संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु|

राजनिघण्टु - कार्थादिवर्ग ११

नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड.


स्यादभ्रमांसी तुलसी हरिद्रा तालं तथा रोचनहेमं ।
जनप्रिया योजनवल्लिका स्यात्समल्लिका चन्द्रशशी च गौर्यां ॥३३.१
दूर्वा निशा ऋद्धिवचा प्रिया च सा माषपर्णी शिमिरोचना त्वथ ।
त्रायन्तिका जीवनिका महाबला मङ्गल्यकायां इति चन्द्रमाह्वयाः ॥३३.२
प्रियङ्गुछिन्ना त्रिवृता कणाह्वया वन्दाकदूर्वा तुलसी च नीलिनी ।
दुर्गा खगः कस्तुरिकृष्णसारिवा श्यामा महीन्दुः कथिता भिषग्वरैः ॥३३.३
इत्थं विचिन्त्य विनिवेशिततत्तदेकानेकार्थनामगणसंग्रहपूर्णं एनं ।
वर्गं विचार्य भिषजा बहुभक्तिभाजा ज्ञेया स्वयं प्रकरणानुगुणाः प्रयोगाः ॥३३.४
एको यश्च मनस्विनां अचतुरो यश्च द्वयोरश्विनो स्त्र्यक्षाच्चाचतुरो नृपञ्चवदनो नाम्नारिषण्णां जयी ।
एकार्थादिरमुष्य नामरचनाचूडामणौ यस्त्रयोविंशोऽसौ समपूरि सार्धं अमुना ग्रन्थेन वर्गो महान् ॥३३.५

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP