संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु| पानीयादिवर्ग राजनिघण्टु मङ्गलाचरण प्रस्तावना आनूपादिवर्ग धरण्यादिवर्ग ङुडूच्यादिवर्ग पर्पटादिवर्ग पिप्पल्यादिवर्ग शताह्वादिवर्ग ऊलकादिवर्ग शाल्मल्यादिवर्ग प्रभद्रादिवर्ग करवीरादिवर्ग आम्रादिवर्ग अन्दनादिवर्ग उवर्णादिवर्ग पानीयादिवर्ग क्षीरादिवर्ग शाल्यादिवर्ग आंसादिवर्ग अनुष्यादिवर्गः इंहादिवर्ग ऱोगादिवर्ग अत्त्वादिवर्ग इश्रकादिवर्ग कार्थादिवर्ग १ कार्थादिवर्ग २ कार्थादिवर्ग ३ कार्थादिवर्ग ४ कार्थादिवर्ग ५ कार्थादिवर्ग ६ कार्थादिवर्ग ७ कार्थादिवर्ग ८ कार्थादिवर्ग ९ कार्थादिवर्ग १० कार्थादिवर्ग ११ राजनिघण्टु - पानीयादिवर्ग नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड. Tags : narahar panditrajanighantuvedआयुर्वेदनरहरि पन्डितराजनिघण्टुसंस्कृत पानीयादिवर्ग Translation - भाषांतर पानीयजीवनवनामृतपुष्कराम्भःपाथोऽम्बुशम्बरपयःसलिलोदकानि ।आपः कवारुणकबन्धजलानि नीरकीलालवारिकमलानि विषार्णसी च ॥१४.१भुवनं दहनारातिर्वास्तोयं सर्वतोमुखं क्षीरं ।घनरसनिम्नगमेघप्रसवरसाश्चेति वह्निमिताः ॥१४.२पानीयं मधुरं हिमं च रुचिदं तृष्णाविशोषापहं मोहभ्रान्तिमपाकरोति कुरुते भुक्तान्नपक्तिं परां ।निद्रालस्यनिरासनं विषहरं श्रान्तातिसंतर्पणं नॄणां धीबलवीर्यतुष्टिजननं नष्टाङ्गपुष्टिप्रदं ॥१४.३दिव्योदकं खरारि स्यादाकाशसलिलं तथा ।व्योमोदकं चान्तरिक्षजलं चेष्वभिधाह्वयं ॥१४.४व्योमोदकं त्रिदोषघ्नं मधुरं पथ्यदं परं ।रुच्यं दीपनदं तृष्णाश्रममेहापहारकं ॥१४.५सद्योवृष्ट्यम्बु भूमिस्थं कलुषं दोषदायकं ।चिरस्थितं लघु स्वच्छं पथ्यं स्वादु सुखावहं ॥१४.६यादोनाथसमुद्रसिन्धुजलदाकूपारपाथोधयः पारावारपयोधिसागरसरिन्नाथाश्च वारां निधिः ।अम्भोराशिसरस्वदम्बुधिनदीनाथाब्धिनित्यार्णवोदन्वद्वारिधिवार्धयः कधिरपांनाथोऽपि रत्नाकरः ॥१४.७सागरसलिलं विस्रं लवणं रक्तामयप्रदं चोष्णं ।वैवर्ण्यदोषजननं विशेषाद्दाहार्तिपित्तकरणं च ॥१४.८नदी धुनी निर्झरिणी तरंगिणी सरस्वती शैवलिनी समुद्रगा ।कूलंकषा कूलवती च निम्नगा शैवालिनी सिन्धुरथापगापि च ॥१४.९ह्रदिनी समुद्रकान्ता सागरगा ह्रादिनी सरित्कर्षूः ।स्रोतस्विनी सुनीरा रोधोवक्रा च वाहिनी तटिनी ॥१४.१०नादेयं सलिलं स्वच्छं लघु दीपनपाचनं ।रुच्यं तृष्णापहं पथ्यं मधुरं चेषदुष्णकं ॥१४.११गङ्गा भानुसुता रेवा चन्द्रभागा सरस्वती ।मधुमती विपाशाथ शोणो घर्घरकस्तथा ॥१४.१२वेत्रावती क्षौद्रवती पयोष्णी तापी वितस्ता सरयूश्च सिन्धुः ।महाशतद्रुर्ह्यथ गौतमी स्यात्कृष्णा च तुङ्गा च कवेरिकन्या ॥१४.१३इत्येवं आद्याः सरितः समस्तास्तडागवापीह्रदकूपकाद्याः ।अन्येऽप्यनूपात्मकदेशभेदाः कौलाभिधानैः स्वयं ऊहनीयाः ॥१४.१४धाराकारादिकातोयं अन्तरिक्षोद्भवं तथा ।परीक्ष्येत यथा चोक्तं ज्ञातव्यं जलवेदिभिः ॥१४.१५गङ्गा स्वर्गसरिद्वरा त्रिपथगा मन्दाकिनी जाह्नवी पुण्या विष्णुपदी समुद्रसुभगा भागीरथी स्वर्णदी ।त्रिःस्रोता सुरदीर्घिका सुरनदी सिद्धापगा स्वर्धुनी ज्येष्ठा जह्नुसुता च भीष्मजननी शुभ्रा च शैलेन्द्रजा ॥१४.१६शीतं स्वादु स्वच्छं अत्यन्तरुच्यं पथ्यं पाक्यं पावनं पापहारि ।तृष्णामोहध्वंसनं दीपनं च प्रज्ञां दत्ते वारि भागीरथीयं ॥१४.१७यमुना तपनतनुजा कलिन्दकन्या यमस्वसा च कालिन्दी ॥१४.१८पित्तदाहवमनश्रमापहं स्वादु वातजननं च पाचनं ।वह्निदीपनकरं विरोचनं यामुनं जलं इदं बलप्रदं ॥१४.१९रेवा मेकलकन्या सोमसुता नर्मदा च विज्ञेया ॥१४.२०सलिलं शीतलं सुपथ्यं कुरुते पित्तकफप्रकोपणं ।सकलामयमर्दनं च रुच्यं मधुरं मेकलकन्यकासमुत्थं ॥१४.२१चान्द्रभागसलिलं सुशीतलं दाहपित्तशमनं च वातदं ॥१४.२२सरस्वती प्लक्षसमुद्भवा च सा वाक्प्रदा ब्रह्मसती च भारती ।वेदाग्रणीश्चैव पयोष्णिजाता वाणी विशाला कुटिला दशाह्वा ॥१४.२३सरस्वतीजलं स्वादु पूतं सर्वरुजापहं ।रुच्यं दीपनदं पथ्यं देहकान्तिकरं लघु ॥१४.२४चान्द्रभागगुणसाम्यदं जलं किंच माधुमतमग्निदीपनं ॥१४.२५शतद्रोर्विपाशायुजः सिन्धुनद्याः सुशीतं लघु स्वादु सर्वामयघ्नं ।जलं निर्मलं दीपनं पाचनं च प्रदत्ते बलं बुद्धिमेधायुषं च ॥१४.२६शोणे घर्घरके जलं तु रुचिदं संतापशोषापहं पथ्यं वह्निकरं तथा च बलदं क्षीणाङ्गपुष्टिप्रदं ।तत्रान्या दधते जलं सुमधुरं कान्तिप्रदं पुष्टिदं वृष्यं दीपनपाचनं बलकरं वेत्रावती तापिनी ॥१४.२७पयोष्णीसलिलं रुच्यं पवित्रं पापनाशनं ।सर्वामयहरं सौख्यं बलकान्तिप्रदं लघु ॥१४.२८वितस्तासलिलं स्वादु त्रिदोषशमनं लघु ।प्रज्ञाबुद्धिप्रदं पथ्यं तापजाड्यहरं परं ॥१४.२९सरयूसलिलं स्वादु बलपुष्टिप्रदायकं ॥१४.३०गोदावरी गौतमसम्भवा सा ब्रह्माद्रिजाताप्यथ गौतमी च ॥१४.३१पित्तार्तिरक्तार्तिसमीरहारि पथ्यं परं दीपनपापहारि ।कुष्ठादिदुष्टामयदोषहारि गोदावरीवारि तृषानिवारि ॥१४.३२कृष्णानदी कृष्णसमुद्भवा स्यात्सा कृष्णवेणापि च कृष्णगङ्गा ॥१४.३३कार्ष्ण्यं जाड्यकरं स्वादु पूतं पित्तास्रकोपनं ।कृष्णवेणाजलं स्वच्छं रुच्यं दीपनपाचनं ॥१४.३४मलापहा भीमरथी च घट्टगा यथा च कृष्णाजलसाम्यदा गुणैः ।मलापहाघट्टगयोस्तथापि पथ्यं लघु स्वादुतरं सुकान्तिदं ॥१४.३५तुङ्गभद्राजलं स्निग्धं निर्मलं स्वाददं गुरु ।कण्डूपित्तास्रदं प्रायः सात्म्ये पथ्यकरं परं ॥१४.३६कावेरीसलिलं स्वादु श्रमघ्नं लघु दीपनं ।दद्रुकुष्ठादिदोषघ्नं मेधाबुद्धिरुचिप्रदं ॥१४.३७नदीनामित्थं अन्यासां देशदोषादिभेदतः ।तत्तद्गुणान्वितं वारि ज्ञातव्यं कृतबुद्धिभिः ॥१४.३८सर्वा गुर्वी प्राङ्मुखी वाहिनी या लघ्वी पश्चाद्वाहिनी निश्चयेन ।देशे देशे तद्गुणानां विशेषादेषा धत्ते गौरवं लाघवं च ॥१४.३९विन्ध्यात्प्राची याप्यवाची प्रतीची या चोदीची स्यान्नदी सा क्रमेण ।वाताटोपं श्लेष्मपित्तार्तिलोपं पित्तोद्रेकं पथ्यपाकं च धत्ते ॥१४.४०हिमवति मलयाचले च विन्ध्ये प्रभवति सह्यगिरौ च या स्रवन्ती ।सृजति किल शिरोरुजादिदोषानपनुदतेऽपि च पारियात्रजाता ॥१४.४१नद्यः प्रावृषिजास्तु पीनसकफश्वासार्तिकासप्रदाः पथ्या वातकफापहाः शरदिजा हेमन्तजा बुद्धिदाः ।संतापं शमयन्ति शं विदधते शैशिर्यवासन्तजास्तृष्णादाहवमिश्रमार्तिशमदा ग्रीष्मे यथा सद्गुणाः ॥१४.४२अनूपसलिलं स्वादु स्निग्धं पित्तहरं गुरु ।तनोति पामकण्डूतिकफवातज्वरामयान् ॥१४.४३जाङ्गलसलिलं स्वादु त्रिदोषघ्नं रुचिप्रदं ।पथ्यं चायुर्बलवीर्यपुष्टिदं कान्तिकृत्परं ॥१४.४४साधारणं जलं रुच्यं दीपनं पाचनं लघु ।श्रमतृष्णापहं वातकफमेदोघ्नपुष्टिदं ॥१४.४५जातं ताम्रमृदस्तदेव सलिलं वातादिदोषप्रदं देशाज्जाड्यकरं च दुर्जरतरं दोषावहं धूसरं ।वातघ्नं तु शिलाशिरोत्थं अमलं पथ्यं लघु स्वादु च श्रेष्ठं श्याममृदस्त्रिदोषशमनं सर्वामयघ्नं पयः ॥१४.४६ह्रदवारि वह्निजननं मधुरं कफवातहारि पथ्यं च ॥१४.४७प्रस्रवणजलं स्वच्छं लघु मधुरं रोचनं च दीपनकृत् ॥१४.४८तडागसलिलं स्वादु कषायं वातदं कियत् ॥१४.४९वापीजलं तु संतापि वातश्लेष्मकरं गुरु ॥१४.५०कफघ्नं कूपपानीयं क्षारं पित्तकरं लघु ॥१४.५१औद्भिदं पित्तशमनं सलिलं लघु च स्मृतं ॥१४.५२केदारसलिलं स्वादु विपाके दोषदं गुरु ।तदेव बद्धमुक्तं तु विशेषाद्दोषदं भवेत् ॥१४.५३नादेयं नवमृद्घटेषु निहितं संतप्तं अर्कांशुभिर्यामिन्यां च निविष्टं इन्द्रकिरणैर्मन्दानिलान्दोलितं ।एलाद्यैः परिवासितं श्रमहरं पित्तोष्णदाहे विषे मूर्छारक्तमदात्ययेषु च हितं शंसन्ति हंसोदकं ॥१४.५४यः पानीयं पिबति शिशिरं स्वादु नित्यं निशीथे प्रत्यूषे वा पिबति यदि वा घ्राणरन्ध्रेण धीरः ।सोऽयं सद्यः पतगपतिना स्पर्धते नेत्रशक्त्या स्वर्गाचार्यं प्रहसति धिया द्वेष्टि दस्रौ च तन्वा ॥१४.५५विण्मूत्रारुणनीलिकाविषहतं तप्तं घनं फेनिलं दन्तग्राह्यं अनार्तवं सलवणं शैवालकैः संवृतं ।जन्तुव्रातविमिश्रितं गुरुतरं पर्णौघपङ्काविलं चन्द्रार्कांशुतिरोहितं च न पिबेन्नीरं जडं दोषलं ॥१४.५६पार्श्वशूले प्रतिश्याये वातदोषे नवज्वरे ।हिक्काध्मानादिदोषेषु शीताम्बु परिवर्जयेत् ॥१४.५७धातुक्षये रक्तविकारदोषे वान्त्यस्रमेहे विषविभ्रमेषु ।जीर्णज्वरे शैथिल्यसंनिपाते जलं प्रशस्तं शृतशीतलं तु ॥१४.५८तप्तं पाथः पादभागेन हीनं प्रोक्तं पथ्यं वातजातामयघ्नं ।अर्धांशोनं नाशयेद्वातपित्तं पादप्रायं तत्तु दोषत्रयघ्नं ॥१४.५९हेमन्ते पादहीनं तु पादार्धोनं तु शारदे ।प्रावृड्वसन्ते शिशिरे ग्रीष्मे चार्धावशेषितं ॥१४.६०कौपं प्रास्रवणं वापि शिशिरर्तुवसन्तयोः ।ग्रीष्मे चौडं तु सेवेत दोषदं स्यादतोऽन्यथा ॥१४.६१तप्तं दिवा जाड्यं उपैति नक्तं नक्तं च तप्तं तु दिवा गुरु स्यात् ।दिवा च नक्तं च नृभिस्तदात्वतप्तं जलं युक्तमतो ग्रहीतुं ॥१४.६२उष्णं क्वापि क्वापि शीतं कवोष्णं क्वापि क्वापि क्वाथशीतं च पाथः ।इत्थं नॄणां पथ्यमेतत्प्रयुक्तं कालावस्थादेहसंस्थानुरोधात् ॥१४.६३अपनयति पवनदोषं दलयति कफमाशु नाशयत्यरुचिं ।पाचयति चान्नमनलं पुष्णाति निशीथपीतं उष्णाम्भः ॥१४.६४रात्रौ पीतमजीर्णदोषशमनं शंसन्ति सामान्यतः पीतं वारि निशावसानसमये सर्वामयध्वंसनं ।भुक्त्वा तूर्ध्वमिदं च पुष्टिजननं प्राक्चेदपुष्टिप्रदं रुच्यं जाठरवह्निपाटवकरं पथ्यं च भुक्त्यन्तरे ॥१४.६५अत्यम्बुपानान्न विपच्यतेऽन्नं अनम्बुपानाच्च स एव दोषः ।तस्मान्नरो वह्निविवर्धनार्थं मुहुर्मुहुर्वारि पिबेदभूरि ॥१४.६६जलं चतुर्विधं प्राहुरन्तरिक्षोद्भवं बुधाः ।धारं च कारकं चैव तौषारं हैममित्यपि ॥१४.६७अम्बु वर्षोद्भवं धारं कारं वर्षोपलोद्भवं ।नीहारतोयं तौषारं हैमं प्रातर्हिमोद्भवं ॥१४.६८धारं च द्विविधं प्रोक्तं गाङ्गसामुद्रभेदतः ।तत्र गाङ्गं गुणाढ्यं स्यातदोषं पाचनं परं ॥१४.६९यदा स्यादाश्विने मासि सूर्यः स्वातिविशाखयोः ।तदाम्बु जलदैर्मुक्तं गाङ्गमुक्तं मनीषिभिः ॥१४.७०अन्यदा मृगशीर्षादिनक्षत्रेषु यदम्बुदैः ।अभिवृष्टमिदं तोयं सामुद्रमिति शब्दितं ॥१४.७१धाराधरे वर्षति रौप्यपात्रे विन्यस्य शाल्योदनसिद्धपिण्डे ।दध्नोपदिग्धे निहितं मुहूर्तादविक्रियं गाङ्गं अथान्यथा स्यात् ॥१४.७२गाङ्गं जलं स्वादु सुशीतलं च रुचिप्रदं पित्तकफापहं च ।निर्दोषं अच्छं लघु तच्च नित्यं गुणाधिकं व्योम्नि गृहीतं आहुः ॥१४.७३चन्द्रकान्तोद्भवं वारि पित्तघ्नं विमलं लघु ।मूर्छापित्तास्रदाहेषु हितं कासमदात्यये ॥१४.७४सामुद्रसलिलं शीतं कफवातप्रदं गुरु ।चित्रायामाश्विने तच्च गुणाढ्यं गाङ्गवद्भवेत् ॥१४.७५पतितं भुवि यत्तोयं गाङ्गं सामुद्रमेव वा ।स्वस्वाश्रयवशाद्गच्छेदन्यदन्यद्रसादिकं ॥१४.७६अस्रं च लवणं च स्यात्पतितं पार्थिवस्थले ।आप्ये तु मधुरं प्रोक्तं कटु तिक्तं च तैजसे ॥१४.७७कषायं वायवीये स्यादव्यक्तं नाभसे स्मृतं ।तत्र नाभसमेवोक्तं उत्तमं दोषवर्जितं ॥१४.७८यत्र चेदाश्विने मासि नैव वर्षति वारिदः ।गाङ्गतोयविहीने स्युः काले तत्राधिका रुजः ॥१४.७९क्वचिदुष्णं क्वचिच्छीतं क्वचित्क्वथितशीतलं ।क्वचिद्भेषजसंयुक्तं न क्वचिद्वारि वार्यते ॥१४.८०इक्षवः पञ्चधा प्रोक्ता नानावर्णगुणान्विताः ।सितः पुण्ड्रः करङ्केक्षुः कृष्णो रक्तश्च ते क्रमात् ॥१४.८१इक्षुः कर्कटको वंशः कान्तारः सुकुमारकः ।असिपत्त्रो मधुतृणो वृष्यो गुडतृणो नव ॥१४.८२श्वेतेक्षुस्तु सितेक्षुः स्यात्काष्ठेक्षुर्वंशपत्त्रकः ।सुवंशः पाण्डुरेक्षुश्च काण्डेक्षुर्धवलेक्षुकः ॥१४.८३सितेक्षुः कठिनो रुच्यो गुरुश्च कफमूत्रकृत् ।दीपनः पित्तदाहघ्नो विपाके कोष्णदः स्मृतः ॥१४.८४पुण्ड्रकस्तु रसालः स्यात्रसेक्षुः सुकुमारकः ।कर्बुरो मिश्रवर्णश्च नेपालेक्षुश्च सप्तधा ॥१४.८५पुण्ड्रोऽतिमधुरः शीतः कफकृत्पित्तनाशनः ।दाहश्रमहरो रुच्यो रसे संतर्पणः परः ॥१४.८६अन्यः करङ्कशालिः स्यादिक्षुवाटीक्षुवाटिका ।यावनी चेक्षुयोनिश्च रसाली रसदालिका ॥१४.८७करङ्कशालिर्मधुरः शीतलो रुचिकृन्मृदुः ।पित्तदाहहरो वृष्यस्तेजोबलविवर्धनः ॥१४.८८कृष्णेक्षुरिक्षुरः प्रोक्तः श्यामेक्षुः कोकिलाक्षकः ।श्यामवंशः श्यामलेक्षुः कोकिलेक्षुश्च कथ्यते ॥१४.८९कृष्णेक्षुरुक्तो मधुरश्च पाके स्वादुः सुहृद्यः कटुको रसाढ्यः ।त्रिदोषहारी शमवीर्यदश्च सुबल्यदायी बहुवीर्यदायी ॥१४.९०रक्तेक्षुः सूक्ष्मपत्त्रश्च शोणो लोहित उत्कटः ।मधुरो ह्रस्वमूलश्च लोहितेक्षुश्च कीर्तितः ॥१४.९१लोहितेक्षुश्च मधुरः पाके स्याच्छीतलो मृदुः ।पित्तदाहहरो वृष्यस्तेजोबलविवर्धनः ॥१४.९२इक्षुमूलं त्विक्षुनेत्रं तच्च मोरटकं तथा ।वंशनेत्रं वंशमूलं मोरटं वंशपूरकं ॥१४.९३मूलादूर्द्ध्वन्तु मधुरा मध्येऽतिमधुरास्तथा ।इक्षवस्तेऽग्रभागेषु क्रमाल्लवणनीरसाः ॥१४.९४अभुक्ते पित्तहाश्चैते भुक्ते वातप्रकोपणाः ।भुक्तमध्ये गुरुतरा इतीक्षूणां गुणास्त्रयः ॥१४.९५वृष्यो रक्तास्रपित्तश्रमशमनपटुः शीतलः श्लेस्मदोऽल्पः स्निग्धो हृद्यश्च रुच्यो रचयति च मुदं सूत्रशुद्धिं विधत्ते ।कान्तिं देहस्य दत्ते बलमति कुरुते बृंहणं तृप्तिदायी दन्तैर्निष्पीद्य काण्डं मृदुयतिरसितो मोहनश्चेक्षुदण्डः ॥१४.९६पीयूषोपमितं त्रिदोषशमनं स्याद्दन्तनिष्पीडितं तद्वच्चेद्गृहयन्त्रजं तदपरं श्लेस्मानिलघ्नं कियत् ।एतद्वातहरं तु वातजननं जाड्यप्रतिश्वायदं प्रोक्तं पर्युषितं कफानिलकरं पानीयं इक्षद्भवं ॥१४.९७मधुरं लवणक्षारं स्निग्धं सोष्णं रुचिप्रदं ।वृष्यं वातकफघ्नं च यावनालशरात्रसं ॥१४.९८पक्वेक्षुरसः स्निग्धः स्यात्कफवातनाशनोऽतिगुरुः ।अतिपाकेन विदाहं तनुते पित्तास्रदोषशोषांश्च ॥१४.९९गुडः स्यादिक्षुसारस्तु मधुरो रसपाकजः ।शिशुप्रियः सितादिः स्यादरुणो रसजः स्मृतः ॥१४.१००पित्तघ्नः पवनार्तिजिद्रुचिकरो हृद्यस्त्रिदोषापहः संयोगेन विशेषतो ज्वरहरः संतापशान्तिप्रदः ।विण्मूत्रामयशोधनोऽग्निजननः पाण्डुप्रमेहान्तकः स्निग्धः स्वादुतरो लघुः श्रमहरः पथ्यः पुराणो गुडः ॥१४.१०१स्याद्यावनालरसपाकभवो गुडोऽयं क्षारः कटुः सुमधुरः कफवातहारी ।पित्तप्रदः सततमेष निषेव्यमाणः कण्डूतिकुष्ठजननोऽस्रविदाहहारी ॥१४.१०२शर्करोक्ता तु मीनाण्डी श्वेता मत्स्यण्डिका च सा ।अहिच्छत्रा तु सिकता सिता चैव गुडोद्भवा ॥१४.१०३शर्करा मधुरा शीता पित्तदाहश्रमापहा ।रक्तदोषहरा भ्रान्तिक्रिमिकोपप्रणाशिनी ॥१४.१०४स्निग्धा पुण्ड्रकशर्करा हितकरी क्षीणे क्षयेऽरोचके चक्षुष्या बलवर्धिनी सुमधुरा रूक्षा च वंशेक्षुजा ।वृष्या तृप्तिबलप्रदा श्रमहरा श्यामेक्षुजा शीतला स्निग्धा कान्तिकरी रसालजनिता रक्तेक्षुजा पित्तजित् ॥१४.१०५यावनाली हिमोत्पन्ना हिमानी हिमशर्करा ।क्षुद्रशर्करिका क्षुद्रा गुद्गुडा जालबिन्दुजा ॥१४.१०६हिमजा शर्करा गौल्या सोष्णा तिक्तातिपिच्छिला ।वातघ्नी सारिका रुच्या दाहपित्तास्रदायिनी ॥१४.१०७सितजान्या शर्करजा माधवी मधुशर्करा ।माक्षीकशर्करा प्रोक्ता सिताखण्डश्च खण्डकः ॥१४.१०८सिताखण्डोऽतिमधुरश्चक्षुष्यः छर्दिनाशनः ।कुष्ठव्रणकफश्वासहिक्कापित्तास्रदोषनुत् ॥१४.१०९यवासशर्करा त्वन्या सुधा मोदकमोदकः ।तवराजः खण्डसारः खण्डजा खण्डमोदकः ॥१४.११०तवराजोऽतिमधुरः पित्तश्रमतृषापहः ।वृष्यो विदाहमूर्छार्तिभ्रान्तिशान्तिकरः सरः ॥१४.१११तवराजोद्भवः खण्डः सुधा मोदकजस्तथा ।खण्डजो द्रवजः सिद्धमोदकामृतसारजः ॥१४.११२दाहं निवारयति तापमपाकरोति तृप्तिं नियच्छति निहन्ति च मोहमूर्छां ।श्वासं निवारयति तर्पयतीन्द्रियाणि शीतः सदा सुमधुरः खलु सिद्धिखण्डः ॥१४.११३मधु क्षौद्रं च माक्षीकं माक्षिकं कुसुमासवं ।पुष्पासवं पवित्रं च पित्र्यं पुष्परसाह्वयं ॥१४.११४माक्षिकं भ्रामरं क्षौद्रं पौत्तिकं छात्त्रकं तथा ।आर्घ्यमौद्दालकं दालं इत्यष्टौ मधुजातयः ॥१४.११५नानापुष्परसाहाराः कपिला वनमक्षिकाः ।याः स्थूलास्ताभिरुत्पन्नं मधु माक्षिकमुच्यते ॥१४.११६ये स्निग्धाञ्जनगोलाभाः पुष्पासवपरायणाः ।भ्रमरैर्जनितं तैस्तु भ्रामरं मधु भण्यते ॥१४.११७पिङ्गला मक्षिकाः सूक्ष्माः क्षुद्रा इति हि विश्रुताः ।ताभिरुत्पादितं यत्तु तत्क्षौद्रं मधु कथ्यते ॥१४.११८अन्नजा मक्षिकाः पिङ्गाः पुत्तिका इति कीर्तिताः ।तज्जातं मधु धीमद्भिः पौत्तिकं समुदाहृतं ॥१४.११९छत्त्राकारं तु पटलं सरघाः पीतपिङ्गलाः ।यत्कुर्वन्ति तदुत्पन्नं मधु छात्त्रकं ईरितं ॥१४.१२०मक्षिकास्तीक्ष्णतुण्डा यास्तथा षट्पदसंनिभाः ।तदुद्भूतं यदर्घार्हं तदार्घ्यं मधु वर्ण्यते ॥१४.१२१औद्दालाः कपिलाः कीटा भूमेरुद्दलनाः स्मृताः ।वल्मीकान्तस्तदुत्पन्नमौद्दालकं उदीर्यते ॥१४.१२२इन्द्रनीलदलाकाराः सूक्ष्माश्चिन्वन्ति मक्षिकाः ।यद्वृक्षकोटरान्तस्थं मधु दालमिदं स्मृतं ॥१४.१२३इत्येतस्याष्टधा भेदैरुत्पत्तिः कथिता क्रमात् ।अथ वक्ष्याम्यहं तेषां वर्णवीर्यादिकं क्रमात् ॥१४.१२४माक्षिकं तैलवर्णं स्यात्श्वेतं भ्रामरमुच्यते ।क्षौद्रं तु कपिलाभासं पौत्तिकं घृतसंनिभं ॥१४.१२५आपीतवर्णं छात्त्रं स्यात्पिङ्गं चार्घ्यनामकं ।औद्दालं स्वर्णसदृशं आपीतं दालमुच्यते ॥१४.१२६माक्षिकं मधुरं रूक्षं लघु श्वासादिदोषनुत् ।भ्रामरं पिच्छिलं रूक्षं मधुरं मुखजाड्यजित् ॥१४.१२७क्षौद्रं तु शीतं चक्षुष्यं पिच्छिलं पित्तवातहृत् ।पौत्तिकं मधु रूक्षोष्णं अस्रपित्तादिदाहकृत् ॥१४.१२८श्वित्रमेहक्रिमिघ्नं च विद्याच्छात्त्रं गुणोत्तरं ।आर्घ्यमध्वतिचक्षुष्यं कफपित्तादिदोषहृत् ॥१४.१२९औद्दालकं तु कुष्ठादिदोषघ्नं सर्वसिद्धिदं ।दालं कटु कषायाम्लं मधुरं पित्तदायि च ॥१४.१३०नवं मधु भवेत्स्थौल्यं नातिश्लेष्मकरं परं ।देहस्थौल्यापहं ग्राहि पुराणं मधु लेखनं ॥१४.१३१पक्वं दोषत्रयघ्नं मधु विविधरुजाजाड्यजिह्वामयादिध्वंसं धत्ते च रुच्यं बलमतिधृतिदं वीर्यवृद्धिं विधत्ते ।आमं चेदामगुल्मामयपवनरुजापित्तदाहास्रदोषं हन्याद्वातं च शोषं जनयति नियतं ध्वंसयत्यन्तवृद्धिं ॥१४.१३२व्रणशोधनसंधाने व्रणसंरोपणादिषु ।साधारण्या मधु हितं तत्तुल्या मधुशर्करा ॥१४.१३३उष्णैः सहोष्णकाले वा स्वयमुष्णमथापि वा ।आमं मधु मनुष्याणां विषवत्तापदायकं ॥१४.१३४कीटकादियुतमम्लदूषितं यच्च पर्युषितकं मधु स्वतः ।कण्टकोटरगतं च मेचकं तच्च गेहजनितं च दोषकृत् ॥१४.१३५दण्डैर्निहत्य यदुपात्तमपास्तदंशं तादृग्विधं मधु रसायनयोगयोग्यं ।हिक्कागुदाङ्कुरविशोफकफव्रणादिदोषापहं भवति दोषदं अन्यथा चेत् ॥१४.१३६माध्वी सिता मधूत्पन्ना मधुजा मधुशर्करा ।माक्षीकशर्करा चैषा क्षौद्रजा क्षौद्रशर्करा ॥१४.१३७यद्गुणं यन्मधु प्रोक्तं तद्गुणा तस्य शर्करा ।विशेषाद्बलवृष्यं च तर्पणं क्षीणदेहिनां ॥१४.१३८मद्यं सुरा प्रसन्ना स्यान्मदिरा वारुणी वरा ।मत्ता कादम्बरी शीता चपला कामिनी प्रिया ॥१४.१३९मदगन्धा च माध्वीकं मधु संधानं आसवः ।परिसृतामृता वीरा मेधावी मदनी च सा ॥१४.१४०सुप्रतिभा मनोज्ञा च विपाना मोदिनी तथा ।हालाहलगुणारिष्टं सरकोऽथ मधूलिका ।मदोत्कटा महानन्दा द्वात्रिंशदभिधाः क्रमात् ॥१४.१४१मद्यं सुमधुराम्लं च कफमारुतनाशनं ।बलदीप्तिकरं हृद्यं सरं एतन्मदावहं ॥१४.१४२स्याद्धातकीरसगुडादिकृता तु गौडी पुष्पद्रवादिमधुसारमयी तु माध्वी ।पैष्टी पुनर्विविधधान्यविकारजाता ख्याता मदाधिकतयात्र च पूर्वपूर्वा ॥१४.१४३तालादिरसनिर्यासैः सैन्धीं हालां सुरां जगुः ।नानाद्रव्यकदम्बेन मद्यं कादम्बरं स्मृतं ।सैन्धी कादम्बरी चैव द्विविधं मद्यलक्षणं ॥१४.१४४गौडी तीक्ष्णोष्णमधुरा वातहृत्पित्तकारिणी ।बलकृद्दीपनी पथ्या कान्तिकृत्तर्पणी परा ॥१४.१४५माध्वी तु मधुरा हृद्या नात्युष्णा पित्तवातहृत् ।पाण्डुकामलगुल्मार्शःप्रमेहशमनी परा ॥१४.१४६पैष्टी कटूष्णा तीक्ष्णा स्यान्मधुरा दीपनी परा ॥१४.१४७सैन्धी शीता कषायाम्ला पित्तहृद्वातदा च सा ॥१४.१४८गौडी तु शिशिरे पेया पैष्टी हेमन्तवर्षयोः ।शरद्ग्रीष्मवसन्तेषु माध्वी ग्राह्या न चान्यथा ॥१४.१४९कादम्बरीशर्करजादि मद्यं सुशीतलं वृष्यकरं मदाढ्यं ।माध्वीसमं स्यात्तृणवृक्षजातं मद्यं सुशीतं गुरु तर्पणं च ॥१४.१५०सर्वेषां तृणवृक्षाणां निर्यासं शीतलं गुरु ।मोहनं बलकृद्धृद्यं तृष्णासंतापनाशनं ॥१४.१५१ऐक्षवं तु भवेन्मद्यं शिशिरं च मदोत्कटं ।यवधान्यकृतं मद्यं गुरु विष्टम्भदायकं ॥१४.१५२शर्कराधातकीतोये कृतं शीतं मनोहरं ।शार्करं कथ्यते मद्यं वृष्यं दीपनमोहनं ॥१४.१५३अन्ये द्वादशधा मद्यभेदानाहुर्मनीषिणः ।उक्तेष्वन्तर्भवन्तीति नान्यैस्तु पृथगीरिताः ॥१४.१५४मद्यं नवं सर्वविकारहेतुः सर्वं तु वातादिकदोषदायि ।जीर्णं तु सर्वं सकलामयघ्नं बलप्रदं वृष्यकरं च दीपनं ॥१४.१५५मद्यप्रयोगं कुर्वन्ति शूद्रादिषु महार्तिषु ।द्विजैस्त्रिभिस्तु न ग्राह्यं यद्यप्युज्जीवयेन्मृतं ॥१४.१५६इत्थं वार्धिनदीनदह्रदसरःकुल्यादितीरान्तरप्रक्रान्तेक्षुगुडादिमाक्षिकभिदामद्यप्रभेदानपि ।प्रागस्मात्प्रतिबुध्य नामगुणतो निर्णीतयोगौचिती याथातथ्यवशाद्विनिश्चितमनाः कुर्वीत वैद्यः क्रियां ॥१४.१५७यै रस्यमाना हि नृणां यथास्वं दोषान्निरस्यन्त्यपि दुर्निरासान् ।तेषां रसानां वसतिः किलायं वर्गः प्रसिद्धो रसवर्गनाम्ना ॥१४.१५८निस्यन्दं दुग्धसिन्धावमृतमथ समस्तौषधीनां न दोहं तापाहं नो चिकित्सामभिलषति रसं नापि दोषाकरस्य ।लब्ध्वा यत्सौहृदय्यं जगति बुधजनस्तेन वर्गः कृतोऽस्मिन्पानीयादिः प्रसिद्धिं व्रजति मनुमितो नामगीर्मौलिरत्ने ॥१४.१५९ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP