षिस्तु मत्स्यो यः श्रेष्ठोऽसौ रोहितो वृत्तवक्त्रः ।कोष्णं बल्यं रोहितस्यापि मांसं वातं हन्ति स्निग्धमाप्नोति वीर्यं ॥१७.६७यः पीतवर्णोऽपि च पिच्छिलाङ्गः पृष्ठे तु रेखाबहुलः सशल्कः ।स गर्गरो बर्बरनादरूक्षो जडश्च शीतः कफवातदायी ॥१७.६८पृष्ठे पक्षौ द्वौ गले पुच्छकं चेत्सर्पाभः स्यात्फूत्कृतो वृत्ततुण्डः ।ज्ञेयः शल्की मत्स्यको भीरुरुक्तः स्निग्धो वृष्यो दुर्जरो वातकारी ॥१७.६९नातिस्थूलो वृत्तवक्त्रोऽपि शस्तो धत्ते दन्तान्श्मश्रुलो दीर्घकायः ।संध्यायां वा रात्रिशेषे च वर्यः प्रोक्तो बालः पथ्यबल्यः सुवृष्यः ॥१७.७०पृष्ठे कुक्षौ कण्टकी दीर्घतुण्डः सर्पाभो यः सोऽप्ययं बर्बराख्यः ।वाताटोपं सोऽपि दत्ते जडश्च बल्यः स्निग्धो दुर्जरो वीर्यकारी ॥१७.७१श्वेतं सुकायं समदीर्घवृत्तं निःशल्ककं छागलकं वदन्ति ।नले द्विकण्टः किल तस्य पृष्ठे कण्टः सुपथ्यो रुचिदो बलप्रदः ॥१७.७२यो रक्ताङ्गो नातिदीर्घो न चाल्पो नातिस्थूलो रक्तमत्स्यः स चोक्तः ।शीतो रुच्यः पुष्टिकृद्दीपनोऽसौ नाशं धत्ते किंच दोषत्रयस्य ॥१७.७३यः कृष्णो दीर्घकायः स्यात्स्थूलशल्को बलाधिकः ।मत्स्यो महिषनामासौ दीपनो बलवीर्यदः ॥१७.७४शुक्लाङ्गस्ताम्रपक्षो यः स्वल्पाङ्गश्चाविलाह्वयः ।सुरुच्यो मधुरो बल्यो गुणाढ्यो वीर्यपुष्टिदः ॥१७.७५यः स्थूलाङ्गो माहिषाकारको यस्तालुस्थाने नीरजाभां दधाति ।शल्कं स्थूलं यस्य वातूककोऽसौ दत्ते वीर्यं दीपनं वृष्यदायी ॥१७.७६वितस्तिमानः श्वेताङ्गः सूक्ष्मशल्कः सुदीपनः ।अलोमशाह्वयो मत्स्यो बलवीर्याङ्गपुष्टिदः ॥१७.७७यो वृत्तगौल्यः कृष्णाङ्गः शल्की कर्णवशाभिधः ॥१७.७८दीपनः पाचनः पथ्यो वृष्योऽसौ बलपुष्टिदः ॥१७.७९निःशल्का निन्दिता मत्स्याः सर्वे शल्कयुता हिताः ।वपुःस्थैर्यकरा वीर्यबलपुष्टिविवर्धनाः ॥१७.८०ह्रदकुल्याजलधिनिर्झरतडागवापीजले च ये मत्स्याः ।ते तु जडा नादेया यथोत्तरं लघुतरास्तु नादेयाः ॥१७.८१क्षाराम्बुमत्स्या गुरवोऽस्रदाहदा विष्टम्भदास्ते लवणार्णवादिजाः ।तानश्नतां स्वादुजलस्थिता अपि ज्ञेया जडास्तेऽपि तथा शृतानिमान् ॥१७.८२शैलाटवीनगरभूजलचारिणो ये ये केऽपि सत्त्वनिवहाः खलु सप्तसंख्याः ।तन्मांसमत्र न वितथ्यं अथाभ्यधायि ग्रन्थस्य विस्तरभयाच्च नवोपयोगात् ॥१७.८३पक्वं मांसं हितं सर्वं बलवीर्यविवर्धनं ।भृष्टमांसं विदाहि स्यादस्रवातादिदोषकृत् ॥१७.८४पूर्वार्धं पुरुषस्य तद्गुरुतरं पश्चार्धभागः स्त्रियाः स्त्री गुर्वी किल गुर्विणी यदि तथा योषिच्च तुल्या लघुः ।पक्षी चेत्पुरुषो लघुः शृणु शिरःस्कन्धोरुपृष्ठे क्रमात्मांसं यच्च कटिस्थितं तदखिलं गुर्वेव सर्वात्मना ॥१७.८५रसरक्तादिधातूनां गुरुः स्यादुत्तरोत्तरं मेढ्रवृक्कयकृन्मांसं वार्षणं चातिमात्रतः ॥१७.८६इत्थं प्रतिस्थलविलाम्बुनभःप्रचारप्राण्यङ्गमांसगुणनिर्णयपूर्णं एनं ।वर्गं विचार्य भिषजा विनियुज्यमानो भुक्त्वाशनं न विकृतिं समुपैति मर्त्यः ॥१७.८७यस्यासीत्समितिद्विपाधिपबृहत्कुम्भान्तरस्थामिषप्रायाभ्यासपिपासयेव तरुणी नेत्राम्बुधारा द्विषां ।तस्यायं पुरुषप्रतापसुहृदः श्रीमन्नृसिंहेशितुर्वर्गः सप्तदशो निषीदति कृतौ नामादिचूडामणौ ॥१७.८८ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP