संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु| अन्दनादिवर्ग राजनिघण्टु मङ्गलाचरण प्रस्तावना आनूपादिवर्ग धरण्यादिवर्ग ङुडूच्यादिवर्ग पर्पटादिवर्ग पिप्पल्यादिवर्ग शताह्वादिवर्ग ऊलकादिवर्ग शाल्मल्यादिवर्ग प्रभद्रादिवर्ग करवीरादिवर्ग आम्रादिवर्ग अन्दनादिवर्ग उवर्णादिवर्ग पानीयादिवर्ग क्षीरादिवर्ग शाल्यादिवर्ग आंसादिवर्ग अनुष्यादिवर्गः इंहादिवर्ग ऱोगादिवर्ग अत्त्वादिवर्ग इश्रकादिवर्ग कार्थादिवर्ग १ कार्थादिवर्ग २ कार्थादिवर्ग ३ कार्थादिवर्ग ४ कार्थादिवर्ग ५ कार्थादिवर्ग ६ कार्थादिवर्ग ७ कार्थादिवर्ग ८ कार्थादिवर्ग ९ कार्थादिवर्ग १० कार्थादिवर्ग ११ राजनिघण्टु - अन्दनादिवर्ग नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड. Tags : narahar panditrajanighantuvedआयुर्वेदनरहरि पन्डितराजनिघण्टुसंस्कृत अन्दनादिवर्ग Translation - भाषांतर श्रीखण्डं शबरं पीतं पत्राङ्गं रक्तचन्दनं ।बर्बरं हरिगन्धं च चन्दनं सप्तधा स्मृतं ॥१२.१देवदारु द्विधा प्रोक्तं चीडा सप्तच्छदस्तथा ।सरलः कुङ्कुमे कङ्गुः कस्तूरी रोचना तथा ॥१२.२कर्पूरौ स्याज्जवादिस्तु नन्दी च जातिपत्रिका ।जातीफलं च कक्कोलं लवङ्गं स्वादुरुच्यते ॥१२.३अगर्व्यश्च त्रिधा मांसी तुरुष्को गुग्गुलुस्त्रिधा ।रालः कुन्दुरुकः कुष्ठं सारिवा तु द्विधा नखौ ॥१२.४स्पृक्का स्थौणेयकं चैव मुरा शैलेयचोरकः ।पद्मप्रपौण्डरीके च लामज्जं रोहिणी द्विधा ।श्रीवेष्टोशीरनलिका मुनिबाणमिताह्वयाः ॥१२.५श्रीखण्डं चन्दनं प्रोक्तं महार्हं श्वेतचन्दनं ।गोशीर्षं तिलपर्णं च मङ्गल्यं मलयोद्भवं ॥१२.६गन्धराजं सुगन्धं च सर्पावासं च शीतलं ।गन्धाढ्यं गन्धसारं च भद्रश्रीर्भोगिवल्लभं ।शीतगन्धो मलयजं पावनं चाङ्कभूह्वयं ॥१२.७श्रीखण्डं कटुतिक्तशीतलगुणं स्वादे कषायं कियत्पित्तभ्रान्तिवमिज्वरक्रिमितृषासंतापशान्तिप्रदं ।वृष्यं वक्त्ररुजापहं प्रतनुते कान्तिं तनोर्देहिनां लिप्तं सुप्तमनोजसिन्धुरमदारम्भादिसंरम्भदं ॥१२.८श्रेष्ठं कोटरकर्परोपकलितं सुग्रन्थि सद्गौरवं छेदे रक्तमयं तथा च विमलं पीतं च यद्धर्षणे ।स्वादे तिक्तकटुः सुगन्धबहुलं शीतं यदल्पं गुणे क्षीणं चार्धगुणान्वितं तु कथितं तच्चन्दनं मध्यमं ॥१२.९चन्दनं द्विविधं प्रोक्तं बेट्टसुक्वडिसंज्ञकं ।बेट्टं तु सार्द्रविच्छेदं स्वयं शुष्कं तु सुक्वडि ॥१२.१०मलयाद्रिसमीपस्थाः पर्वता बेट्टसंज्ञकाः ।तज्जातं चन्दनं यत्तु बेट्टवाच्यं क्वचिन्मते ॥१२.११बेट्टचन्दनं अतीव शीतलं दाहपित्तशमनं ज्वरापहं ।छर्दिमोहतृषिकुष्ठतैमिरोत्कासरक्तशमनं च तिक्तकं ॥१२.१२सुक्वडिचन्दनं तिक्तं कृच्छ्रपित्तास्रदाहनुत् ।शैत्यसुगन्धदं चार्द्रं शुष्कं लेपे तदन्यथा ॥१२.१३नातिपीतं कैरातं शबरं चन्दनं सुगन्धं ।वन्यं च गन्धकाष्ठं किरातकान्तं च शैलगन्धं च ॥१२.१४कैरातं उष्णं कटुशीतलं च श्लेष्मानिलघ्नं श्रमपित्तहारि ।विस्फोटपामादिकनाशनं च तृषापहं तापविमोहनाशि ॥१२.१५पीतगन्धं तु कालीयं पीतकं माधवप्रियं ।कालीयकं पीतकाष्ठं बर्बरं पीतचन्दनं ॥१२.१६पीतं च शीतलं तिक्तं कुष्ठश्लेष्मानिलापहं ।कण्डूविचर्चिकादद्रुकृमिहृत्कान्तिदं परं ॥१२.१७पत्तङ्गं चैव पत्राङ्गं रक्तकाष्ठं सुरङ्गदं ।पत्राढ्यं पट्टरागं च भार्यावृक्षश्च रक्तकः ॥१२.१८लोहितं रङ्गकाष्ठं च रागकाष्ठं कुचन्दनं ।पट्टरञ्जनकं चैव सुरङ्गं च चतुर्दश ॥१२.१९पत्राङ्गं कटुकं रूक्षं अम्लं शीतं तु गौल्यकं ।वातपित्तज्वरघ्नं च विस्फोटोन्मादभूतहृत् ॥१२.२०रक्तचन्दनं इदं च लोहितं शोणितं च हरिचन्दनं हिमं ।रक्तसारं अथ ताम्रसारकं क्षुद्रचन्दनं अथार्कचन्दनं ॥१२.२१रक्तचन्दनं अतीव शीतलं तिक्तं ईक्षणगदास्रदोषनुत् ।भूतपित्तकफकाससज्वरभ्रान्तिजन्तुवमिजित्तृषापहं ॥१२.२२बर्बरोत्थं बर्बरकं श्वेतबर्बरकं तथा ।शीतं सुगन्धि पित्तारि सुरभि चेति सप्तधा ॥१२.२३बर्बरं शीतलं तिक्तं कफमारुतपित्तजित् ।कुष्ठकण्डूव्रणान्हन्ति विशेषाद्रक्तदोषजित् ॥१२.२४हरिचन्दनं सुरार्हं हरिगन्धं इन्द्रचन्दनं दिव्यं ।दिविजं च महागन्धं नन्दनजं लोहितं च नवसंज्ञं ॥१२.२५हरिचन्दनं तु दिव्यं तिक्तहिमं तदिह दुर्लभं मनुजैः ।पित्ताटोपविलोपि चन्दनवच्छ्रमशोषमान्द्यतापहरं ॥१२.२६चन्दनानि समानानि रसतो वीर्यतस्तथा ।भिद्यन्ते किंतु गन्धेन तत्राद्यं गुणवत्तरं ॥१२.२७देवदारु सुरदारु दारुकं स्निग्धदारुरमरादिदारु च ।भद्रदारु शिवदारु शाम्भवं भूतहारि भवदारु रुद्रवत् ॥१२.२८स्निग्धदारु स्मृतं तिक्तं स्निग्धोष्णं श्लेष्मवातजित् ।आमदोषविबन्धार्शःप्रमेहज्वरनाशनं ॥१२.२९देवकाष्ठं पूतिकाष्ठं भद्रकाष्ठं सुकाष्ठकं ।अस्निग्धदारुकं चैव काष्ठदारु षडाह्वयं ॥१२.३०देवकाष्ठं तु तिक्तोष्णं रूक्षं श्लेष्मानिलापहं ।भूतदोषापहं धत्ते लिप्तं अङ्गेषु कालिकं ॥१२.३१देवदारु द्विधा ज्ञेयं तत्राद्यं स्निग्धदारुकं ।द्वितीयं काष्ठदारु स्याद्द्वयोर्नामान्यभेदतः ॥१२.३२चीडा च दारुगन्धा गन्धवधूर्गन्धमादनी तरुणी ।तारा च भूतमारी मङ्गल्या तु कपाटिनी ग्रहभीतिजित् ।चीडा कटूष्णा कासघ्नी कफजिद्दीपनी परा ।अत्यन्तसेविता सा तु पित्तदोषभ्रमापहा ॥१२.३३सप्तपर्णः पत्रवर्णः शुक्तिपर्णः सुपर्णकः ।सप्तच्छदो गुच्छपुष्पोऽयुग्मपर्णो मुनिच्छदः ॥१२.३४बृहत्त्वग्बहुपर्णश्च तथा शाल्मलिपत्रकः ।मदगन्धो गन्धिपर्णो विज्ञेयो वह्निभूमितः ॥१२.३५सप्तपर्णस्तु तिक्तोष्णस्त्रिदोषघ्नश्च दीपनः ।मदगन्धो निरुन्द्धेऽयं व्रणरक्तामयक्रिमीन् ॥१२.३६सरलस्तु पूतिकाष्ठं तुम्बी पीतद्रुरुत्थितो दीपतरुः ।स स्निग्धदारुसंज्ञः स्निग्धो मारीचपत्रको नवधा ॥१२.३७सरलः कटुतिक्तोष्णः कफवातविनाशनः ।त्वग्दोषशोफकण्डूतिव्रणघ्नः कोष्ठशुद्धिदः ॥१२.३८ज्ञेयं कुङ्कुमं अग्निसेखरं असृक्काश्मीरजं पीतकं काश्मीरं रुधिरं वरं च पिशुनं रक्तं शठं शोणितं ।वाह्लीकं घुसृणं वरेण्यं अरुणं कालेयकं जागुडं कान्तं वह्निशिखं च केसरवरं गौरं कराक्षीरितं ॥१२.३९कुङ्कुमं सुरभि तिक्तकटूष्णं कासवातकफकण्ठरुजाघ्नं ।मूर्धशूलविषदोषनाशनं रोचनं च तनुकान्तिकारकं ॥१२.४०तृणकुङ्कुमं तृणास्रं गन्धितृणं शोणितं च तृणपुष्पं ।गन्धाधिकं तृणोत्थं तृणगौरं लोहितं च नवसंज्ञं ॥१२.४१तृणकुङ्कुमं कटूष्णं कफमारुतशोफनुत् ।कण्डूतिपामाकुष्ठामदोषघ्नं भास्करं परं ॥१२.४२प्रियङ्गुः फलिनी श्यामा प्रियवल्ली फलप्रिया ।गौरी गोवन्दनी वृत्ता कारम्भा कङ्गु कङ्गुनी ॥१२.४३भङ्गुरा गौरवल्ली च सुभगा पर्णभेदिनी ।शुभा पीता च मङ्गल्या श्रेयसी चाङ्कभूमिता ॥१२.४४प्रियङ्गुः शीतला तिक्ता दाहपित्तास्रदोषजित् ।वान्तिभ्रान्तिज्वरहरा वक्त्रजाड्यविनाशनी ॥१२.४५कस्तूरी मृगनाभिस्तु मदनी गन्धचेलिका ।वेधमुख्या च मार्जारी सुभगा बहुगन्धदा ॥१२.४६सहस्रवेधी श्यामा स्यात्कामानन्दा मृगाण्डजा ।कुरङ्गनाभी ललिता मदो मृगमदस्तथा ।श्यामली काममोदी च विज्ञेयाष्टादशाह्वया ॥१२.४७कस्तूरी सुरभिस्तिक्ता चक्षुष्या मुखरोगजित् ।किलासकफदौर्गन्ध्यवातालक्ष्मीमलापहा ॥१२.४८कपिला पिङ्गला कृष्णा कस्तूरी त्रिविधा क्रमात् ।नेपालेऽपि च काश्मीरे कामरूपे च जायते ॥१२.४९साप्येका खरिका ततश्च तिलका ज्ञेया कुलित्थापरा पिण्डान्यापि च नायिकेति च परा या पञ्चभेदाभिधा ।सा शुद्धा मृगनाभितः क्रमवशादेषा क्षितीशोचिता पक्षत्यादिदिनत्रयेषु जनिता कस्तूरिका स्तूयते ॥१२.५०चूर्णाकृतिस्तु खरिका तिलका तिलाभा कौलत्थबीजसदृशी च कुलित्थका च ।स्थूला ततः कियदियं किल पिण्डिकाख्या तस्याश्च किंचिदधिका यदि नायिका सा ॥१२.५१स्वादे तिक्ता पिञ्जरा केतकीनां गन्धं धत्ते लाघवं तोलने च ।याप्सु न्यस्ता नैव वैवर्ण्यं ईयात्कस्तूरी सा राजभोग्याप्रशस्ता ॥१२.५२या गन्धं केतकीनां अपहरति मदं सिन्धुराणां च वर्णे स्वादे तिक्ता कटुर्वा लघुरथ तुलिता मर्दिता चिक्कणा स्यात् ।दाहं या नैति वह्नौ शिमिशिमिति चिरं चर्मगन्धा हुताशे सा कस्तूरी प्रशस्ता वरमृगतनुजा राजते राजभोग्या ॥१२.५३बाले जरति च हरिणे क्षीणे रोगिणि च मन्दगन्धयुता ।कामातुरे च तरुणे कस्तूरी बहुलपरिमला भवति ॥१२.५४या स्निग्धा धूमगन्धा वहति विनिहिता पीततां पाथसोऽन्तर्निःशेषं या निविष्टा भवति हुतवहे भस्मसादेव सद्यः ।या च न्यस्ता तुलायां कलयति गुरुतां मर्दिता रूक्षतां च ज्ञेया कस्तूरिकेयं खलु कृतमतिभिः कृत्रिमा नैव सेव्या ॥१२.५५शुद्धो वा मलिनोऽस्तु वा मृगमदः किं जातं एतावता कोऽप्यस्यानवधिश्चमत्कृतिनिधिः सौरभ्यं एको गुणः ।येनासौ स्मरमण्डनैकवसतिर्भाले कपोले गले दोर्मूले कुचमण्डले च कुरुते सङ्गं कुरङ्गीदृशां ॥१२.५६गोरोचना रुचिः शोभा रुचिरा शोभना शुभा ।गौरी च रोचना पिङ्गा मङ्गल्या पिङ्गला शिवा ॥१२.५७पीता च गौतमी गव्या वन्दनीया च काञ्चनी ।मेध्या मनोरमा श्यामा रामा भूमिकराह्वया ॥१२.५८गोरोचना च शिशिरा विषदोषहन्त्री रुच्या च पाचनकरी क्रिमिकुष्ठहन्त्री ।भूतग्रहोपशमनं कुरुते च पथ्या शृङ्गारमङ्गलकरी जनमोहिनी च ॥१२.५९कर्पूरो घनसारकः सितकरः शीतः शशाङ्कः शिला शीतांशुर्हिमवालुका हिमकरः शीतप्रभः शाम्भवः ।शुभ्रांशुः स्फटिकाभ्रसारमिहिकाताराभ्रचन्द्रेन्दवश्चन्द्रालोकतुषारगौरकुमुदान्येकादशाह्वा द्विशः ॥१२.६०पोतासो भीमसेनस्तदनु सितकरः शंकरावाससंज्ञः प्रांशुः पिञ्जोऽब्दसारस्तदनु हिमयुता वालुका जूटिका च ।पश्चादस्यास्तुषारस्तदुपरि सहिमः शीतलः पक्विकान्या कर्पूरस्येति भेदा गुणरसमहसां वैद्यदृश्येन दृश्याः ॥१२.६१कर्पूरो नूतनस्तिक्तः स्निग्धश्चोष्णोऽस्रदाहदः ।चिरस्थो दाहदोषघ्नः स धौतः शुभकृत्परः ॥१२.६२शिरो मध्यं तलं चेति कर्पूरस्त्रिविधः स्मृतः ।शिरः स्तम्भाग्रसंजातं मध्यं पर्णतले तलं ॥१२.६३भास्वद्विशदपुलकं शिरोजातं तु मध्यमं ।सामान्यपुलकं स्वच्छं तले चूर्णं तु गौरकं ॥१२.६४स्तम्भगर्भस्थितं श्रेष्ठं स्तम्भबाह्ये च मध्यमं ।स्वच्छं ईषत्हरिद्राभं शुभ्रं तन्मध्यमं स्मृतं सुदृढं शुभ्ररूक्षं च पुलकं बाह्यजं वदेत् ॥१२.६५स्वच्छं भृङ्गारपत्त्रं लघुतरविशदं तोलने तिक्तकं चेत्स्वादे शैत्यं सुहृद्यं बहलपरिमलामोदसौरभ्यदायि ।निःस्नेहं दार्ढ्यपत्त्रं शुभतरं इति चेत्राजयोग्यं प्रशस्तं कर्पूरं चान्यथा चेद्बहुतरं अशने स्फोटदायि व्रणाय ॥१२.६६चीनकश्चीनकर्पूरः कृत्रिमो धवलः पटुः ।मेघसारस्तुषारश्च द्वीपकर्पूरजः स्मृतः ॥१२.६७चीनकः कटुतिक्तोष्ण ईषच्छीतः कफापहः ।कण्ठदोषहरी मेध्यः पाचनः क्रिमिनाशनः ॥१२.६८जवादि गन्धराजं स्यात्कृत्रिमं मृगचर्मजं ।समूहगन्धं गन्धाढ्यं स्निग्धं साम्राणिकर्दमं ।सुगन्धं तैलनिर्यासं कुटामोदं दशाभिधं ॥१२.६९सौगन्धिकं जवादि स्यात्स्निग्धं चोष्णं सुखावहं ।वाते हितं च राज्ञां च मोहनाह्लादकारणं ॥१२.७०जवादि नीलं सस्निग्धं ईषत्पीतं सुगन्धदं ।आतपे बहुलामोदं राज्ञां योग्यं न चान्यथा ॥१२.७१तूणीकस्तूणिकस्तूणी पीतकः कच्छपस्तथा ।नन्दी कुरकः कान्तो नन्दीवृक्षो नवाह्वयः ॥१२.७२वृक्षः कटुस्तिक्तः शीतस्तिक्तास्रदाहजित् ।शिरोऽर्तिश्वेतकुष्ठघ्नः सुगन्धिः पुष्टिवीर्यदः ॥१२.७३जातीपत्त्री जातिकोशः सुमनःपत्त्रिकापि सा ।मालतीपत्त्रिका पञ्चनाम्नी सौमनसायिनी ॥१२.७४जातीपत्री कटुस्तिक्ता सुरभिः कफनाशनी ।वक्त्रवैशद्यजननी जाड्यदोषनिकृन्तनी ॥१२.७५जातीफलं जातिशस्यं शालूकं मालतीफलं ।मज्जासारं जातिसारं पुटं च सुमनःफलं ॥१२.७६जातीफलं कषायोष्णं कटु कण्ठामयार्तिजित् ।वातातिसारमेहघ्नं लघु वृष्यं च दीपनं ॥१२.७७कक्कोलकं कृतफलं कोलकं कटुकं फलं ।विद्वेष्यं स्थूलमरिचं कर्कोलं माधवोचितं ।कङ्कोलं कट्फलं प्रोक्तं मारीचं रुद्रसंमितं ॥१२.७८कक्कोलं कटु तिक्तोष्णं वक्त्रजाड्यहरं परं ।दीपनं पाचनं रुच्यं कफवातनिकृन्तनं ॥१२.७९लवंगकलिका दिव्यं लवंगं शेखरं लवं ।श्रीपुष्पं देवकुसुमं रुचिरं वारिसम्भवं ॥१२.८०तीक्ष्णपुष्पं तु भृङ्गारं गीर्वाणकुसुमं तथा ।पुष्पकं चन्दनादि स्यात्ज्ञेयं त्रयोदशाह्वयं ॥१२.८१लवंगं शीतलं तिक्तं चक्षुष्यं भक्तरोचनं ।वातपित्तकफघ्नं च तीक्ष्णं मूर्धरुजापहं ॥१२.८२लवंगं सोष्णकं तीक्ष्णं विपाके मधुरं हिमं ।वातपित्तकफामघ्नं क्षयकासास्रदोषनुत् ॥१२.८३स्वादुस्त्वगरुसारः स्यात्सुधूम्यो गन्धधूमजः ।स्वादुः कटुकषायोष्णः सधूमामोदवातजित् ॥१२.८४कृष्णागरु स्यादगरु शृङ्गारं विश्वरूपकं ।शीर्षं कालागरु केश्यं वसुकं कृष्णकाष्ठकं ।धूपार्हं वल्लरं गन्धराजकं द्वादशाह्वयं ॥१२.८५कृष्णागरु कटूष्णं च तिक्तं लेपे च शीतलं ।पाने पित्तहरं किंचित्त्रिदोषघ्नं उदाहृतं ॥१२.८६अन्यागरु पीतकं च लोहं वर्णप्रसादनं ।अनार्यकं असारं च कृमिजग्धं च काष्ठकं ॥१२.८७काष्ठागरु कटूष्णं च लेपे रूक्षं कफापहं ॥१२.८८दाहागरु दहनागरु दाहककाष्ठं च वह्निकाष्ठं च ।धूपागरु तैलागरु पुरं च पुरमथनवल्लभं चैव ॥१२.८९दाहागरु कटुकोष्णं केशानां वर्धनं च वर्ण्यं च ।अपनयति केशदोषानातनुते संततं च सौगन्ध्यं ॥१२.९०मङ्गल्या मल्लिका गन्धमङ्गलागरुवाचका ।मङ्गल्या गुरुशिशिरा गन्धाढ्या योगवाहिका ॥१२.९१मांसी तु जटिला पेशी क्रव्यादी पिशिता मिशी ।केशिनी च जटा हिंस्रा जटामांसी च मांसिनी ॥१२.९२जटाला नलदा मेषी तामसी चक्रवर्तिनी ।माता भूतजटा चैव जननी च जटावती ।मृगभक्षापि चेत्येता एकविंशतिधाभिधाः ॥१२.९३सुरभिस्तु जटामांसी कषाया कटुशीतला ।कफहृद्भूतदाहघ्नी पित्तघ्नी मोदकान्तिकृत् ॥१२.९४द्वितीया गन्धमांसी च केशी भूतजटा स्मृता ।पिशाची पूतना चैव भूतकेशी च लोमशा ।जटाला लघुमांसी च ख्याता चाङ्कमिताह्वया ॥१२.९५गन्धमांसी तिक्तशीता कफकण्ठामयापहा ।रक्तपित्तहरा वर्ण्या विषभूतज्वरापहा ॥१२.९६आकाशमांसी सूक्ष्मान्या निरालम्बा खसम्भवा ।सेवाली सूक्ष्मपत्त्री च गौरी पर्वतवासिनी ॥१२.९७अभ्रमांसी हिमा शोफव्रणनाडीरुजापहा ।लूतागर्दभजालादिहारिणी वर्णकारिणी ॥१२.९८तुरुष्को यावनो धूम्रो धूम्रवर्णः सुगन्धिकः ।सिह्लकः सिह्लसारश्च पीतसारः कपिस्तथा ॥१२.९९पिण्याकः कपिजः कल्कः पिण्डितः पिण्डतैलकः ।करेवरः कृत्रिमको लेपनो मुनिभूह्वयः ॥१२.१००तुरुष्कः सुरभिस्तिक्तः कटुस्निग्धश्च कुष्ठजित् ।कफपित्ताश्मरीमूत्राघातभूतज्वरार्तिजित् ॥१२.१०१गुग्गुलुर्यवनद्विष्टो भवाभीष्टो निशाटकः ।जटालः कालनिर्यासः पूरो भूतहरः शिवः ॥१२.१०२कौशिकः शाम्भवो दुर्गो यातुघ्नो महिषाक्षकः ।देवेष्टो मरुदेश्योऽपि रक्षोहा रूक्षगन्धकः ।दिव्यस्तु महिषाक्षश्च नामान्येतानि विंशतिः ॥१२.१०३गुग्गुलुः कटुतिक्तोष्णः कफमारुतकासजित् ।क्रिमिवातोदरप्लीहशोफार्शोघ्नो रसायनः ॥१२.१०४गन्धराजः स्वर्णकणः सुवर्णः कणगुग्गुलुः ।कनको वंशपोतश्च सुरसश्च पलंकषः ॥१२.१०५कणगुग्गुलुः कटूष्णः सुरभिर्वातनाशनः ।शूलगुल्मोदराध्मानकफघ्नश्च रसायनः ॥१२.१०६गुग्गुलुश्च तृतीयोऽन्यो भूमिजो दैत्यमेदजः ।दुर्गाह्लाद इडाजात आशादिरिपुसम्भवः ।मज्जाजो मदजश्चैव महिषासुरसम्भवः ॥१२.१०७गुग्गुलुर्भूमिजस्तिक्तः कटूष्णः कफवातजित् ।उमाप्रियश्च भूतघ्नो मेध्यः सौरभ्यदः सदा ॥१२.१०८रालः सर्जरसश्चैव शालः कनकलोद्भवः ।ललनः शालनिर्यासो देवेष्टः शीतलस्तथा ॥१२.१०९बहुरूपः शालरसः सर्जनिर्यासकस्तथा ।सुरभिः सुरधूपश्च यक्षधूपोऽग्निवल्लभः ।कालः कललजः प्रोक्तो नाम्ना सप्तदशाङ्कितः ॥१२.११०रालस्तु शिशिरः स्निग्धः कषायस्तिक्तसंग्रहः ।वातपित्तहरः स्फोटकण्डूतिव्रणनाशनः ।कुन्दुरुकः सौराष्ट्रः शिखरी कुन्दुरुककुन्दुकस्तीक्ष्णः ।गोपुरको बहुगन्धः पालिन्दो भीषणश्च दशसंज्ञः ॥१२.१११कुन्दुरुर्मधुरस्तिक्तः कफपित्तार्तिदाहनुत् ।पाने लेपे च शिशिरः प्रदरामयशान्तिकृत् ॥१२.११२कुष्ठं रुजागदो व्याधिरामयं पारिभद्रकं ।रामं वानीरजं वाप्यं ज्ञेयं त्वग्दोषं उत्पलं ।कुत्सं च पाटवं चैव पद्मकं मनुसंज्ञकं ॥१२.११३कुष्ठं कटूष्णं तिक्तं स्यात्कफमारुतकुष्ठजित् ।विसर्पविषकण्डूतिखर्जूदद्रुघ्नकान्तिकृत् ॥१२.११४सारिवा शारदा गोपा गोपवल्ली प्रतानिका ।गोपकन्या लतास्फोता नवाह्वा काष्ठसारिवा ॥१२.११५सारिवान्या कृष्णमूली कृष्णा चन्दनसारिवा ।भद्रा चन्दनगोपा तु चन्दना कृष्णवल्ल्यपि ॥१२.११६सारिवे द्वे तु मधुरे कफवातास्रनाशने ।कुष्ठकण्डूज्वरहरे मेहदुर्गन्धिनाशने ॥१२.११७नखः कररुहः शिल्पी शुक्तिः शङ्खः खुरः शफः ।वलः कोशी च करजो हनुर्नागहनुस्तथा ॥१२.११८पाणिजो बदरीपत्त्रो धूप्यः पण्यविलासिनी ।संधिनालः पाणिरुहः स्यादष्टादशसंज्ञकः ॥१२.११९नखः स्यादुष्णकटुको विषं हन्ति प्रयोजितः ।कुष्ठकण्डूव्रणघ्नश्च भूतविद्रावणः परः ॥१२.१२०नखोऽन्यः स्याद्बलनखः कूटस्थश्चक्रनायकः ।चक्री चक्रनखस्त्र्यस्रः कालो व्याघ्रनखः स्मृतः ॥१२.१२१द्वीपिनखो व्यालनखः खपुटो व्यालपाणिजः ।व्यालायुधो व्यालबलो व्यालखड्गश्च षोडश ॥१२.१२२व्यालनखस्तु तिक्तोष्णः कषायः कफवातजित् ।कुष्ठकण्डूव्रणघ्नश्च वर्ण्यः सौगन्ध्यदः परः ॥१२.१२३स्पृक्का च देवी पिशुना वधूश्च कोटिर्मनुर्ब्राह्मणिका सुगन्धा ।समुद्रकान्ता कुटिला तथा च मालालिका भूतलिका च लघ्वी ॥१२.१२४निर्माल्या सुकुमारा च मालाली देवपुत्रिका ।पञ्चगुप्तिरसृक्प्रोक्ता नखपुष्पी च विंशतिः ॥१२.१२५स्पृक्का कटुकषाया च तिक्ता श्लेष्मार्तिकासजित् ।श्लेष्ममेहाश्मरीकृच्छ्रनाशनी च सुगन्धदा ॥१२.१२६स्थौणेयकं बर्हिशिखं शुकच्छदं मयूरचूडं शुकपुच्छकं तथा ।विकीर्णरोमापि च कीरवर्णकं विकर्णसंज्ञं हरितं नवाह्वयं ॥१२.१२७स्थौणेयं कफवातघ्नं सुगन्धि कटुतिक्तकं ।पित्तप्रकोपशमनं बलपुष्टिविवर्धनं ॥१२.१२८मुरा गन्धवती दैत्या गन्धाढ्या गन्धमादनी ।सुरभिर्भूरिगन्धा च कुटी गन्धकुटी तथा ॥१२.१२९मुरा तिक्ता कटुः शीता कषाया कफपित्तहृत् ।श्वासासृग्विषदाहार्तिभ्रममूर्छातृषापहा ॥१२.१३०शैलेयं शिलजं वृद्धं शिलापुष्पं शिलोद्भवं ।स्थविरं पलितं जीर्णं तथा कालानुसार्यकं ॥१२.१३१शिलोत्थं च शिलादद्रुः शैलजं गिरिपुष्पकं ।शिलाप्रसूनं सुभगं शैलकं षोडशाह्वयं ॥१२.१३२शैलेयं शिशिरं तिक्तं सुगन्धि कफपित्तजित् ।दाहतृष्णावमिश्वासव्रणदोषविनाशनं ॥१२.१३३चोरकः शङ्कितश्चण्डा दुष्पत्त्रः क्षेमको रिपुः ।चपलः कितवो धूर्तः पटुर्नीचो निशाचरः ॥१२.१३४गणहासः कोपनकश्चौरकः फलचोरकः ।दुष्कुलो ग्रन्थिलश्चैव सुग्रन्थिः पर्णचोरकः ।ग्रन्थिपर्णो ग्रन्थिदलो ग्रन्थिपत्त्रस्त्रिनेत्रधा ॥१२.१३५चोरकस्तीव्रगन्धोष्णस्तिक्तो वातकफापहः ।नासामुखरुजाजीर्णक्रिमिदोषविनाशनः ॥१२.१३६पद्मकं पीतकं पीतं मालयं शीतलं हिमं ।शुभ्रं केदारजं रक्तं पाटलापुष्पसंनिभं ।पद्मकाष्ठं पद्मवृक्षं प्रोक्तं स्याद्द्वादशाह्वयं ॥१२.१३७पद्मकं शीतलं तिक्तं रक्तपित्तविनाशनं ।मोहदाहज्वरभ्रान्तिकुष्ठविस्फोटशान्तिकृत् ॥१२.१३८प्रपौण्डरीकं चक्षुष्यं पुण्डर्यं पुण्डरीयकं ।पौण्डर्यं च सुपुष्पं च सानुजं चानुजं स्मृतं ॥१२.१३९प्रपौण्डरीकं चक्षुष्यं मधुरं तिक्तशीतलं ।पित्तरक्तव्रणान्हन्ति ज्वरदाहतृषापहं ॥१२.१४०लामज्जकं सुनालं स्यादमृणालं लवं लघु ।इष्टकापथकं शीघ्रं दीर्घमूलं जलाश्रयं ॥१२.१४१लामज्जकं हिमं तिक्तं मधुरं वातपित्तजित् ।तृड्दाहश्रममूर्छार्तिरक्तपित्तज्वरापहं ॥१२.१४२मांसरोहिण्यतिरुहा वृत्ता चर्मकषा च सा ।विकसा मांसरोही च ज्ञेया मांसरुहा मुनिः ॥१२.१४३अन्या मांसी सदामांसी मांसरोहा रसायनी ।सुलोमा लोमकरणी रोहिणी मांसरोहिका ॥१२.१४४विकसा कटुका तिक्ता तथोष्णा स्वरसादनुत् ।रसायनप्रयोगाच्च सर्वरोगहरा मता ।कषाया ग्राहिणी वर्ण्या रक्तपित्तप्रसादनी ॥१२.१४५रोहिणीयुगलं शीतं कषायं क्रिमिनाशनं ।कण्ठशुद्धिकरं रुच्यं वातदोषनिषूदनं ॥१२.१४६श्रीवेष्टो वृक्षधूपश्च चीडागन्धो रसाङ्गकः ।श्रीवासः श्रीरसो वेष्टो लक्ष्मीवेष्टस्तु वेष्टकः ॥१२.१४७वेष्टसारो रसावेष्टः क्षीरशीर्षः सुधूपकः ।धूपाङ्गस्तिलपर्णश्च सरलाङ्गोऽपि षोडश ॥१२.१४८श्रीवेष्टः कटुतिक्तश्च कषायः श्लेष्मपित्तजित् ।योनिदोषरुजाजीर्णव्रणघ्नाध्मानदोषजित् ॥१२.१४९उशीरं अमृणालं स्याज्जलवासं हरिप्रियं ।मृणालं अभयं वीरं वीरणं समगन्धिकं ॥१२.१५०रणप्रियं वारितरं शिशिरं शितिमूलकं ।वेणीगमूलकं चैव जलामोदं सुगन्धिकं ।सुगन्धिमूलकं शुभ्रं बालकं ग्रहभूह्वयं ॥१२.१५१उशीरं शीतलं तिक्तं दाहश्रमहरं परं ।पित्तज्वरार्तिशमनं जलसौगन्ध्यदायकं ॥१२.१५२नलिका विद्रुमलतिका कपोतबाणा नली च निर्मथ्या ।सुषिरा धमनी स्तुत्या रक्तदला नर्तकी नटी रुद्राः ॥१२.१५३नलिका तिक्तकटुका तीक्ष्णा च मधुरा हिमा ।कृमिवातोदरार्त्यर्शःशूलघ्नी मलशोधनी ॥१२.१५४इत्थं गन्धद्रव्यकदम्बाह्वयवीर्यव्याख्यावाचोयुक्तिविविक्तोज्ज्वलसर्गं ।वर्गं वक्त्राम्भोरुहमोदार्हं अधीयाथैनं मध्ये संसदसौ दीव्यतु वैद्यः ॥१२.१५५ये गन्धयन्ति सकलानि च भूतलानि लोकांश्च येऽपि सुखयन्ति च गन्धलुब्धान् ।तेषां अयं मलयजादिसुगन्धिनाम्नां भूर्गन्धवर्ग इति विश्रुतिं एति वर्गः ॥१२.१५६यस्योच्चैश्चरितानि शीतसुरभीण्यभ्यस्य सत्यात्मनो दुश्चारित्रजना निषङ्गजनितं द्राग्दौःस्थं आस्थन्स्वकं तस्यायं कृतिनः कृतौ नरहरेः श्रीचन्दनादिः स्थितिं वर्गो वाञ्छति नामनैगमशिखाभूषामणौ द्वादशः ॥१२.१५७ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP